Bala Kanda – Sarga 40 (Valmiki Ramayana)

Sage Kapila burns the sons of Sagara

Valmiki Ramayana – Kanda 1 – Sarga 40

देवतानां वचः श्रुत्वा भगवान्वै पितामहः |
प्रत्युवाच सुसंत्रस्तान् कृतान्तबलमोहितान् || १-४०-१

यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः|
महिषी माधवस्यैषा स एव भगवान् प्रभुः|| १-४०-२
कापिलं रूपमास्थाय धारयत्यनिशं धराम् |
तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः || १-४०-३

पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः |
सगरस्य च पुत्राणां विनाशो दीर्घदर्शिनाम् ||१-४०-४

पितामह वचः श्रुत्वा त्रयस्त्रिंशदरिन्दम |
देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् || १-४०-५

सगरस्य च पुत्राणां प्रादुरासीन्महास्वनः |
पृथिव्यां भिद्यमानायां निर्घातसमनिःस्वनः || १-४०-६

ततो भित्त्वा महीं सर्वां कृत्वा चापि प्रदक्षिणम् |
सहिताः सगराः सर्वे पितरं वाक्यमब्रुवन् || १-४०-७

परिक्रांता मही सर्वा सत्त्ववन्तश्च सूदिताः |
देवदानवरक्षांसि पिशाचोरगपन्नगाः || १-४०-८
न च पश्यामहेऽश्वं तमश्वहर्तारमेव च |
किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम् || १-४०-९

तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः |
समन्युरब्रवीद्वाक्यं सगरो रघुनंदन || १-४०-१०

भूयः खनत भद्रं वो विभेद्य वसुधातलम्
अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तत || १-४०-११

पितुर्वचनमासाद्य सगरस्य महात्मनः |
षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन् || १-४०-१२

खन्यमाने ततस्तस्मिन् ददृशुः पर्वतोपमम् |
दिशागजं विरूपाक्षं धारयन्तं महीतलम् || १-४०-१३

सपर्वतवनां कृत्स्नां पृथिवीं रघुनंदन |
धारयामास शिरसा विरूपाक्षो महागजः || १-४०-१४

यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः |
खेदाच्चालयते शीर्षं भूमिकंपस्तदा भवेत् || १-४०-१५

ते तं प्रदक्षिणं कृत्वा दिशापालं महागजम् |
मानयन्तो हि ते राम जग्मुर्भित्त्वा रसातलम् || १-४०-१६

ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः |
दक्षिणस्यामपि दिशि ददृशुस्ते महागजम् || १-४०-१७
महापद्मं महात्मानं सुमहत्पर्वतोपमम् |
शिरसा धारयन्तं गां विस्मयं जग्मुरुत्तमम् || १-४०-१८

ते तं प्रदक्षिणं कृत्वा सगरस्य महात्मनः |
षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम् || १-४०-१९

पश्चिमायामपि दिशि महांतमचलोपमम् |
दिशागजं सौमनसं ददृशुस्ते महाबलाः || १-४०-२०

ते तं प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् |
खनंतः समुपक्रांता दिशं सोमवतीं तदा || १-४०-२१

उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डुरम् |
भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम् || १-४०-२२

समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम् |
षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम् || १-४०-२३

ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम् |
रोषादभ्यखनन्सर्वे पृथिवीं सगरात्मजाः || १-४०-२४

ते तु सर्वे महत्मानो भीमवेगा महबलाः |
ददृशुः कपिलं तत्र वासुदेवं सनातनम् || १-४०-२५
हयं च तस्य देवस्य चरन्तमविदूरतः |
प्रहर्षमतुलं प्राप्ताः सर्वे ते रघुनंदन || १-४०-२६

ते तं हयहरं ज्ञात्वा क्रोधपर्याकुलेक्षणाः |
खनित्रलांगलधरा नानावृक्षशिलाधराः || १-४०-२७
अभ्यधावन्त संक्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन् |

अस्माकं त्वं हि तुरगं यज्ञियं हृतवानसि || १-४०-२८
दुर्मेधस्त्वं हि संप्राप्तान् विद्धि नः सगरात्मजान् |

श्रुत्वा तद्वचनं तेषां कपिलो रघुनंदन || १-४०-२९
रोषेण महताविष्टो हुं कारमकरोत्तदा |

ततस्तेनाप्रमेयेण कपिलेन महात्मना |
भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः || १-४०-३०

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे चत्वारिंशः सर्गः

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।