Trishanku seeks shelter of Vishvamitra
Valmiki Ramayana – Kanda 1 – Sarga 58
ततः त्रिशंकोर्वचनं श्रुत्वा क्रोधसमन्वितम् |
ऋषिपुत्रशतं राम राजानमिदमब्रवीत् || १-५८-१
प्रत्याख्यातोऽसि दुर्बुद्धे गुरुणा सत्यवादिना |
तं कथं समतिक्रम्य शाखान्तरमुपेयिवान् || १-५८-२
इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः |
न चातिक्रमितुं शक्यं वचनं सत्यवादिनः || १-५८-३
अशक्यमिति सोवाच वसिष्ठो भगवानृषिः |
तं वयं वै समाहर्तुं क्रतुं शक्ताः कथंचन || १-५८-४
बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः |
याजने भगवान् शक्तस्त्रैलोक्यस्यापि पार्थिव || १-५८-५
अवमानं कथं कर्तुं तस्य शक्ष्यामहे वयम् |
तेषां तद्वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम् || १-५८-६
स राजा पुनरेवैतानिदं वचनमब्रवीत् |
प्रत्याख्यातो भगवता गुरुपुत्रैस्तथैव हि || १-५८-७
अन्यां गतिं गमिष्यामि स्वस्ति वोऽस्तु तपोधनाः |
ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम् || १-५८-८
शेपुः परमसंक्रुद्धाश्चण्डालत्वं गमिष्यसि |
इत्युक्त्वा ते महात्मानो विविशुः स्वं स्वमाश्रमम् || १-५८-९
अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतः |
नीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्धजः || १-५८-१०
चित्यमाल्यानुलेपश्च आयसाभरणोऽभवत् |
तं दृष्ट्वा मंत्रिणः सर्वे त्यक्त्वा चण्डालरूपिणम् || १-५८-११
प्राद्रवन् सहिता राम पौरा येऽस्यानुगामिनः |
एको हि राजा काकुत्स्थ जगाम परमात्मवान् || १-५८-१२
दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम् |
विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम् ||१-५८-१३
चण्डालरूपिणं राम मुनिः कारुण्यमागतः |
कारुण्यात्स महातेजा वाक्यं परमधार्मिकः || १-५८-१४
इदं जगाद भद्रं ते राजानं घोरदर्शनम् |
किमागमनकार्यं ते राजपुत्र महाबल || १-५८-१५
अयोध्याधिपते वीर शापाच्चण्डालतां गतः |
अथ तद्वाक्यमाकर्ण्य राजा चण्डालतां गतः || १-५८-१६
अब्रवीत् प्रांजलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम् |
प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च || १-५८-१७
अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः |
सशरीरो दिवं यायामिति मे सौम्य दर्शन || १-५८-१८
मया चेष्टं क्रतुशतं तच्च नावाप्यते फलम् |
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन || १-५८-१९
कृच्छ्रेष्वपि गतः सौम्य क्षत्रधर्मेण ते शपे |
यज्ञैर्बहुविधैरिष्टं प्रजाधर्मेण पालिताः || १-५८-२०
गुरवश्च महात्मानः शीलवृत्तेन तोषिताः |
धर्मे प्रयतमानस्य यज्ञं चाहर्तुमिच्छतः || १-५८-२१
परितोषं न गच्छन्ति गुरवो मुनिपुंगव |
दैवमेव परं मन्ये पौरुषं तु निरर्थकम् || १-५८-२२
दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः |
तस्य मे परमार्तस्य प्रसादमभिकांक्षतः |
कर्तुमर्हसि भद्रं ते दैवोपहतकर्मणः || १-५८-२३
नान्यां गतिं गमिष्यामि नान्यः शरणमस्ति मे |
दैवं पुरुषकारेण निवर्तयितुमर्हसि || १-५८-२४
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे अष्टपंचाशः सर्गः