Sacred-Cow creates forces to fightback
Valmiki Ramayana – Kanda 1 – Sarga 54
कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः |
तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत || १-५४-१
नीयमाना तु शबला राम राज्ञा महात्मना |
दुःखिता चिन्तयामास रुदंती शोककर्षिता || १-५४-२
परित्यक्ता वसिष्ठेन किमहं सुमहात्मना |
याहं राजभृतैर्दीना ह्रियेयं भृशदुःखिता || १-५४-३
किं मयापकृतं तस्य महर्षेर्भावितात्मनः |
यन्मामनागसं भक्तामिष्टां त्यजति धार्मिकः || १-५४-४
इति संचिन्तयित्वा तु निःश्वस्य च पुनः पुनः |
जगाम वेगेन तदा वसिष्ठं परमौजसम् || १-५४-५
निर्धूय तां तदा भृत्यान् शतशः शत्रुसूदन |
जगामानिलवेगेन पादमूलं महात्मनः || १-५४-६
शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत् |
वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिनिःस्वना || १-५४-७
भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत |
यस्माद्राजभटा मां हि नयन्ते त्वत्सकाशतः || १-५४-८
एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत् |
शोकसंतप्तहृदयां स्वसारमिव दुःखिताम् || १-५४-९
न त्वां त्यजामि शबले नापि मेऽपकृतं त्वया |
एष त्वां नयते राजा बलान्मत्तो महाबलः || १-५४-१०
न हि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः |
बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च || १-५४-११
इयमक्षौहिणी पूर्णा गजवाजिरथाकुला |
हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः || १-५४-१२
एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत् |
वचनं वचनज्ञा सा ब्रह्मर्षिमतुलप्रभम् || १-५४-१३
न बलं क्षत्रियस्याहुर्ब्राह्मणो बलवत्तरः |
ब्रह्मन् ब्रह्मबलं दिव्यं क्षत्रात्तु बलवत्तरम् || १-५४-१४
अप्रमेयबलं तुभ्यं न त्वया बलवत्तरः |
विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम् || १-५४-१५
नियुङ्क्ष्व मां महातेजस्त्वद्ब्रह्मबलसंभृताम् |
तस्य दर्पं बलं यत्नं नाशयामि दुरात्मनः || १-५४-१६
इत्युक्तस्तु तया राम वसिष्ठः सुमहायशाः |
सृजस्वेति तदोवाच बलं परबलार्दनम् || १-५४-१७
तस्य तद्वचनं श्रुत्वा सुरभिः सा असृजत्तदा |
तस्या हुंभारवोत्सृष्टाः पह्लवाः शतशो नृप || १-५४-१८
नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः |
स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः || १-५४-१९
पह्लवान्नाशयामास शस्त्रैरुच्चावचैरपि |
विश्वामित्रार्दितान् दृष्ट्वा पह्लवान् शतशस्तदा || १-५४-२०
भूय एवासृजद्घोरान् शकान् यवनमिश्रितान् |
तैरासीत् संवृता भूमिः शकैर्यवनमिश्रितैः || १-५४-२१
प्रभावद्भिर्महावीर्यैर्हेमकिंजल्कसंनिभैः |
दीर्घासिपट्टिशधरैर्हेमवर्णाम्बरावृतैः || १-५४-२२
निर्दग्धं तद्बलं सर्वं प्रदीप्तैरिव पावकैः |
ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह |
तैस्तैर्यवनकांभोजा बर्बराश्चाकुलीकृताः || १-५४-२३
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे चतुःपंचाशः सर्गः