The legend of churning Milk Ocean
Valmiki Ramayana – Kanda 1 – Sarga 45
विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः |
विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत् || १-४५-१
अत्यद्भुतमिदं ब्रह्मन् कथितं परमं त्वया |
गंगावतरणं पुण्यं सागरस्यापि पूरणम् || १-४५-२
क्षणभूतेव नौ रात्रिः संवृत्तेयं परंतप |
इमां चिंतयतोः सर्वां निखिलेन कथां तव || १-४५-३
तस्य सा शर्वरी सर्वा मम सौमित्रिणा सह |
जगाम चिंतयानस्य विश्वामित्रकथां शुभाम् ||१-४५-४
ततः प्रभाते विमले विश्वामित्रं तपोधनम्|
उवाच राघवो वाक्यं कृताह्निकमरिन्दमः || १-४५-५
गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम् |
तराम सरितं श्रेष्ठं पुण्यां त्रिपथगां नदीम् ||१-४५-६
नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम् |
भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता || १-४५-७
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः |
संतारं कारयामास सर्षिसंघस्य कौशिकः || १-४५-८
उत्तरं तीरमासाद्य संपूज्यर्षिगणं ततः |
गंगाकूले निविष्टास्ते विशालां ददृशुः पुरिम् || १-४५-९
ततो मुनिवरस्तूर्णं जगाम सहराघवः |
विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा || १-४५-१०
अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम् |
पप्रच्छ प्रांजलिर्भूत्वा विशालामुत्तमां पुरीम् || १-४५-११
कतमो राजवंशोऽयं विशालायां महामुने |
श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे || १-४५-१२
तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुंगवः |
आख्यातुं तत्समारेभे विशालस्य पुरातनम् || १-४५-१३
श्रूयतां राम शक्रस्य कथां कथयतः श्रुताम् |
अस्मिन् देशे हि यद्वृत्तं शृणु तत्त्वेन राघव || १-४५-१४
पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः |
अदितेश्च महाभागा वीर्यवन्तः सुधार्मिकाः || १-४५-१५
ततस्तेषां नरव्याघ्र बुद्धिरासीन्महात्मनाम् |
अमरा निर्जराश्चैव कथं स्यामो निरामयाः || १-४५-१६
तेषां चिंतयतां तत्र बुद्धिरासीद्विपश्चिताम् |
क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै || १-४५-१७
ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम् |
मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः || १-४५-१८
अथ वर्षसहस्रेण योक्त्रं सर्पशिरांसि च |
वमन्त्यतिविषं तत्र ददंशुर्दशनैः शिलाः || १-४५-१९
उत्पपाताग्निसंकाशं हालाहलमहाविषम् |
तेन दग्धं जगत्सर्वं सदेवासुरमानुषम् || १-४५-२०
अथ देवा महादेवं शंकरं शरणार्थिनः |
जग्मुः पशुपतिं रुद्रं त्राहि त्राहीति तुष्टुवुः || १-४५-२१
एवमुक्तस्ततो देवैर्देवदेवेश्वरः प्रभुः |
प्रादुरासीत् ततोऽत्रैव शंखचक्रधरो हरिः || १-४५-२२
उवाचैनं स्मितं कृत्वा रुद्रं शूलधरं हरिः |
दैवतैर्मथ्यमाने तु तत्पूर्वं समुपस्थितम् || १-४५-२३
तत्त्वदीयं सुरश्रेष्ठ सुराणामग्रतो हि यत् |
अग्रपूजामिह स्थित्वा गृहाणेदं विषं प्रभो || १-४५-२४
इत्युक्त्वा च सुरश्रेष्ठस्तत्रैवान्तरधीयत |
देवतानां भयं दृष्ट्वा श्रुत्वा वाक्यं तु शार्ङ्गिणः || १-४५-२५
हालाहलं विषं घोरं संजग्राहामृतोपमम् |
देवान् विसृज्य देवेशो जगाम भगवान् हरः॥ १-४५-२६
ततो देवासुराः सर्वे ममन्थू रघुनन्दन।
प्रविवेशाथ पातालं मन्थानः पर्वतोत्तमः॥ १-४५-२७
ततो देवाः सगन्धर्वाः तुष्टुवुर्मधुसूदनम्।
त्वं गतिः सर्वभूतानां विशेषेण दिवौकसाम्॥ १-४५-२८
पालयास्मान् महाबाहो गिरिमुद्धर्तुमर्हसि।
इति श्रुत्वा हृषीकेशः कामठं रूपमास्थितः॥ १-४५-२९
पर्वतं पृष्ठतः कृत्वा शिश्ये तत्रोदधौ हरिः।
पर्वताग्रं तु लोकात्मा हस्तेनाक्रम्य केशवः॥ १-४५-३०
देवानां मध्यतः स्थित्वा ममन्थ पुरुषोत्तमः।
अथ वर्षसहस्रेण आयुर्वेदमयः पुमान्॥ १-४५-३१
उदतिष्ठत् सुधर्मात्मा सदण्डः सकमण्डलुः।
पूर्वं धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः॥ १-४५-३२
अप्सु निर्मथनादेव रसात्तस्माद्वरस्त्रियः।
उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन्॥ १-४५-३३
षष्टिः कोट्योऽभवंस्तासामप्सराणां सुवर्चसाम्।
असन्ख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः॥ १-४५-३४
न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः।
अप्रतिग्रहणादेव ता वै साधारणाः स्मृताः॥ १-४५-३५
वरुणस्य ततः कन्या वारुणी रघुनन्दन।
उत्पपात महाभागा मार्गमाणा परिग्रहम्॥ १-४५-३६
दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम्।
अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम्॥ १-४५-३७
असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः।
हृष्टाः प्रमुदिताश्चासन् वारुणीग्रहणात् सुराः॥ १-४५-३८
उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम्।
उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम्॥ १-४५-३९
अथ तस्य कृते राम महानासीत् कुलक्षयः।
अदितेस्तु ततः पुत्रा दितेः पुत्रानसूदयन्॥ १-४५-४०
एकतामगमन् सर्वे असुरा राक्षसैः सह।
युद्धमासीन् महाघोरं वीरत्रैलोक्यमोहनम्॥ १-४५-४१
यदा क्षयं गतं सर्वं तदा विष्णुर्महाबलः।
अमृतं सोऽहरत्तूर्णं मायामास्थाय मोहिनीम्॥ १-४५-४२
ये गताभिमुखं विष्णुमक्षरं पुरुषोत्तमम्।
संपिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना॥ १-४५-४३
अदितेरात्मजा वीरा दितेः पुत्रान्निजघ्निरे।
अस्मिन् घोरे महायुद्धे दैतेयादित्ययोर्भृशम्॥ १-४५-४४
निहत्य दितिपुत्रांश्च राज्यं प्राप्य पुरन्दरः।
शशास मुदितो लोकान् सर्षिसन्घान् सचारणान्॥ १-४५-४५
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे पञ्चचत्वारिंशः सर्गः