Bala Kanda – Sarga 42 (Valmiki Ramayana)

King Bhageeratha’s effort to bring river ganga ion to the earth

Valmiki Ramayana – Kanda 1 – Sarga 42

कालधर्मं गते राम सगरे प्रकृतीजनाः |
राजानं रोचयामासुरंशुमन्तं सुधार्मिकम् || १-४२-१

स राजा सुमहानासीदंशुमान् रघुनंदन |
तस्य पुत्रो महानासीद्दिलीप इति विश्रुतः || १-४२-२

तस्मै राज्यं समादिश्य दिलीपे रघुनंदन |
हिमवच्छिखरे रम्ये तपस्तेपे सुदारुणम् || १-४२-३

द्वात्रिंशच्च सहस्राणि वर्षाणि सुमहायशाः |
तपोवनगतो राजा स्वर्गं लेभे तपोधनः || १-४२-४

दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम् |
दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत || १-४२-५

कथं गंगावतरणं कथं तेषां जलक्रिया |
तारयेयं कथं चैतानिति चिंतापरोऽभवत् || १-४२-६

तस्य चिंतयतो नित्यं धर्मेण विदितात्मनः |
पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः ||१-४२-७

दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान् |
त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत् || १-४२-८

अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति |
व्याधिना नरशार्दूल कालधर्ममुपेयिवान् || १-४२-९

इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा |
राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः || १-४२-१०

भगीरथस्तु राजर्षिर्धार्मिको रघुनंदन |
अनपत्यो महाराजः प्रजाकामः स च प्रजाः || १-४२-११

मंत्रिष्वाधाय तद्राज्यं गङ्गावतरणे रतः|
तपो दीर्घं समातिष्ठद्गोकर्णे रघुनंदन || १-४२-१२
ऊर्ध्वबाहुः पंचतपा मासाहारो जितेन्द्रियः |

तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः || १-४२-१३
अतीतानि महाबहो तस्य राज्ञो महात्मनः |
सुप्रीतो भगवान्ब्रह्मा प्रजानां पतिरीश्वरः || १-४२-१४

ततः सुरगणैः सार्धमुपागम्य पितामहः |
भगीरथं महात्मानं तप्यमानमथाब्रवीत् || १-४२-१५

भगीरथ महाराग प्रीतस्तेऽहं जनाधिप |
तपसा च सुतप्तेन वरं वरय सुव्रत || १-४२-१६

तमुवाच महातेजाः सर्वलोकपितामहम् |
भगीरथो महाबाहुः कृतांजलिपुटः स्थितः || १-४२-१७

यदि मे भगवान्प्रीतो यद्यस्ति तपसः फलम् |
सगरस्यात्मजाः सर्वे मत्तः सलिलस्याप्नुयुः || १-४२-१८

गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम् |
स्वर्गं गच्छेयुरत्यन्तं सर्वे मे प्रपितामहाः || १-४२-१९

देव याचे ह संतत्यै नावसीदेत्कुलं च नः |
इक्ष्वाकूणां कुले देव एष मेऽस्तु वरः परः || १-४२-२०

उक्तवाक्यं तु राजानं सर्वलोकपितामहः |
प्रत्युवाच शुभां वाणीं मधुरं मधुराक्षराम् || १-४२-२१

मनोरथो महानेष भगीरथ महारथ |
एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन || १-४२-२२

इयं हैमवती ज्येष्ठा गंगा हिमवतः सुता |
तां वै धारयितुं राजन् हरस्तत्र नियुज्यताम् || १-४२-२३

गंगायाः पतनं राजन् पृथिवी न सहिष्यते |
तां वै धारयितुं राजन् नान्यं पश्यामि शूलिनः || १-४२-२४

तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत् |
जगाम त्रिदिवं देवैः सह सर्वैर्मरुद्गणैः || १-४२-२५

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे द्विचत्वारिंशः सर्गः

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।