Bala Kanda – Sarga 32 (Valmiki Ramayana)

Rama’s Avel to Mithila city

Valmiki Ramayana – Kanda 1 – Sarga 32

ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः |
अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः || १-३२-१

स महात्मा कुलीनायां युक्तायां सुमहाबलान् |
वैदर्भ्यां जनयामास चतुरः सदृशान् सुतान् || १-३२-२
कुशाम्बं कुशनाभं च अधूर्तरजसं वसुम् |

दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया || १-३२-३
तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः |
क्रियतां पालनं पुत्रा धर्मं प्राप्स्यथ पुष्कलम् || १-३२-४

कुशस्य वचनं श्रुत्वा चत्वारो लोकसत्तमाः |
निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा || १-३२-५

कुशाम्बस्तु महातेजाः कौशांबीमकरोत् पुरीम् |
कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम् || १-३२-६

अधूर्तरजसो राम धर्मारण्यं महामतिः |
चक्रे पुरवरं राजा वसुर्नाम गिरिव्रजम् || १-३२-७

एषा वसुमती नाम वसोस्तस्य महात्मनः |
एते शैलवराः पंच प्रकाशन्ते समंततः || १-३२-८

सुमागधी नदी रम्या मागधान् विश्रुताययौ |
पंचानां शैलमुख्यानां मध्ये मालेव शोभते || १-३२-९

धनुषस्तस्य वीर्यं हि जिज्ञासन्तो महीक्षितः |
न शेकुरारोपयितुं राजपुत्रा महाबलाः ||

सैषा हि मागधी राम वसोस्तस्य महात्मनः |
पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी || १-३२-१०

कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम् |
जनयामास धर्मात्मा घृताच्यां रघुनंदन || १-३२-११

तास्तु यौवनशालिन्यो रूपवत्यः स्वलंकृताः |
उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः || १-३२-१२
गायन्त्यो नृत्यमानाश्च वादयन्त्यश्च राघव |
आमोदं परमं जग्मुर्वराभरणभूषिताः || १-३२-१३

अथ ताश्चारुसर्वांग्यो रूपेणाप्रतिमा भुवि |
उद्यानभूमिमागम्य तारा इव घनान्तरे || १-३२-१४

ताः सर्वगुणसंपन्ना रूपयौवनसंयुताः |
दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् || १-३२-१५

अहं वः कामये सर्वा भार्या मम भविष्यथ |
मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ || १-३२-१६

चलं हि यौवनं नित्यं मानुषेषु विशेषतः |
अक्षय्यं यौवनं प्राप्ता अमर्यश्च भविष्य्थ || १-३२-१७

तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः |
अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् || १-३२-१८

अन्तश्चरसि भूतानां सर्वेषां त्वं सुरसत्तम |
प्रभावज्ञाश्च ते सर्वाः किमर्थमवमन्यसे || १-३२-१९

कुशनाभसुताः देवं समस्ता सुरसत्तम |
स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम् || १-३२-२०

मा भूत्सकालो दुर्मेधः पितरं सत्यवादिनम् |
अवमन्य स्वधर्मेण स्वयंवरमुपास्महे || १-३२-२१

पिता हि प्रभुरस्माकं दैवतं परमं च सः |
यस्य नो दास्यति पिता स नो भर्ता भविष्यति || १-३२-२२

तासां तु वचनं श्रुत्वा हरिः परमकोपनः |
प्रविश्य सर्वगात्राणि बभंज भगवान् प्रभुः || १-३२-२३

ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम् |
प्रविश्य च सुसंभ्रान्ताः सलज्जाः साश्रुलोचनाः || १-३२-२४

स च ता दयिता भग्नाः कन्याः परमशोभनाः |
दृष्ट्वा दीनास्तदा राजा संभ्रांत इदमब्रवीत् || १-३२-२५

किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते |
कुब्जाः केन कृताः सर्वा चेष्टन्त्यो नाभिभाषथ |
एवं राजा विनिःश्वस्य समाधिं संदधे ततः || १-३२-२६

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे द्वात्रिंशः सर्गः

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।