Bala Kanda – Sarga 5 (Valmiki Ramayana)

City ayodhya detailed

Valmiki Ramayana – kanda 1 – Sarga 5

सर्वा पूर्वमियं येषामासीत्कृत्स्ना वसुंधरा |
प्रजापतिमुपादाय नृपाणां जयशालिनाम् ||१-५-१

येषां स सगरो नाम सागरो येन खानितः |
षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् ||१-५-२

इक्ष्वाकूणामिदं तेषां रज्ञां वंशे महात्मनाम् |
महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् || १-५-३

तदिदं वर्तयिष्यावः सर्वं निखिलमादितः |
धर्मकामार्थसहितं श्रोतव्यमनसूयया || १-५-४

कोसलो नाम मुदितः स्फीतो जनपदो महान् |
निविष्टः सरयूतीरे प्रभूतधनधान्यवान् || १-५-५

अयोध्या नाम नगरी तत्रासील्लोकविश्रुता |
मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् || १-५-६

आयता दश च द्वे च योजनानि महापुरी |
श्रीमती त्रीणि विस्तीर्णा सुविभक्ता महापथा || १-५-७

राजमार्गेण महता सुविभक्तेन शोभिता |
मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः || १-५-८

तां तु राजा दशरथो महाराष्ट्रविवर्धनः |
पुरीमावासयामास दिवं देवपतिर्यथा || १-५-९

कवाटतोरणवतीं सुविभक्तान्तरापणाम् |
सर्वयन्त्रायुधवतीमुषितां सर्वशिल्पिभिः || १-५-१०

सूतमागधसंबाधां श्रीमातीमतुलप्रभाम् |
उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम् || १-५-११

वधूनाटकसंङ्घैश्च संयुक्तां सर्वतः पुरीम् |
उद्यानाम्रवणोपेतां महतीं सालमेखलाम् || १-५-१२

दुर्गगंभीरपरिखां दुर्गामन्यैर्दुरासदाम् |
वाजिवारणसपूर्णां गोभिरुष्ट्रैः खरैस्तथा || १-५-१३

सामन्तराजसंङ्घैश्च बलिकर्मभिरावृताम् |
नानादेशनिवासैश्च वणिग्भिरुपशोभिताम् || १-५-१४

प्रासादै रत्नविकृतैः पर्वतैरुपशोभिताम् |
कूटागारैश्च सम्पुर्णामिन्द्रस्येवामरावतीम् |१-५-१५

चित्रामष्टापदाकारां वरनारीगणैर्युताम् |
सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् || १-५-१६

‘अष्टापदं शारिफमम्’इत्यमरः । ‘अष्टापदोऽस्त्री कनके शारीणां फलकेऽपि च’ इति मेदिनी । ‘फलं हेतुसमुत्थे स्यात्फलके व्युष्टिलाभयोः’ इति विश्वः ।

गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् |
शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम् ||१-५-१७

दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा |
नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ||१-५-१८

विमानमिव सिद्धानां तपसाधिगतं दिवि |
सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ||१-५-१९

ये च बाणैर्न विध्यन्ति विविक्तमपरापरम् |
शब्दवेध्यं च विततं लयुहस्ता विशारदाः || १-५-२०

सिंहव्याघ्रवराहाणां मत्तानां नर्दतां वने |
हन्तारो निशितैः शस्त्रैर्बलाद्बाहुबलैरपि || १-५-२१

तादृशानां सहस्रैस्तामभिपूर्णां महारथैः|
पुरीमावासयामास राजा दशरथस्तदा || १-५-२२

तामग्निमद्भिर्गुणवद्भिरावृताम्
द्विजोत्तमैः वेदषडङ्गपारगैः |
सहस्रदैः सत्यरतैर्महात्मभिः
महर्षिकल्पैः ऋषिभिश्च केवलैः || १-५-२३

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे पंचमः सर्गः

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।