Bala Kanda – Sarga 36 (Valmiki Ramayana)

Legend of Uma and her curse

Valmiki Ramayana – Kanda 1 – Sarga 36

उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ |
प्रतिनन्द्य कथां वीरौ ऊचतुर्मुनिपुंगवम् || १-३६-१

धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया |
दुहितुः शैलराजस्य ज्येष्ठाय वक्तुमर्हसि |
विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसंभवम् || १-३६-२

त्रीन्पथो हेतुना केन पावयेल्लोकपावनी |
कथं गङ्गा त्रिपथगा विश्रुता सरिदुत्तमा || १-३६-३
त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता |

तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः || १-३६-४
निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत् |

पुरा रामकृतोद्वाहः शितिकण्ठो महातपाः || १-३६-५
दृष्ट्वा च भगवान् देवीं मैथुनायोपचक्रमे |

तस्य संक्रीडमानस्य महादेवस्य धीमतः |
शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् || १-३६-६
न चापि तनयो राम तस्यामासीत्परंतप |

सर्वे देवाः समुद्युक्ताः पितामहपुरोगमाः || १-३६-७
यदिहोत्पद्यते भूतं कः तत्प्रतिसहिष्यति |

अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन् || १-३६-८
देव देव महादेव लोकस्यास्य हिते रत |
सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि || १-३६-९

न लोका धारयिष्यन्ति तव तेजः सुरोत्तम |
ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर || १-३६-१०
त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय |
रक्ष सर्वानिमान् लोकान्नालोकं कर्तुमर्हसि || १-३६-११

देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः |
बाढमित्यब्रवीत् सर्वान् पुनश्चेदमुवाच ह || १-३६-१२

धारयिष्याम्यहं तेजस्तेजस्येव सहोमया |
त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु || १-३६-१३

यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम् |
धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः || १-३६-१४

एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम् |
यत्तेजः क्षुभितं ह्यद्य तद्धरा धारयिष्यति || १-३६-१५

एवमुक्तः सुरपतिः प्रमुमोच महाबलः |
तेजसा पृथिवी येन व्याप्ता सगिरिकानना || १-३६-१६

ततो देवाः पुनरिदमूचुश्चापि हुताशनम् |
आविश त्वं महातेजो रौद्रं वायुसमन्वितः || १-३६-१७

तदग्निना पुनर्व्याप्तं संजातं श्वेतपर्वतम् |
दिव्यं शरवणं चैव पावकादित्यसंनिभम् || १-३६-१८
यत्र जातो महातेजाः कार्तिकेयोऽग्निसंभवः |

अथोमां च शिवं चैव देवाः सर्षिगणास्तदा || १-३६-१९
पूजयामासुरत्यर्थं सुप्रीतमनसस्ततः |

अथ शैलसुता राम त्रिदशानिदमब्रवीत् || २०
समन्युरशपत् सर्वान् क्रोधसंरक्तलोचना |

यस्मान्निवारिता चाहं संगता पुत्रकाम्यया || १-३६-२१
अपत्यं स्वेषु दारेषु नोत्पादयितुमर्हथ |

अद्य प्रभृति युष्माकमप्रजाः सन्तु पत्नयः || १-३६-२२
एवमुक्त्वा सुरान्सर्वान् शशाप पृथिवीमपि |

अवने नैकरूपा त्वं बहुभार्या भविष्यसि || १-३६-२३
न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता |
प्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रमनिच्छती || १-३६-२४

तान् सर्वान् पीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा |
गमनायोपचक्राम दिशं वरुणपालिताम् || १-३६-२५

स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः |
हिमवत्प्रभवे शृंगे सह देव्या महेश्वरः || १-३६-२६

एष ते विस्तरो राम शैलपुत्र्या निवेदितः |
गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मणः || १-३६-२७

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे षट्त्रिंशः सर्गः

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।