Bala Kanda – Sarga 43 (Valmiki Ramayana)

River ganga’s descent onto earth

Valmiki Ramayana – Kanda 1 – Sarga 43

देवदेवे गते तस्मिन् सोंऽगुष्ठाग्रनिपीडिताम् |
कृत्वा वसुमतीं राम वत्सरं समुपासत || १-४३-१

अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः |
उमापतिः पशुपती राजानमिदमब्रवीत् || १-४३-२

प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम् |
शिरसा धारयिष्यामि शैलराजसुतामहम् ||१-४३-३

ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता |
तदा सातिमहद्रूपं कृत्वा वेगं च दुःसहम् ||१-४३-४
आकाशादपतद्राम शिवे शिवशिरस्युत |

अचिन्तयच्च सा देवी गङ्गा परमदुर्धरा ||१-४३-५
विशाम्यहं हि पातालं स्त्रोतसा गृह्य शंकरम् |

तस्या वलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः || १-४३-६
तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा |

सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि||१-४३-७
हिमवत्प्रतिमे राम जटामण्डलगह्वरे |

सा कथञ्चिन्महीं गन्तुं नाशक्नोद्यत्नमास्थिता ||१-४३-८
नैव सा निर्गमं लेभे जटामण्डलमन्ततः |

तत्रैवाबंभ्रमद्देवी संवत्सरगणान्बहून् ||१-४३-९
तामपश्यन् पुनस्तत्र तपः परममास्थितः |

स तेन तोषितश्चासीदत्यन्तं रघुनंदन || १-४३-१०
विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति |

तस्यां विसृज्यमानायां सप्त स्रोतंसि जज्ञिरे || १-४३-११
ह्लादिनी पावनी चैव नलिनी च तथैव च |
तिस्रः प्राचीं दिशं जग्मुर्गंगाः शिवजलाः शुभाः || १-४३-१२

सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी |
तिस्रस्त्वेता दिशं जग्मुः प्रतीचीं तु शुभोदकाः ||१-४३-१३

सप्तमी चान्वगात्तासां भगीरथरथं तदा |
भगीरथोऽपि रजर्षिर्दिव्यं स्यंदनमास्थितः || १-४३-१४
प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत् |

गगनाच्छङ्करशिरस्ततो धरणिमागता || १-४३-१५
व्यसर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् |

मत्स्यकच्छपसंघैश्च शिंशुमारगणैस्तथा || १-४३-१६
पतद्भिः पतितैश्चैव व्यरोचत वसुंधरा |

ततो देवर्षिगंधर्वा यक्षा सिद्धगणास्तथा || १-४३-१७
व्यलोकयन्त ते तत्र गगनाद्गां गतां तदा |

विमानैर्नगराकारैर्हयैर्गजवरैस्तथा ||१-४३-१८
पारिप्लवगताश्चापि देवतास्तत्र विष्ठिताः |

तदद्भुततमं लोके गंगापतनमुत्तमम् ||१-४३-१९
दिदृक्षवो देवगणाः समीयुरमितौजसः |

संपतद्भिः सुरगणैस्तेषां चाभरणौजसा || १-४३-२०
शतादित्यमिवाभाति गगनं गततोयदम् |

शिंशुमारोरगगणैर्मीनैरपि च चंचलैः || १-४३-२१
विद्युद्भिरिव विक्षिप्तैराकाशमभवत्तदा |

पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा ||१-४३-२२
शारदाभ्रैरिवाकीर्णं गगनं हंससंप्लवैः |

क्वचिद् द्रुततरं याति कुटिलं क्वचिदायतम् ||१-४३-२३
विनतं क्वचिदुद्धूतं क्वचिद्याति शनैः शनैः |

सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः || १-४३-२४
मुहुरूर्ध्वपथं गत्वा पपात वसुधां पुनः |

तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुनः ||१-४३-२५
व्यरोचत तदा तोयं निर्मलं गतकल्मषम् |

तत्रर्षिगणगन्धर्वा वसुधातलवासिनः ||१-४३-२६
भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः |

शापात् प्रपतिता ये च गगनाद्वसुधातलम् ||१-४३-२७
कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः |

धूतपापाः पुनस्तेन तोयेनाथ शुभान्विता || १-४३-२८
पुनराकाशमाविश्य स्वान् लोकान् प्रतिपेदिरे |

मुमुदे मुदितो लोकस्तेन तोयेन भास्वता || १-४३-२९
कृताभिषेको गंगायां बभूव विगतक्लमः |

भगीरथोऽपि राजर्षिर्दिव्यं स्यंदनमास्थितः ||१-४३-३०
प्रायादग्रे महातेजास्तं गंगा पृष्ठतोऽन्वगात् |

देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः || १-४३-३१
गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः |
सर्पाश्चाप्सरसो राम भगीरथरथानुगाः || १-४३-३२
गंगामन्वगमन् प्रीताः सर्वे जलचराश्च ये |

यतो भगीरथो राजा ततो गंगा यशस्विनी || १-४३-३३
जगाम सरितां श्रेष्ठा सर्वपापप्रणाशिनी |

ततो हि यजमानस्य जह्नोरद्भुतकर्मणः ||१-४३-३४
गङ्गा संप्लावयामास यज्ञवाटं महत्मनः |

तस्यावलेपनं ज्ञात्वा क्रुद्धो जह्नुश्च राघव || १-४३-३५
अपिबत्तु जलं सर्वं गङ्गायाः परमाद्भुतम् |

ततो देवाः सगन्धर्वा ऋषयश्च सुविस्मिताः || १-४३-३६
पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम् |
गङ्गां चापि नयन्ति स्म दुहितृत्वे महात्मनः || १-४३-३७

ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् प्रभुः |
तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च || १-४३-३८

जगाम च पुनर्गङ्गा भगीरथरथानुगा |
सागरं चापि संप्राप्ता सा सरित्प्रवरा तदा ||१-४३-३९
रसातलमुपागच्छत् सिद्ध्यर्थं तस्य कर्मणः |

भगीरथोऽपि रजार्षिर्गङ्गामादाय यत्नतः || १-४३-४०
पितामहान् भस्मकृतानपश्यद्गतचेतनः |

अथ तद्भस्मनां राशिं गङ्गासलिलमुत्तमम् |
प्लावयत् पूतपाप्मानः स्वर्गं प्रप्ता रघूत्तम ||१-४३-४१

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे त्रिचत्वारिंशः सर्गः

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।