Bala Kanda – Sarga 70 (Valmiki Ramayana)

Ikshvaaku’s lineage detailed

Valmiki Ramayana – Kanda 1 – Sarga 70

ततः प्रभाते जनकः कृतकर्मा महर्षिभिः |
उवाच वाक्यं वाक्यज्ञः शतानंदं पुरोहितम् || १-७०-१

भ्राता मम महातेजा यवीयानतिधार्मिकः |
कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम् || १-७०-२
वार्या फलकपर्यन्तां पिबन्निक्षुमतीं नदीम् |
सांकाश्यां पुण्यसंकाशां विमानमिव पुष्पकम् || १-७०-३

तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः |
प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह || १-७०-४

एवमुक्ते तु वचने शतानंदस्य संनिधौ |
आगताः केचिदव्यग्रा जनकस्तान् समादिशत् || १-७०-५

शासनात्तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः |
समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा || १-७०-६

सांकाश्यां ते समागम्य ददृशुश्च कुशध्वजम् |
न्यवेदयन् यथावृत्तं जनकस्य च चिन्तितम् || १-७०-७

तद्वृत्तं नृपतिः श्रुत्वा दूतश्रेष्ठैर्महाजवैः |
आज्ञया तु नरेन्द्रस्य आजगाम कुशध्वजः || १-७०-८

स ददर्श महात्मानं जनकं धर्मवत्सलम् |
सोऽभिवाद्य शतानंदं जनकं चातिधार्मिकम् || १-७०-९
राजार्हं परमं दिव्यमासनं चाध्यरोहत |

उपविष्टावुभौ तौ तु भ्रातरावमितौजसौ || १-७०-१०
प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम् |

गच्छ मंत्रिपते शीघ्रमैक्ष्वाकममितप्रभम् || १-७०-११
आत्मजैः सह दुर्धर्षमानयस्व समंत्रिणम् |

औपकार्यां स गत्वा तु रघूणां कुलवर्धनम् || १-७०-१२
ददर्श शिरसा चैनमभिवाद्येदमब्रवीत् |

अयोध्याधिपते वीर वैदेहो मिथिलाधिपः || १-७०-१३
स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम् |

मंत्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस्तदा || १-७०-१४
सबन्धुरगमत्तत्र जनको यत्र वर्तते |

राजा च मंत्रिसहितः सोपाध्यायः सबांधवः || १-७०-१५
वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत् |

विदितं ते महाराज इक्ष्वाकुकुलदैवतम् || १-७०-१६
वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः |

विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः || १-७०-१७
एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम् |
तूष्णींभूते दशरथे वसिष्ठो भगवानृषिः || १-७०-१८
उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसाम् |

अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः || १-७०-१९
तस्मान्मरीचिः संजज्ञे मरीचेः कश्यपः सुतः |
विवस्वान् कश्यपाज्जज्ञे मनुर्वैवस्वतः स्मृतः || १-७०-२०

मनुः प्रजापतिः पूर्वमिक्ष्वाकुश्च मनोः सुतः |
तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् || १-७०-२१

इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरित्येव विश्रुतः |
कुक्षेरथात्मजः श्रीमान् विकुक्षिरुपपद्यत || १-७०-२२

विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान् |
बाणस्य तु महातेजा अनरण्यः प्रतापवान् || १-७०-२३

अनरण्यात्पृथुर्जज्ञे त्रिशंकुस्तु पृथोः सुतः |
त्रिशंकोरभवत्पुत्रो धुन्धुमारो महायशाः || १-७०-२४

धुन्धुमारान्महातेजा युवनाश्वो महारथः |
युवनाश्वसुतस्त्वासीन्मान्धाता पृथिवीपतिः || १-७०-२५

मान्धातुस्तु सुतः श्रीमान् सुसन्धिरुदपद्यत |
सुसंधेरपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् || १-७०-२६

यशस्वी ध्रुवसंधेस्तु भरतो नाम नामतः |
भरतात्तु महातेजा असितो नाम जायत || १-७०-२७

यस्यैते प्रतिराजान उदपद्यन्त शात्रवः |
हैहयास्तालजंघाश्च शूराश्च शशबिंदवः || १-७०-२८

तांस्तु स प्रतियुद्ध्यन् वै युद्धे राजा प्रवासितः |
हिमवन्तमुपागम्य भार्याभ्यां सहितस्तदा || १-७०-२९

असितोऽल्पबलो राजा कालधर्ममुपेयिवान् |
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतम् || १-७०-३०
एका गर्भविनाशार्थं सपत्न्यै सगरं ददौ |

ततः शैलवरे रम्ये बभूवाभिरतो मुनिः || १-७०-३१
भार्गवश्च्यवनो नाम हिमवंतमुपाश्रितः |

तत्र चैका महाभागा भार्गवं देववर्चसम् || १-७०-३२
ववन्दे पद्मपत्राक्षी कांक्षन्ती सुतमुत्तमम् |

तमृषिं साभ्युपागम्य कालिन्दी चाभ्यवादयत् || १-७०-३३
स तामभ्यवदद्विप्रः पुत्रेप्सुं पुत्रजन्मनि |

तव कुक्षौ महाभागे सुपुत्रः सुमहाबलः || १-७०-३४
महावीर्यो महातेजा अचिरात् संजनिष्यति |
गरेण सहितः श्रीमान् मा शुचः कमलेक्षणे || १-७०-३५

च्यवनं च नमस्कृत्य राजपुत्री पतिव्रता |
पत्या विरहिता तस्मात् पुत्रं देवी व्यजायत || १-७०-३६

सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया |
सह तेन गरेणैव संजातः सगरोऽभवत् || १-७०-३७

सगरस्यासमंजस्तु असमंजादथांशुमान् |
दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः || १-७०-३८

भगीरथात्ककुत्स्थश्च ककुत्स्थस्य रघुस्तथा |
रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः || १-७०-३९
कल्माषपादो ह्यभवत्तस्माज्जातस्तु शङ्खणः |

सुदर्शनः शंखणस्य अग्निवर्णः सुदर्शनात् || १-७०-४०
शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः |
मरोः प्रशुश्रुकस्त्वासीदंबरीषः प्रशुश्रुकात् || १-७०-४१

अंबरीषस्य पुत्रोऽभून्नहुषश्च महीपतिः |
नहुषस्य ययातिस्तु नाभागस्तु ययातिजः || १-७०-४२

नाभागस्य बभूवाजः अजाद्दशरथोऽभवत् |
अस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ || १-७०-४३

आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम् |
इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम् || १-७०-४४
रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप |
सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि || १-७०-४५

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे सप्ततितमः सर्गः

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।