Bala Kanda – Sarga 72 (Valmiki Ramayana)

Marriage alliance to Bharata, Shatrughna

Valmiki Ramayana – Kanda 1 – Sarga 72

तमुक्तवंतं वैदेहं विश्वामित्रो महामुनिः |
उवाच वचनं वीरं वसिष्ठसहितो नृपम् || १-७२-१

अचिंत्यान्यप्रमेयाणि कुलानि नरपुंगव |
इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन || १-७२-२

सदृशो धर्मसंबन्धः सदृशो रूपसंपदा |
रामलक्ष्मणयो राजन् सीता चोर्मिलया सह || १-७२-३

वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम |
भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः || १-७२-४

अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि |
सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे || १-७२-५

भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः |
वरयेम सुते राजंस्तयोरर्थे महात्मनोः || १-७२-६

पुत्रा दशरथस्येमे रूपयौवनशालिनः |
लोकपालसमाः सर्वे देवतुल्यपराक्रमाः || १-७२-७

उभयोरपि राजेन्द्र संबन्धेनानुबध्यताम् |
इक्ष्वाकोः कुलमव्यग्रं भवतः पुण्यकर्मणः || १-७२-८

विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा |
जनकः प्रांजलिर्वाक्यमुवाच मुनिपुंगवौ || १-७२-९

कुलं धन्यमिदं मन्ये येषां तौ मुनिपुंगवौ |
सदृशं कुलसंबन्धं यदाज्ञापयथः स्वयम् || १-७२-१०

एवं भवतु भद्रं वः कुशध्वजसुते इमे |
पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ || १-७२-११

एकाह्ना राजपुत्रीणां चतसॄणां महामुने |
पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः || १-७२-१२

उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः |
वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः || १-७२-१३

एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृतांजलिः |
उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत् || १-७२-१४

परो धर्मः कृतो मह्यं शिष्योऽस्मि भवतोः सदा |
इमान्यासनमुख्यानि आस्यतां मुनिपुंगवौ || १-७२-१५

यथा दशरथस्येयं तथाऽयोध्या पुरी मम |
प्रभुत्वे नास्ति सन्देहो यथार्हं कर्तुमर्हथ || १-७२-१६

तथा ब्रुवति वैदेहे जनके रघुनंदनः |
राजा दशरथो हृष्टः प्रत्युवाच महीपतिम् || १-७२-१७

युवामसंख्येयगुणौ भ्रातरौ मिथिलेश्वरौ |
ऋषयो राजसंघाश्च भवद्भ्यामभिपूजिताः || १-७२-१८

स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामः स्वमालयम् |
श्राद्धकर्माणि विधिवत् विधास्येति चाब्रवीत् || १-७२-१९

तमापृष्ट्वा नरपतिं राजा दशरथस्तदा |
मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः || १-७२-२०

स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः |
प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम् || १-७२-२१

गवां शतसहस्रं च ब्राह्मणेभ्यो नराधिपः |
एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मतः || १-७२-२२

सुवर्णशृंगाः संपन्नाः सवत्साः कांस्यदोहनाः |
गवां शतसहस्राणि चत्वारि पुरुषर्षभः || १-७२-२३
वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनंदनः |
ददौ गोदानमुद्दिश्य पुत्रा पुत्रवत्सलः || १-७२-२४

सु सुतैः कृतगोदानैर्वृतः सः नृपतिस्तदा |
लोकपालैरिवाभाति वृतः सौम्यः प्रजापतिः || १-७२-२५

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे द्विसप्ततितमः सर्गः

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।