Bala Kanda – Sarga 37 (Valmiki Ramayana)

Legend of kaartikeya

Valmiki Ramayana – Kanda 1 – Sarga 37

तप्यमाने तदा देवे सेन्द्राः साग्निपुरोगमाः |
सेनापतिमभीप्सन्तः पितामहमुपागमन् || १-३७-१

ततोऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम् |
प्रणिपत्य सुराः राम सेन्द्राः साग्निपुरोगमाः || १-३७-२

येन सेनापतिर्देव दत्तो भगवता पुरा |
स तपः परमास्थाय तप्यते स्म सहोमया || १-३७-३

यदत्रानंतरं कार्यं लोकानां हितकाम्यया |
संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः || १-३७-४

देवतानां वचः श्रुत्वा सर्वलोकपितामहः |
सान्त्वयन् मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत् || १-३७-५

शैलपुत्र्या यदुक्तं तन्न प्रजाः स्वासु पत्निषु |
तस्या वचनमक्लिष्टं सत्यमेव न संशयः || १-३७-६

इयमाकाशगंगा यस्यां पुत्रं हुताशनः |
जनयिष्यति देवानां सेनापतिमरिंदमम् || १-३७-७

ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम् |
उमायास्तद्बहुमतं भविष्यति न संशयः || १-३७-८

तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन |
प्रणिपत्य सुराः सर्वे पितामहमपूजयन् || १-३७-९

ते गत्वा परमं राम कैलासं धातुमण्डितम् |
अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः || १-३७-१०

देवकार्यमिदं देव समाधत्स्व हुताशन |
शैलपुत्र्यां महातेजो गंगायां तेज उत्सृज || १-३७-११

देवतानां प्रतिज्ञाय गंगामभ्येत्य पावकः |
गर्भं धारय वै देवि देवतानामिदं प्रियम् || १-३७-१२

इत्येतद्वचनं श्रुत्वा दिव्यं रूपमधारयत् |
स तस्या महिमां दृष्ट्वा समंतादवकीर्यत || १-३७-१३

समंततस्तदा देवीमभ्यषिंचत पावकः |
सर्वस्रोतांसि पूर्णानि गंगाया रघुनन्दन || १-३७-१४

तमुवाच ततो गंगा सर्वदेवपुरोगमम् |
अशक्ता धारणे देव तेजस्तव समुद्धतम् || १-३७-१५
दह्यमानाग्निना तेन संप्रव्यथितचेतना |

अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः || १-३७-१६
इह हैमवते पार्श्वे गर्भोऽयं संनिवेश्यताम् |

श्रुत्वा त्वग्निवचो गंगा तं गर्भमतिभास्वरम् || १-३७-१७
उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ |

यदस्या निर्गतं तस्मात्तप्तजांबूनदप्रभम् || १-३७-१८
कांचनं धरणीं प्राप्तं हिरण्यमतुलप्रभम् |

ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभिजायत || १-३७-१९
मलं तस्याभवत्तत्र त्रपु सीसकमेव च |
तदेतद्धरणीं प्राप्य नानाधातुरवर्धत || १-३७-२०

निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरंजितम् |
सर्वं पर्वतसंनद्धं सौवर्णमभवद्वनम् || १-३७-२१

जातरूपमिति ख्यातं तदा प्रभृति राघव |
सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् |
तृणवृक्षलतागुल्मं सर्वं भवति कांचनम् || १-३७-२२

तं कुमारं ततो जातं सेन्द्राः सहमरुद्गणाः |
क्षीरसंभावनार्थाय कृत्तिकाः समयोजयन् || १-३७-२३

ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् |
ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः || १-३७-२४

ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् |
पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः || १-३७-२५

तेषां तद्वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे |
स्नापयन् परया लक्ष्म्या दीप्यमानं यथानलम् || १-३७-२६

स्कंद इत्यब्रुवन् देवाः स्कन्नं गर्भपरिस्रवात् |
कार्तिकेयं महाबाहुं काकुत्स्थ ज्वलनोपमम् || १-३७-२७

प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् |
षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः || १-३७-२८

गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा |
अजयत् स्वेन वीर्येण दैत्यसैन्यगणान्विभुः || १-३७-२९

सुरसेनागणपतिमभ्यषिंचन्महाद्युतिम् |
ततस्तममराः सर्वे समेत्याग्निपुरोगमाः || १-३७-३०

एष ते राम गंगाया विस्तरोऽभिहितो मया |
कुमारसंभवश्चैव धन्यः पुण्यस्तथैव च || १-३७-३१

भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः |
आयुष्मान् पुत्र पौत्रश्च स्कन्दसालोक्यतां व्रजेत् || १-३७-३२

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे सप्तत्रिंशः सर्गः

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।