Rama safeguards Vishvamitra’s Vedic ritual
Valmiki Ramayana – Kanda 1 – Sarga 31
अथ ताम् रजनीम् तत्र कृतार्थौ राम लक्षणौ |
ऊषतुर् मुदितौ वीरौ प्रहृष्टेन अंतरात्मना || १-३१-१
प्रभातायाम् तु शर्वर्याम् कृत पौर्व अह्णिक क्रियौ |
विश्वामित्रम् ऋषीम् च अन्यान् सहितौ अभिजग्मतुः || १-३१-२
अभिवाद्य मुनि श्रेष्ठम् ज्वलंतम् इव पावकम् |
ऊचतुर् परमोदारम् वाक्यम् मधुर भाषिणौ || १-३१-३
इमौ स्म मुनि शार्दूल किंकरौ समुपस्थितौ |
आज्ञापय मुनिश्रेष्ठ शासनम् करवाव किम् || १-३१-४
एवम् उक्ते तयोः वाक्यम् सर्व एव महर्षयः |
विश्वामित्रम् पुरस्कृत्य रामम् वचनम् अब्रुवन् || १-३१-५
मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति |
यज्नः परम धर्मिष्ठः तत्र यास्यामहे वयम् || १-३१-६
त्वम् चैव नरशार्दूल सह अस्माभिर् गमिष्यसि |
अद्भुतम् च धनू रत्नम् तत्र त्वम् द्रष्टुम् अर्हसि || १-३१-७
तद्धि पूर्वम् नरश्रेष्ठ दत्तम् सदसि दैवतैः |
अप्रमेय बलम् घोरम् मखे परम भास्वरम् || १-३१-८
न अस्य देवा न गंधर्वा न असुरा न च राक्षसाः |
कर्तुम् आरोपणम् शक्ता न कथंचन मानुषाः || १-३१-९
धनुषस्य तस्य वीर्यम् हि जिज्ञासन्तो महीक्षितः |
न शेकुर् आरोपयितुम् राजपुत्रा महाबलाः || १-३१-१०
तद् धनुर् नरशार्दूल मैथिलस्य महात्मनः |
तत्र द्रक्ष्यसि काकुत्स्थ यज्ञम् च परम अद्भुतम् || १-३१-११
तद्धि यज्ञ फलम् तेन मैथिलेन उत्तमम् धनुः |
याचितम् नर शार्दूल सुनाभम् सर्व दैवतैः || १-३१-१२
आयागभूतम् नृपतेः तस्य वेश्मनि राघव |
अर्चितम् विविधैः गन्धैः धूपैः च अगुरु गंध्भिः || १-३१-१३
एवम् उक्त्वा मुनिवरः प्रस्थानम् अकरोत् तदा |
स ऋषि संघः स काकुत्स्थ आमंत्र्य वन देवताः || १-३१-१४
स्वस्ति वो अस्तु गमिष्यामि सिद्धः सिद्ध आश्रमात् अहम् |
उत्तरे जाह्नवी तीरे हिमवंतम् शिलोच्चयम् || १-३१-१५
इति उक्त्वा मुनिशार्दूलः कौशिकः स तपोधनः |
उत्तराम् दिशम् उद्दिश्य प्रस्थातुम् उपचक्रमे || १-३१-१६
तम् व्रजंतम् मुनिवरम् अन्वगात् अनुसारिणाम् |
शकटी शत मात्रम् तु प्रयाणे ब्रह्म वादिनाम् || १-३१-१७
मृग पक्षि गणाः चैव सिद्ध आश्रम निवासिनः |
अनुजग्मुर् महात्मानम् विश्वामित्रम् तपोधनम् || १-३१-१८
निवर्तयामास ततः स ऋसि सन्घः स पक्षिणः |
ते गत्वा दूरम् अध्वानम् लम्बमाने दिवाकरे || १-३१-१९
वासम् चक्रुर् मुनि गणाः शोणा कूले समाहिताः |
ते अस्तम् गते दिनकरे स्नात्वा हुत हुताशनाः || १-३१-२०
विश्वामित्रम् पुरस्कृत्य निषेदुर् अमित ओजसः |
रामो अपि सह सौमित्रिः मुनीम् तान् अभिपूज्य च || १-३१-२१
अग्रतो निषसाद अथ विश्वामित्रस्य धीमतः |
अथ रामो महातेजा विश्वामित्रम् तपोधनम् || १-३१-२२
पप्रच्छ मुनिशार्दूलम् कौतूहल समन्वितः |
भगवन् कः नु अयम् देशः समृद्ध वन शोभितः || १-३१-२३
श्रोतुम् इच्छामि भद्रम् ते वक्तुम् अर्हसि तत्त्वतः |
चोदितो राम वाक्येन कथयामास सुव्रतः |
तस्य देशस्य निखिलम् ऋषि मध्ये महातपाः || १-३१-२४
इति वाल्मीकि रामायणे आदि काव्ये बाल काण्डे एक त्रिंशः सर्गः