Bala Kanda – Sarga 44 (Valmiki Ramayana)

Brahma commends Bhageeratha

Valmiki Ramayana – Kanda 1 – Sarga 44

स गत्वा सागरं राजा गंगयानुगतस्तदा |
प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः || १-४४-१

भस्मन्यथाप्लुते राम गंगायाः सलिलेन वै |
सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् || १-४४-२

तारिता नरशार्दूल दिवं याताश्च देववत् |
षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः || १-४४-३

सागरस्य जलं लोके यावत् स्थास्यति पार्थिव |
सगरस्यात्मजाः सर्वे दिवि स्थास्यन्ति देववत् ||१-४४-४

इयं च दुहिता ज्येष्ठा तव गंगा भविष्यति |
त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता ||१-४४-५

गंगा त्रिपथगा नाम दिव्या भागीरथीति च |
त्रीन्पथो भावयन्तीति तस्मत्त्रिपथगा स्मृता || १-४४-६

पितामहानां सर्वेषां त्वमत्र मनुजाधिप |
कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय || १-४४-७

पूर्वकेण हि ते राजंस्तेनातियशसा तदा |
धर्मिणां प्रवरेणाथ नैष प्राप्तो मनोरथः || १-४४-८

तथैवांशुमता वत्स लोकेऽप्रतिमतेजसा |
गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता || १-४४-९

राजर्षिणा गुणवता महर्षिसमतेजसा |
मत्तुल्यतपसा चैव क्षत्रधर्मे स्थितेन च || १-४४-१०
दिलीपेन महाभाग तव पित्रातितेजसा |
पुनर्न शङ्किता नेतुं गङ्गां प्रार्थयतानघ || १-४४-११

सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ |
प्राप्तोऽसि परमं लोके यशः परमसंमतम् || १-४४-१२

तच्च गंगावतरणं त्वया कृतमरिन्दम |
अनेन च भवान् प्राप्तो धर्मस्यायतनं महत् || १-४४-१३

प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते |
सलिले पुरुषश्रेष्ठ शुचिः पुण्यफलो भव || १-४४-१४

पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् |
स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप || १-४४-१५

इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः |
यथागतं तथागच्छद्देवलोकं महायशाः || १-४४-१६

भगीरथस्तु राजर्षिः कृत्वा सलिलमुत्तमम् |
यथाक्रमं यथान्यायं सागराणां महायशाः || १-४४-१७
कृतोदकः शुची राजा स्वपुरं प्रविवेश ह |
समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह ||१-४४-१८

प्रमुमोद च लोकस्तं नृपमासाद्य राघव |
नष्टशोकः समृद्धार्थो बभूव विगतज्वरः || १-४४-१९

एष ते राम गंगाया विस्तरोऽभिहितो मया |
स्वस्ति प्राप्नुहि भद्रं ते संध्याकालोऽतिवर्तते || १-४४-२०

धन्यं यशस्यमायुष्यं पुत्र्यं स्वर्ग्यमथापि च |
यः श्रावयति विप्रेषु क्षत्रियेष्वितरेषु च || १-४४-२१
प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि च |

इदमाख़्यनमायुष्यं गंगावतरणं शुभम् || १-४४-२२
यः श्रुणोति च काकुत्स्थ सर्वान् कामानवाप्नुयात् |
सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्धते || १-४४-२३

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे चतुश्चत्वारिंशः सर्गः

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।