Legend of Vishvamitra continues
Valmiki Ramayana – Kanda 1 – Sarga 63
पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम् |
अभ्यागच्छन् सुराः सर्वे तपःफलचिकीर्षवः || १-६३-१
अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः |
ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः || १-६३-२
तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात् |
विश्वामित्रो महातेजा भूयस्तेपे महत्तपः || १-६३-३
ततः कालेन महता मेनका परमाप्सराः |
पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे || १-६३-४
तां ददर्श महातेजा मेनकां कुशिकात्मजः |
रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा || १-६३-५
दृष्ट्वा कन्दर्पवशगो मुनिस्तामिदमब्रवीत् |
अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे || १-६३-६
अनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम् |
इत्युक्ता सा वरारोहा तत्र वासमथाकरोत् || १-६३-७
तपसो हि महाविघ्नो विश्वामित्रमुपागतम् |
तस्यां वसन्त्यां वर्षाणि पंच पंच च राघव || १-६३-८
विश्वामित्राश्रमे सौम्य सुखेन व्यतिचक्रमुः |
अथ काले गते तस्मिन् विश्वामित्रो महामुनिः || १-६३-९
सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः |
बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनंदन || १-६३-१०
सर्वं सुराणां कर्मैतत्तपोऽपहरणं महत् |
अहो रात्रापदेशेन गताः संवत्सरा दश || १-६३-११
काममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः |
विनिःश्वसन् मुनिवरः पश्चात्तापेन दुःखितः || १-६३-१२
भीतामप्सरसं दृष्ट्वा वेपन्तीं प्रांजलिं स्थिताम् |
मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः || १-६३-१३
उत्तरं पर्वतं राम विश्वामित्रो जगाम ह |
स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः || १-६३-१४
कौशिकीतीरमासाद्य तपस्तेपे दुरासदम् |
तस्य वर्षसहस्राणि घोरं तप उपासतः || १-६३-१५
उत्तरे पर्वते राम देवतानामभूद्भयम् |
आमंत्रयन् समागम्य सर्वे सर्षिगणाः सुराः || १-६३-१६
महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः |
देवतानां वचः श्रुत्वा सर्वलोकपितामहः || १-६३-१७
अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् |
महर्षे स्वागतं वत्स तपसोग्रेण तोषितः || १-६३-१८
महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक |
ब्रह्मणः स वचः श्रुत्वा विश्वामित्रस्तपोधनः || १-६३-१९
प्रांजलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् |
ब्रह्मर्षिशब्दमतुलं स्वार्जितैः कर्मभिः शुभैः || १-६३-२०
यदि मे भगवानाह ततोऽहं विजितेन्द्रियः |
तमुवाच ततो ब्रह्मा न तावत्त्वं जितेन्द्रियः || १-६३-२१
यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः |
विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः || १-६३-२२
ऊर्ध्वबाहुर्निरालंबो वायुभक्षस्तपश्चरन् |
धर्मे पंचतपा भूत्वा वर्षास्वाकाशसंश्रयः || १-६३-२३
शिशिरे सलिले शायी रात्र्यहानि तपोधनः |
एवं वर्षसहस्रं हि तपो घोरमुपागमत् || १-६३-२४
तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ |
संतापः सुमहानासीत् सुराणां वासवस्य च || १-६३-२५
रंभामप्सरसं शक्रः सह सर्वैर्मरुद्गणैः |
उवाचात्महितं वाक्यमहितं कौशिकस्य च || १-६३-२६
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे त्रिषष्टितमः सर्गः