Bala Kanda – Sarga 60 (Valmiki Ramayana)

Trishanku’s ascension to heaven

Valmiki Ramayana – Kanda 1 – Sarga 60

तपोबलहतान् ज्ञात्वा वासिष्ठान् समहोदयान् |
ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत || १-६०-१

अयमिक्ष्वाकुदायादस्त्रिशंकुरिति विश्रुतः |
धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः || १-६०-२
स्वेनानेन शरीरेण देवलोकजिगीषया |

यथायं स्वशरीरेण देवलोकं गमिष्यति || १-६०-३
तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह |

विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः || १-६०-४
ऊचुः समेताः सहसा धर्मज्ञा धर्मसंहितम् |

अयं कुशिकदायादो मुनिः परमकोपनः || १-६०-५
यदाह वचनं सम्यगेतत् कार्यं न संशयः |
अग्निकल्पो हि भगवान् शापं दास्यति रोषितः || १-६०-६

तस्मात् प्रवर्त्यतां यज्ञः सशरीरो यथा दिवम् |
गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा || १-६०-७
ततः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठत |

एवमुक्त्वा महर्षयः संजह्रुस्ताः क्रियास्तदा || १-६०-८
याजकश्च महातेजा विश्वामित्रोऽभवत् क्रतौ |

ऋत्विजश्चानुपूर्व्येण मंत्रवन्मंत्रकोविदाः || १-६०-९
चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि |

ततः कालेन महता विश्वामित्रो महातपाः || १-६०-१०
चकारावाहनं तत्र भागार्थं सर्वदेवताः |

नाभ्यागमंस्तदा भागार्थं सर्वदेवताः || १-६०-११
ततः कोपसमाविष्टो विश्वमित्रो महामुनिः |
स्रुवमुद्यम्य सक्रोधस्त्रिशंकुमिदमब्रवीत् || १-६०-१२

पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर |
एष त्वां स्वशरीरेण नयामि स्वर्गमोजसा || १-६०-१३
दुष्प्रापं स्वशरीरेण दिवं गच्छ नराधिप |

स्वार्जितं किंचिदप्यस्ति मया हि तपसः फलम् || १-६०-१४
राजन् त्वं तेजसा तस्य सशरीरो दिवं व्रज |

उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः || १-६०-१५
दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा |

स्वर्गलोकं गतं दृष्ट्वा त्रिशंकुं पाकशासनः || १-६०-१६
सह सर्वैः सुरगणैरिदं वचनमब्रवीत् |

त्रिशंको गच्छ भूयस्त्वं नासि स्वर्गकृतालयः || १-६०-१७
गुरुशापहतो मूढ पतभूमिमवाग् शिराः |

एवमुक्तो महेन्द्रेण त्रिशंकुरपतत् पुनः || १-६०-१८
विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम् |

तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः || १-६०-१९
रोषमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् |

ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः || १-६०-२०
सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः |
नक्षत्रमालामपरामसृजत् क्रोधमूर्च्छितः || १-६०-२१
दक्षिणां दिशमास्थाय मुनिमध्ये महायशाः |

सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः || १-६०-२२
अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिंद्रकः |
दैवतान्यपि स क्रोधात् स्रष्टुं समुपचक्रमे || १-६०-२३

ततः परमसंभ्रान्ताः सर्षिसंघाः सुरासुराः |
विश्वामित्रं महात्मानमूचुः सानुनयं वचः || १-६०-२४

अयं राजा महाभाग गुरुशापपरिक्षतः |
सशरीरो दिवं यातुं नार्हत्येव तपोधन || १-६०-२५

तेषां तद्वचनं श्रुत्वा देवानां मुनिपुंगवः |
अब्रवीत् सुमहद्वाक्यं कौशिकः सर्वदेवताः || १-६०-२६

सशरीरस्य भद्रं वस्त्रिशंकोरस्य भूपतेः |
आरोहणं प्रतिज्ञातं नानृतं कर्तुमुत्सहे || १-६०-२७

स्वर्गोऽस्तु सशरीरस्य त्रिशंकोरस्य शाश्वतः |
नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ || १-६०-२८
यावल्लोका धरिष्यन्ति तिष्ठन्त्येतानि सर्वशः |
यत्कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ || १-६०-२९

एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुंगवम् |
एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः || १-६०-३०
गगने तान्यनेकानि वैश्वानरपथाद्बहिः |
नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिषु जाज्वलन् || १-६०-३१
अवाग् शिरास्त्रिशंकुश्च तिष्ठत्वमरसंनिभः |

अनुयास्यन्ति चैतानि ज्यतींषि नृपसत्तमम् || १-६०-३२
कृतार्थं कीर्तिमन्तं च स्वर्गलोकगतं यथा |

विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः || १-६०-३३
ऋषिमध्ये महातेजा बाढमित्याह देवताः |

ततो देवा महात्मानो ऋषयश्च तपोधनाः |
जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम || १-६०-३४

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे षष्टितमः सर्गः

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।