Rama, Bharata, Lakshmana and Shatrughna took births
Valmiki Ramayana – kanda 1 – Sarga 18
निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः |
प्रतिगृह्य सुरा भागान् प्रतिजग्मुर्यथागतम् || १-१८-१
समाप्तदीक्षानियमः पत्नीगणसमन्वितः |
प्रविवेश पुरीं राजा सभृत्यबलवाहनः || १-१८-२
यथार्हं पूजितास्तेन राज्ञा च पृथिवीश्वराः |
मुदिताः प्रययुर्देशान् प्रणम्य मुनिपुंगवम् || १-१८-३
श्रीमतां गच्छतां तेषां स्वगृहाणि पुरात्ततः |
बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे || १-१८-४
गतेषु पृथिवीशेषु राजा दशरथस्तदा |
प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमान् || १-१८-५
शांतया प्रययौ सार्धमृष्यशृङ्गः सुपूजितः |
अनुगम्यमानो राज्ञा च सानुयात्रेण धीमता || १-१८-६
एवं विसृज्य तान् सर्वान् राजा संपूर्णमानसः |
उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिंतयन् || १-१८-७
ततो यज्ञे समाप्ते तु ऋतूनां षट् समत्ययुः |
ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ || १-१८-८
नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पंचसु |
ग्रहेषु कर्कटे लग्ने वाक्पताविंदुना सह || १-१८-९
प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम् |
कौसल्याजनयद्रामं सर्वलक्षणसंयुतम् || १-१८-१०
विष्णोरर्धं महाभागं पुत्रमैक्ष्वाकुनंदनम् |
लोहिताक्षं महाबाहुं रक्तौष्ठं दुंदुभिस्वनम् || १-१८-११
कौसल्या शुशुभे तेन पुत्रेणामिततेजसा |
यथा वरेण देवानामदितिर्वज्रपाणिना || १-१८-१२
भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः |
साक्षाद्विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः || १-१८-१३
अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत् सुतौ |
वीरौ सर्वास्त्रकुशलौ विष्णोरर्धसमन्वितौ | १-१८-१४
पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः |
सार्पे जातौ तु सौमित्री कुळीरेऽभ्युदिते रवौ || १-१८-१५
राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् |
गुणवंतोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः || १-१८-१६
जगुः कलं च गंधर्वा ननृतुश्चाप्सरोगणाः |
देवदुंदुभयो नेदुः पुष्पवृष्टिश्च खात्पतत् || १-१८-१७
उत्सवश्च महानासीदयोध्यायां जनाकुलः |
रथ्याश्च जनसंबाधा नटनर्तकसंकुलाः || १-१८-१८
गायनैश्च विराविण्यो वादनैश्च तथापरैः |
विरेजुर्विपुलास्तत्र सर्वरत्नसमन्विताः || १-१८-१९
प्रदेयांश्च ददौ राजा सूतमागधवंदिनाम् |
ब्राह्मणेभ्यो ददौ वित्तं गोधनानि सहस्रशः || १-१८-२०
अतीत्यैकादशाहं तु नामकर्म तथाकरोत् |
ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम् || १-१८-२१
सौमित्री लक्ष्मणमिति शत्रुघ्नमपरं तथा |
वसिष्ठः परमप्रीतो नामानि कुरुते तदा || १-१८-२२
ब्राह्मणान् भोजयामास पौरान् जानपदानपि |
अददद्ब्राह्मणानां च रत्नौघममितं बहु || १-१८-२३
तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् |
तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः |१-१८-२४
बभूव भूयो भूतानां स्वयंभूरिव सम्मतः |
सर्वे वेदविदः शूराः सर्वे लोकहिते रताः || १-१८-२५
सर्वे ज्ञानोपसंपन्नाः सर्वे समुदिता गुणैः |
तेषामपि महातेजा रामः सत्यपराक्रमः || १-१८-२६
इष्टः सर्वस्य लोकस्य शशांक इव निर्मलः |
गजस्कन्धेऽश्वपृष्ठे च रथचर्यासु सम्मतः || १-१८-२७
धनुर्वेदे च निरतः पितृशुश्रूषणे रतः |
बाल्यात् प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः || १-१८-२८
रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः |
सर्वप्रियकरस्तस्य रामस्यापि शरीरतः || १-१८-२९
लक्ष्मणो लक्ष्मिसंपन्नो बहिःप्राण इवापरः |
