Bala Kanda – Sarga 7 (Valmiki Ramayana)

Estimable nature of king dasharatha’s ministers

Valmiki Ramayana – kanda 1 – Sarga 7

तस्यामात्या गुणैरासन्निक्ष्वाकोस्तु महात्मनः |
मंत्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः || १-७-१

अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः |
शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः || १-७-२

धृष्टिर्जयन्तो विजयो सुराष्ट्रो राष्ट्रवर्धनः |
अकोपो धर्मपालश्च सुमंत्रश्चाष्टमोऽभवत् || १-७-३

ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ |
वशिष्ठो वामदेवश्च मंत्रिणश्च तथापरे || १-७-४

सुयज्ञोऽप्यथ जाबालिः काश्यपोऽप्यथ गौतमः |
मार्कण्डेयस्तु दीर्घायुस्तथा कात्यायनो द्विजः || १-७-५
एतैर्ब्रह्मर्षिभिर्नित्यमृत्विजस्तस्य पौर्वकाः |

विद्याविनीता ह्रीमंतः कुशला नियतेन्द्रियाः || १-७-६
श्रीमन्तश्च महात्मानः शास्त्रज्ञा धृढविक्रमाः |
कीर्तिमन्तः प्रणिहिता यथावचनकारिणः || १-७-७
तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः |

क्रोधात्कामार्थहेतोर्वा न ब्रूयुरनृतं वचः || १-७-८
तेषामविदितं किंचित्स्वेषु नास्ति परेषु वा |
क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् || १-७-९

कुशला व्यवहारेषु सौहृदेषु परीक्षिताः |
प्राप्तकालं यथादण्डं धारयेयुः सुतेष्वपि || १-७-१०

कोशसंग्रहणे युक्ता बलस्य च परिग्रहे |
अहितं चापि पुरुषं न हिंस्युरविदूषकम् || १-७-११

वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः |
शुचीनां रक्षितारश्च नित्यं विषयवासिनाम् || १-७-१२

ब्रह्म क्षत्रमहिंसन्तस्ते कोशं समपूरयन् |
सुतीक्ष्णदण्डाः संप्रेक्ष्य पुरुषस्य बलाबलम् || १-७-१३

शुचीनामेकबुद्धीनां सर्वेषां संप्रजानताम् |
नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित् || १-७-१४

कश्चिन्न दुष्टस्तत्रासीत्परदाररतो नरः |
प्रशांतं सर्वमेवासीद्राष्ट्रं पुरवरं च तत् || १-७-१५

सुवाससः सुवेषाश्च ते च सर्वे शुचिव्रताः |
हितार्थं च नरेन्द्रस्य जाग्रतो नयचक्षुषा || १-७-१६

गुरोर्गुणगृहीताश्च प्रख्याताश्च पराक्रमे |
विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयाः || १-७-१७

अभितो गुणवन्तश्च न चासन् गुणवर्जिताः |
सन्धिविग्रहतत्त्वज्ञाः प्रकृत्या संपदान्विताः | १-७-१८

मंत्रसंवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु |
नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः || १-७-१९

ईदृशैस्तैरमात्यैश्च राजा दशरथोऽनघः |
उपपन्नो गुणोपेतैरन्वशासद्वसुंधराम् || १-७-२०

अवेक्षमाणश्चारेण प्रजा धर्मेण रक्षयन् |
प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन् || १-७-२१
विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसंगरः |
स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम् || १-७-२२

नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः |
मित्रवान्नतसामन्तः प्रतापहतकण्टकः |
स शशास जगद्राजा दिवं देवपतिर्यथा || १-७-२३

तैर्मंत्रिभिर्मंत्रहिते निविष्टैः
वृतोऽनुरक्तैः कुशलैः समर्थैः |
स पार्थिवो दीप्तिमवाप युक्तः
तेजोमयैर्गोभिरिवोदितोऽर्कः || १-७-२४

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे सप्तमः सर्गः

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।