The legend of deomoness tataka – continue
Valmiki Ramayana – Kanda 1 – Sarga 25
अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम् |
श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् || १-२५-१
अल्पवीर्या यदा यक्षी श्रूयते मुनिपुङ्गव |
कथं नागसहस्रस्य धारयत्यबला बलम् || १-२५-२
इत्युक्तं वचनं श्रुत्वा राघवस्यामितोजसा |
हर्षयन् श्लक्ष्णया वाचा सलक्ष्मणमरिन्दमम् || १-२५-३
विश्वामित्रोऽब्रवीद्वाक्यं शृणु येन बलोत्कटा |
वरदानकृतं वीर्यं धारयत्यबला बलम् || १-२५-४
पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान् |
अनपत्यः शुभाचारः स च तेपे महत्तपः || १-२५-५
पितामहस्तु सुप्रीतस्तस्य यक्षपतेस्तदा |
कन्यारत्नं ददौ राम ताटकां नाम नामतः || १-२५-६
ददौ नागसहस्रस्य बलं चास्याः पितामहः |
न त्वेव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः || १-२५-७
तां तु बालां विवर्धन्तीं रूपयौवनशालिनीम् |
जंभपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम् || १-२५-८
कस्यचित्त्वथ कालस्य यक्षी पुत्रं व्यजायत |
मारीचं नाम दुर्धर्षं यः शापाद्राक्षसोऽभवत् ||१-२५-९
सुन्दे तु निहते राम सागस्त्यमृषिसत्तमम् |
ताटका सह पुत्रेण प्रधर्षयितुमिच्छति || १-२५-१०
भक्षार्थं जातसंरम्भा गर्जन्ती साभ्यधावत |
आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः || १-२५-११
राक्षसत्वं भजस्वेति मारीचं व्याजहार सः |
अगस्त्यः परमामर्षस्ताटकामपि शप्तवान् || १-२५-१२
पुरुषादी महायक्षी विरूपा विकृतानना |
इदं रूपं विहायाशु दारुणं रूपमस्तु ते || १-२५-१३
सैषा शापकृतामर्षा ताटका क्रोधमूर्च्छिता |
देशमुत्सादयत्येनमगस्त्याचरितं शुभम् || १-२५-१४
एनां राघवदुर्वृत्तां यक्षीं परमदारुणाम् |
गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् || १-२५-१५
न ह्येनां शापसंसृष्टां कश्चिदुत्सहते पुमान् |
निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन || १-२५-१६
न हि ते स्त्रीवधकृते घृणा कार्या नरोत्तम |
चातुर्वर्ण्यहितार्थाय कर्तव्यम् राजसूनुना || १-२५-१७
नृशंसमनृशंसं वा प्रजारक्षणकारणात् |
पातकं वा सदोषं वा कर्तव्यं रक्षता सदा || १-२५-१८
राज्यभारनियुक्तानामेष धर्मः सनातनः |
अधर्म्यां जहि काकुत्स्थ धर्मो ह्यस्यां न विद्यते || १-२५-१९
श्रूयते हि पुरा शक्रो विरोचनसुतां नृप |
पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत् || १-२५-२०
विष्णुना च पुरा राम भृगुपत्नी पतिव्रता |
अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता || १-२५-२१
एतैरन्यैश्च बहुभी राजपुत्रैर्महात्मभिः |
अधर्मसहिता नार्यो हताः पुरुषसत्तमैः |
तस्मादेनां घृणां त्यक्त्वा जहि मच्छासनान्नृप || १-२५-२२
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे पंचविंशः सर्गः