न च तेन विना निद्रां लभते पुरुषोत्तमः || १-१८-३०
मृष्टमन्नमुपानीतमश्नाति न हि तं विना |
यदा हि हयमारूढो मृगयां याति राघवः || १-१८-३१
तदैनं पृष्ठतोऽभ्येति स धनुः परिपालयन् |
भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः || १-१८-३२
प्राणैः प्रियतरो नित्यं तस्य चासीत्तथा प्रियः |
स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः || १-१८-३३
बभूव परमप्रीतो देवैरिव पितामहः |
ते यदा ज्ञानसंपन्नाः सर्वे समुदिता गुणैः || १-१८-३४
ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः |
तेषामेवं प्रभावाणां सर्वेषां दीप्ततेजसाम् || १-१८-३५
पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा |
ते चापि मनुजव्याघ्रा वैदिकाध्ययने रताः || १-१८-३६
पितृशुश्रूषणरता धनुर्वेदे च निष्ठिताः |
अथ राजा दशरथस्तेषां दारक्रियां प्रति || १-१८-३७
चिंतयामास धर्मात्मा सोपाध्यायः सबान्धवः |
तस्य चिन्तयमानस्य मन्त्रि मध्ये महात्मनः || १-१८-३८
अभ्यागच्छन्महातेजा विश्वामित्रो महामुनिः |
स राज्ञो दर्शनाकांक्षी द्वाराध्यक्षानुवाच ह || १-१८-३९
शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् |
तच्छ्रुत्वा वचनं तस्य राज्ञो वेश्म प्रदुद्रुवुः || १-१८-४०
संभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः |
ते गत्वा राजभवनं विश्वामित्रमृषिं तदा || १-१८-४१
प्राप्तमावेदयामासुर्नृपायेक्ष्वाकवे तदा |
तेषां तद्वचनं श्रुत्वा सपुरोधाः समाहितः || १-१८-४२
प्रत्युज्जगाम संहृष्टो ब्रह्माणमिव वासवः |
तं दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम् || १-१८-४३
प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत् |
स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा || १-१८-४४
कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् |
पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च || १-१८-४५
कुशलं कौशिको राज्ञः पर्यपृच्छत् सुधार्मिकः |
अपि ते संनताः सर्वे सामन्ता रिपवो जिताः || १-१८-४६
दैवं च मानुषं चैव कर्म ते साध्वनुष्ठितम् |
वसिष्ठं च समागम्य कुशलं मुनिपुंगवः || १-१८-४७
ऋषींश्च तान् यथान्यायं महाभागानुवाच ह |
ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम् || १-१८-४८
विविशुः पूजितास्तेन निषेदुश्च यथार्हतः |
अथ हृष्टमना राजा विश्वामित्रं महामुनिम् || १-१८-४९
उवाच परमोदारो हृष्टस्तमभिपूजयन् |
यथामृतस्य संप्राप्तिर्यथा वर्षमनूदके || १-१८-५०
यथा सदृशदारेषु पुत्रजन्माप्रजस्य वै |
प्रणष्टस्य यथा लाभो यथा हर्षो महोदये || १-१८-५१
तथैवागमनं मन्ये स्वागतं ते महामुने |
कं च ते परमं कामं करोमि किमु हर्षितः || १-१८-५२
पात्रभूतोऽसि मे ब्रह्मन् दिष्ट्या प्राप्तोऽसि मानद |
अद्य मे सफलं जन्म जीवितं च सुजीवितम् || १-१८-५३
यस्माद् विप्रेन्द्रमद्राक्षं सुप्रभाता निशा मम |
पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः || १-१८-५४
ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया |
तदद्भुतमभूत् विप्र पवित्रं परमं मम || १-१८-५५
शुभक्षेत्रगतश्चाहं तव संदर्शनात् प्रभो |
ब्रूहि यत् प्रार्थितं तुभ्यं कार्यमागमनं प्रति || १-१८-५६
इच्छाम्यनुगृहीतोऽहं त्वदर्थं परिवृद्धये |
कार्यस्य न विमर्शं च गंतुमर्हसि सुव्रत || १-१८-५७
कर्ता चाहमशेषेण दैवतं हि भवान् मम |
मम चायमनुप्राप्तो महानभ्युदयो द्विज |
तवागमनजः कृत्स्नो धर्मश्चानुत्तमो द्विज || १-१८-५८
इति हृदयसुखं निशम्य वाक्यम्
श्रुतिसुखमात्मवता विनीतमुक्तम् |
प्रथितगुणयशा गुणैर्विशिष्टः
परमऋषिः परमं जगाम हर्षम् || १-१८-५९
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे अष्टादशः सर्गः