Bala Kanda – Sarga 6 (Valmiki Ramayana)

Splendour of ayodhya city described

Valmiki Ramayana – kanda 1 – Sarga 6

तस्यां पुर्यामयोध्यायां वेदवित्सर्वसंग्रहः |
दीर्घदर्शी महातेजाः पौरजानपदप्रियः || १-६-१

इक्ष्वाकूणामतिरथो यज्वा धर्मपरो वशी |
महर्षिकल्पो राजर्षिः त्रिषु लोकेषु विश्रुतः || १-६-२

बलवान्निहतामित्रो मित्रवान्विजितेन्द्रियः |
धनैश्च संचयैश्चान्यैः शक्रवैश्रवणोपमः || १-६-३

यथा मनुर्महातेजा लोकस्य परिरक्षिता |
तथा दशरथो राजा लोकस्य परिरक्षिता || १-६-४

तेन सत्याभिसंधेन त्रिवर्गमनुतिष्ठता |
पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती || १-६-५

तस्मिन्पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः |
नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः ||१-६-६

नाल्पसंनिचयः कश्चिदासीत्तस्मिन्पुरोत्तमे |
कुटुंबी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान् || १-६-७

कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् |
द्रष्टुं शक्यमयोध्यायां नाविद्वान्न च नास्तिकः || १-६-८

सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः |
उदिताः शीलवृत्ताभ्यां महर्षय इवामलाः || १-६-९

नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान् |
नामृष्टो नानुलिप्ताङ्गो नासुगन्धश्च विद्यते || १-६-१०

नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् |
नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान् || १-६-११

नानाहिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः |
कश्चिदासीदयोध्यायां न चावृत्तो न संकरः || १-६-१२

स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः |
दानाध्यानशीलाश्च संयताश्च प्रतिग्रहे || १-६-१३

न नास्तिको नानृतको न कश्चिदबहुश्रुतः |
नासूयको न चाशक्तो नाविद्वान्विद्यते तदा || १-६-१४

नाषडङ्गविदत्रासीन्नाव्रतो नासहस्रदः |
न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन ||१-६-१५

कश्चिन्नरो वा नारी वा नाश्रीमान्नाप्यरूपवान् |
द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् || १-६-१६

वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः |
कृतज्ञाश्च वदान्याश्च शूरा विक्रमसंयुताः || १-६-१७

दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः |
सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे || १-६-१८

क्षत्रं ब्रह्ममुखं चासीद्वैश्याः क्षत्रमनुव्रताः |
शूद्राः स्वधर्मनिरतास्त्रीन्वर्णानुपचारिणः || १-६-१९

सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता |
यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता || १-६-२०

योधानामग्निकल्पानां पेशलानाममर्षिणाम् |
संपूर्णा कृतविद्यानां गुहा केसरिणामिव || १-६-२१

कांभोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः |
वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः || १-६-२२

विंध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि |
मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः || १-६-२३

ऐरावतकुलीनैश्च महापद्मकुलैस्तथा |
अंजनादपि निष्क्रान्तैः वामनादपि च द्विपैः || १-६-२४

भद्रैर्मन्द्रैर्मृगैश्चैव भद्रमन्द्रमृगैस्तथा |
भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी |
नित्यमत्तैः सदा पूर्णा नागैरचलसन्निभैः || १-६-२५

सा योजने च द्वे भूयः सत्यनामा प्रकाशते |
यस्यां दशरथो राजा वसन् जगदपालयत् || १-६-२६

तां पुरीं स महातेजा राजा दशरथो महान् |
शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः ||१-६-२७

तां सत्यनामां दृढतोरणार्गलाम्
गृहैर्विचित्रैरुपशोभितां शिवाम् |
पुरीमयोध्यां नृसहस्रसंकुलाम्
शशास वै शक्रसमो महीपतिः || १-६-२८

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे षष्ठः सर्गः

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।