Marriage alliance to Bharata, Shatrughna
Valmiki Ramayana – Kanda 1 – Sarga 72
तमुक्तवंतं वैदेहं विश्वामित्रो महामुनिः |
उवाच वचनं वीरं वसिष्ठसहितो नृपम् || १-७२-१
अचिंत्यान्यप्रमेयाणि कुलानि नरपुंगव |
इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन || १-७२-२
सदृशो धर्मसंबन्धः सदृशो रूपसंपदा |
रामलक्ष्मणयो राजन् सीता चोर्मिलया सह || १-७२-३
वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम |
भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः || १-७२-४
अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि |
सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे || १-७२-५
भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः |
वरयेम सुते राजंस्तयोरर्थे महात्मनोः || १-७२-६
पुत्रा दशरथस्येमे रूपयौवनशालिनः |
लोकपालसमाः सर्वे देवतुल्यपराक्रमाः || १-७२-७
उभयोरपि राजेन्द्र संबन्धेनानुबध्यताम् |
इक्ष्वाकोः कुलमव्यग्रं भवतः पुण्यकर्मणः || १-७२-८
विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा |
जनकः प्रांजलिर्वाक्यमुवाच मुनिपुंगवौ || १-७२-९
कुलं धन्यमिदं मन्ये येषां तौ मुनिपुंगवौ |
सदृशं कुलसंबन्धं यदाज्ञापयथः स्वयम् || १-७२-१०
एवं भवतु भद्रं वः कुशध्वजसुते इमे |
पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ || १-७२-११
एकाह्ना राजपुत्रीणां चतसॄणां महामुने |
पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः || १-७२-१२
उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः |
वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः || १-७२-१३
एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृतांजलिः |
उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत् || १-७२-१४
परो धर्मः कृतो मह्यं शिष्योऽस्मि भवतोः सदा |
इमान्यासनमुख्यानि आस्यतां मुनिपुंगवौ || १-७२-१५
यथा दशरथस्येयं तथाऽयोध्या पुरी मम |
प्रभुत्वे नास्ति सन्देहो यथार्हं कर्तुमर्हथ || १-७२-१६
तथा ब्रुवति वैदेहे जनके रघुनंदनः |
राजा दशरथो हृष्टः प्रत्युवाच महीपतिम् || १-७२-१७
युवामसंख्येयगुणौ भ्रातरौ मिथिलेश्वरौ |
ऋषयो राजसंघाश्च भवद्भ्यामभिपूजिताः || १-७२-१८
स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामः स्वमालयम् |
श्राद्धकर्माणि विधिवत् विधास्येति चाब्रवीत् || १-७२-१९
तमापृष्ट्वा नरपतिं राजा दशरथस्तदा |
मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः || १-७२-२०
स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः |
प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम् || १-७२-२१
गवां शतसहस्रं च ब्राह्मणेभ्यो नराधिपः |
एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मतः || १-७२-२२
सुवर्णशृंगाः संपन्नाः सवत्साः कांस्यदोहनाः |
गवां शतसहस्राणि चत्वारि पुरुषर्षभः || १-७२-२३
वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनंदनः |
ददौ गोदानमुद्दिश्य पुत्रा पुत्रवत्सलः || १-७२-२४
सु सुतैः कृतगोदानैर्वृतः सः नृपतिस्तदा |
लोकपालैरिवाभाति वृतः सौम्यः प्रजापतिः || १-७२-२५
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे द्विसप्ततितमः सर्गः