Legend of Brahmadatta
Valmiki Ramayana – Kanda 1 – Sarga 33
तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः |
शिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत || १-३३-१
वायुः सर्वात्मको राजन् प्रधर्षयितुमिच्छति |
अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते || १-३३-२
पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः |
पितरं नो वृणीष्व त्वं यदि नो दास्यते तव || १-३३-३
तेन पापानुबन्धेन वचनं न प्रतीच्छता |
एवं ब्रुवंत्यः सर्वाः स्म वायुनाभिहता भृषम् || १-३३-४
तासां तु वचनं श्रुत्वा राजा परमधार्मिकः |
प्रत्युवाच महातेजाः कन्याशतमनुत्तमम् || १-३३-५
क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत्कृतम् |
ऐकमत्यमुपागम्य कुलं चावेक्षितं मम || १-३३-६
अलंकारो हि नारीणां क्षमा तु पुरुषस्य वा |
दुष्करं तच्च वै क्षान्तं त्रिदशेषु विशेषतः || १-३३-७
यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः |
क्षमा दानं क्षमा सत्यं क्षमा यज्ञश्च पुत्रिकाः || १-३३-८
क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत् |
विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः || १-३३-९
मंत्रज्ञो मंत्रयामास प्रदानं सह मंत्रिभिः |
देशे काले च कर्तव्यं सदृशे प्रतिपादनम् || १-३३-१०
एतस्मिन्नेव काले तु चूली नाम महाद्युतिः |
ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत् || १-३३-११
तपस्यन्तमृषिं तत्र गंधर्वी पर्युपासते |
सोमदा नाम भद्रं ते ऊर्मिलातनया तदा || १-३३-१२
सा च तं प्रणता भूत्वा शुश्रूषणपरायणा |
उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद् गुरुः || १-३३-१३
स च तां कालयोगेन प्रोवाच रघुनंदन |
परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम् || १-३३-१४
परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरा |
उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् || १-३३-१५
लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः |
ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिकम् || १-३३-१६
अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित् |
ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम् || १-३३-१७
तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ ब्राह्ममनुत्तमम् |
ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् || १-३३-१८
स राजा ब्रह्मदत्तस्तु पुरीमध्यवसत्तदा |
कांपिल्यां परया लक्ष्म्या देवराजो यथा दिवम् || १-३३-१९
स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः |
ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा || १-३३-२०
तमाहूय महातेजा ब्रह्मदत्तं महीपतिः |
ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना || १-३३-२१
यथाक्रमम् ततः पाणीन् जग्राह रघुनंदन |
ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा || १-३३-२२
स्पृष्टमात्रे ततः पाणौ विकुब्जा विगतज्वराः |
युक्ताः परमया लक्ष्म्या बभुः कन्याः शतं तदा || १-३३-२३
स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः |
बभूव परमप्रीतो हर्षं लेभे पुनः पुनः || १-३३-२४
कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिः |
सदारं प्रेषयामास सोपाध्यायगणं तदा || १-३३-२५
सोमदापि सुतं दृष्ट्वा पुत्रस्य सदृशीं क्रियाम् |
यथान्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनंदत |
स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभं प्रशस्य च || १-३३-२६
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे त्रयस्त्रिंशः सर्गः