Bala Kanda – Sarga 55 (Valmiki Ramayana)

Vishvamitra ruins Vashistha’s hermitage

Valmiki Ramayana – Kanda 1 – Sarga 55

ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान् |
वसिष्ठश्चोदयामास कामधुक् सृज योगतः || १-५५-१

तस्या हुंकारतो जाताः कांबोजा रविसन्निभाः |
ऊधसस्त्वथ संजाताः पह्लवाः शस्त्रपाणयः || १-५५-२
योनिदेशाच्च यवनाः शकृदेशाच्छकास्तथा |
रोमकूपेषु म्लेच्छाश्च हारीताः सकिरातकाः || १-५५-३

तैस्तन्निषूदितं सैन्यं विश्वमित्रस्य तत्क्षणात् |
सपदातिगजं साश्वं सरथं रघुनंदन || १-५५-४

दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना |
विश्वामित्रसुतानां तु शतं नानाविधायुधम् || १-५५-५
अभ्यधावत् सुसंक्रद्धं वसिष्ठं जपतां वरम् |
हुङ्कारेणैव तान् सर्वान् निर्ददाह महानृषिः || १-५५-६

ते साश्वरथपादाता वसिष्ठेन महात्मना |
भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तदा || १-५५-७

दृष्ट्वा विनाशितान् पुत्रान् बलं च सुमहायशाः |
सव्रीडश्चिंतयाविष्टो विश्वामित्रोऽभवत्तदा || १-५५-८

समुद्र इव निर्वेगो भग्नदंष्ट्र इवोरगः |
उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः || १-५५-९
हतपुत्रबलो दीनो लूनपक्ष इव द्विजः |

हतसर्वबलोत्साहो निर्वेदं समपद्यत || १-५५-१०
स पुत्रमेकं राज्याय पालयेति नियुज्य च |
पृथिवीं क्षत्रधर्मेण वनमेवान्वपद्यत || १-५५-११

स गत्वा हिमवत्पारर्श्वं किंनरोरगसेवितम् |
महादेवप्रसादार्थं तपस्तेपे महातपाः || १-५५-१२

केनचित्त्वथ कालेन देवेशो वृषभध्वजः |
दर्शयामास वरदो विश्वामित्रं महामुनिम् || १-५५-१३

किमर्थं तप्यसे राजन् ब्रूहि यत्ते विवक्षितम् |
वरदोऽस्मि वरो यस्ते कांक्षितः सोऽभिधीयताम् || १-५५-१४

एवमुक्तस्तु देवेन विश्वामित्रो महातपाः |
प्रणिपत्य महादेवं विश्वामित्रोऽब्रवीदिदम् || १-५५-१५

यदि तुष्टो महादेव धनुर्वेदो ममानघ |
साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम् || १-५५-१६

यानि देवेषु चास्त्राणि दानवेषु महर्षिषु |
गंधर्वयक्षरक्षस्सु प्रतिभांतु ममानघ || १-५५-१७
तव प्रसादाद्भवतु देवदेव ममेप्सितम् |

एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा || १-५५-१८

प्राप्य चास्त्राणि देवेशाद्विश्वामित्रो महाबलः |
दर्पेण महता युक्तो दर्पपूर्णोऽभवत्तदा || १-५५-१९

विवर्धमानो वीर्येण समुद्र इव पर्वणि |
हतं मेने तदा राम वसिष्ठमृषिसत्तमम् || १-५५-२०

ततो गत्वाश्रमपदं मुमोचास्त्राणि पार्थिवः |
यैस्तत्तपोवनं सर्वं निर्दग्धं चास्त्रतेजसा || १-५५-२१

उदीर्यमाणमस्त्रं तद्विश्वामित्रस्य धीमतः |
दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः || १-५५-२२

वसिष्ठस्य च ये शिष्याः ये च वै मृगपक्षिणः |
विद्रवन्ति भयाद्भीता नाना दिग्भ्यः सहस्रशः || १-५५-२३

वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः |
मुहूर्तमिव निःशब्दमासीदिरिणसंनिभम् || १-५५-२४

वदतो वै वसिष्ठस्य मा भैष्टेति मुहुर्मुहुः |
नाशयाम्यद्य गाधेयं नीहारमिव भास्करः || १-५५-२५

एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः |
विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत् || १-५५-२६

आश्रमं चिरसंवृद्धं यद्विनाशितवानसि |
दुराचारो हि यन्मूढ तस्मात्त्वं न भविष्यसि || १-५५-२७

इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्य सत्वरः |
विधूम इव कालाग्निर्यमदण्डमिवापरम् || १-५५-२८

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे पंचपंचाशः सर्गः

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।