Rama, Lakshmana travel with Vishvamitra to his ritual place
Valmiki Ramayana – Kanda 1 – Sarga 22
तथा वसिष्ठे ब्रुवति राजा दशरथः स्वयम् |
प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम् || १-२२-१
कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च |
पुरोधसा वसिष्ठेन मङ्गलैरभिमंत्रितम् || १-२२-२
सपुत्रं मूर्ध्न्युपाघ्राय राजा दशरथस्तदा |
ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना || १-२२-३
ततो वायुः सुखस्पर्शो नीरजस्को ववौ तदा |
विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम् || १-२२-४
पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिःस्वनैः |
शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि || १-२२-५
विश्वामित्रो ययावग्रे ततो रामो महायशाः |
काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात् || १-२२-६
कलापिनौ धनुष्पाणी शोभयानौ दिशो दश |
विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ |
अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ || १-२२-७
तदा कुशिकपुत्रं तु धनुष्पाणी स्वलंकृतौ |
बद्धगोधांगुलित्राणौ खड्गवन्तौ महाद्युती || १-२२-८
कुमारौ चारुवपुषौ भ्रातरौ रामलक्ष्मणौ |
अनुयातौ श्रिया दीप्तौ शोभयेतामनिन्दितौ || १-२२-९
स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी |
अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे | १-२२-१०
रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत |
गृहाण वत्स सलिलं मा भूत् कालस्य पर्ययः || १-२२-११
मंत्रग्रामं गृहाण त्वं बलामतिबलां तथा |
न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः || १-२२-१२
न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैरृताः |
न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन || १-२२-१३
त्रिषु लोकेषु वा राम न भवेत्सदृशस्तव |
बलामतिबलां चैव पठतस्तात राघव || १-२२-१४
न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये |
नोत्तरे प्रतिवक्तव्ये समो लोके तवानघ || १-२२-१५
एतद्विद्याद्वये लब्धे न भवेत्सदृशस्तव |
बला चातिबला चैव सर्वज्ञानस्य मातरौ || १-२२-१६
क्षुत्पिपासे न ते राम भविष्येते नरोत्तम |
बलामतिबलां चैव पठतस्तात राघव || १-२२-१७
गृहाण सर्वलोकस्य गुप्तये रघुनन्दन |
विद्याद्वयमधीयाने यशश्चाप्यतुलं भुवि |
पितामहसुते ह्येते विद्ये तेजःसमन्विते || १-२२-१८
प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि धार्मिक |
कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः |१-२२-१९
तपसा संभृते चैते बहुरूपे भविष्यतः |
ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः | १-२२-२०
प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः |
विद्यासमुदितो रामः शुशुभे भूरिविक्रमः || १-२२-२१
सहस्ररश्मिर्भगवान् शरदीव दिवाकरः |
गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे |
ऊषुस्तां रजनीं तत्र सरय्वाः सुसुखं त्रयः || १-२२-२२
दशरथनृपसूनुसत्तमाभ्यां
तृणशयनेऽनुचिते सहोषिताभ्याम् |
कुशिकसुतवचोऽनुलालिताभ्यां |
सुखमिव सा विबभौ विभावरी च || १-२२-२३
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे द्वाविंशः सर्गः