Janaka sends message to Ayodhya
Valmiki Ramayana – Kanda 1 – Sarga 68
जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः |
त्रिरात्रमुषिताः मार्गे तेऽयोध्यां प्राविशन् पुरीम् || १-६८-१
ते राजवचनाद्गत्वा राजवेश्म प्रवेशिताः |
ददृशुर्देवसंकाशं वृद्धं दशरथं नृपम् || १-६८-२
बद्धाञ्जलिपुटाः सर्वे दूता विगतसाध्वसाः |
राजानं प्रश्रितं वाक्यमब्रुवन्मधुराक्षरम् || १-६८-३
मैथिलो जनको राजा साग्निहोत्रपुरस्कृतः |
मुहुर्मुहुर्मधुरया स्नेहसंरक्तया गिरा || १-६८-४
कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम् |
जनकस्त्वां महाराज पृच्छते सपुरःसरम् || १-६८-५
पृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिपः |
कौशिकानुमते वाक्यं भवन्तमिदमब्रवीत् || १-६८-६
पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा |
राजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः || १-६८-७
सेयं मम सुता राजन् विश्वामित्रपुरस्कृतैः |
यदृच्छयागतैर्वीरैर्निर्जिता तव पुत्रकैः || १-६८-८
तच्च रत्नं धनुर्दिव्यं मध्ये भग्नं महात्मना |
रामेण हि महाबाहो महत्यां जनसंसदि || १-६८-९
अस्मै देया मया सीता वीर्यशुल्का महात्मने |
प्रतिज्ञां तर्तुमिच्छामि तदनुज्ञातुमर्हसि || १-६८-१०
सोपाध्यायो महाराज पुरोहितपुरस्कृतः |
शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ || १-६८-११
प्रतिज्ञां मम राजेन्द्र निर्वर्तयितुमर्हसि |
पुत्रयोरुभयोरेव प्रीतिं त्वमपि लप्स्यसे || १-६८-१२
एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत् |
विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः || १-६८-१३
दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः |
वसिष्ठं वामदेवं च मंत्रिणश्चैवमब्रवीत् || १-६८-१४
गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः |
लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ || १-६८-१५
दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना |
संप्रदानं सुतायास्तु राघवे कर्तुमिच्छति || १-६८-१६
यदि वो रोचते वृत्तं जनकस्य महात्मनः |
पुरीं गच्छामहे शीघ्रं मा भूत्कालस्य पर्ययः || १-६८-१७
मंत्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः |
सुप्रीतश्चाब्रवीद्राजा श्वो यात्रेति च मंत्रिणः || १-६८-१८
मंत्रिणस्तु नरेन्द्रस्य रात्रिं परमसत्कृताः |
ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः || १-६८-१९
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे अष्टषष्टितमः सर्गः