Bala Kanda – Sarga 13 (Valmiki Ramayana)

Ashvamedha begun; sage Vashista’s arrangements

Valmiki Ramayana – kanda 1 – Sarga 13

पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् |
प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् || १-१३-१

अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च |
अब्रवीत्प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् || १-१३-२

यज्ञो मे क्रियतां ब्रह्मन् यथोक्तं मुनिपुङ्गव |
यथा न विघ्नः क्रियते यज्ञांगेषु विधीयताम् || १-१३-३

भवान्स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान् |
वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः || १-१३-४

तथेति च स राजानमब्रवीत् द्विजसत्तमः |
करिष्ये सर्वमेवैतद्भवता यत्समर्थितम् ||१-१३-५

ततोऽब्रवीत् द्विजान्वृद्धान् यज्ञकर्मसु निष्ठितान् |
स्थापत्ये निष्ठितांश्चैव वृद्धान्परमधार्मिकान् || १-१३-६
कर्मान्तिकान् शिल्पकरान् वर्धकीन् खनकानपि |
गणकान् शिल्पिनश्चैव तथैव नटनर्तकान् || १-१३-७
तथा शुचीन् शास्त्रविदः पुरुषान्सुबहुश्रुतान् |
यज्ञकर्म समीहन्तां भवन्तो राजशासनात् || १-१३-८
इष्टका बहुसाहस्री शीघ्रमानीयतामिति |
औपकार्याः क्रियन्तां च राज्ञो बहुगुणान्विताः || १-१३-९

ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः |
भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ||१-१३-१०

तथा पौरजनस्यापि कर्तव्याश्च सुविस्तराः |
आगतानां सुदूराच्च पार्थिवानां पृथक् पृथक् || १-१३-११

वाजिवारणशलाश्च तथा शय्यागृहाणि च |
भटानां महदावास वैदेशिकनिवासिनाम् || १-१३-१२

आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः |
तथा पौरजनस्यापि जनस्य बहुशोभनम् || १-१३-१३

दातव्यमन्नं विधिवत्सत्कृत्य न तु लीलया |
सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः || १-१३-१४
न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि |

यज्ञकर्मसु ये व्यग्राः पुरुषाः शिल्पिनस्तथा || १-१३-१५
तेषामपि विशेषेण पूजा कार्या यथाक्रमम् |
ये स्युः संपूजिता सर्वे वसुभिर्भोजनेन च || १-१३-१६

यथा सर्वं सुविहितं न किंचित्परिहीयते |
तथा भवन्तः कुर्वन्तु प्रीतियुक्तेन चेतसा || १-१३-१७

ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन् |
यथेष्टं तत्सुविहितं न किंचित्परिहीयते || १-१३-१८
यथोक्तं तत्करिष्यामो न किंचित्परिहास्यते |

ततः सुमंत्रमाहूय वसिष्ठो वाक्यमब्रवीत् || १-१३-१९
निमंत्रयस्व नृपतीन्पृथिव्यां ये च धार्मिकाः |
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चैव सहस्रशः || १-१३-२०
समानयस्व सत्कृत्य सर्वदेशेषु मानवान् |

मिथिलाधिपतिं शूरं जनकं सत्यवादिनम् || १-१३-२१
तमानय महाभागं स्वयमेव सुसत्कृतम् |
पूर्वसंबन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते || १-१३-२२

तथा काशीपतिं स्निग्धं सततं प्रियवादिनम् |
सद् वृत्तं देवसंकाशं स्वयमेवानयस्व ह || १-१३-२३

तथा केकयराजानं वृद्धं परमधार्मिकम् |
श्वशुरं राजसिंहस्य सपुत्रं त्वमिहानय || १-१३-२४

अङ्गेश्वरं महेष्वासं रोमपादं सुसत्कृतम् |
वयस्यं राजसिंहस्य समानय यशस्विनम् || १-१३-२५

तथा कोसलराजानं भानुमंतं सुसत्कृतम् |
मगधाधिपतिं शूरं सर्वशास्त्रविशारदम् || १-१३-२६

प्राप्तिज्ञं परमोदारं सत्कृतं पुरुषर्षभम् |
राज्ञः शासनमादाय चोदयस्व नृपर्षभान् |
प्राचीनान् सिन्धुसौवीरान् सौराष्ट्रेयांश्च पार्थिवान् || १-१३-२७

दाक्षिणात्यान्नरेन्द्रांश्च समस्तानानयस्व ह |
सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले || १-१३-२८
तानानय यथा क्षिप्रं सानुगान् सहबान्धवान् |
एतान् दूतैर्महाभागैरानयस्व नृपाज्ञया || १-१३-२९

वसिष्ठवाक्यं तच्छ्रुत्वा सुमंत्रस्त्वरितस्तदा |
व्यादिशत्पुरुषांस्तत्र राज्ञामानयने शुभान् || १-१३-३०

स्वयमेव हि धर्मात्मा प्रयातो मुनिशासनात् |
सुमंत्रस्त्वरितो भूत्वा समानेतुं महीक्षितः || १-१३-३१

ते च कर्मान्तिकाः सर्वे वसिष्ठाय महर्षये |
सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम् || १-१३-३२

ततः प्रीतो द्विजश्रेष्ठस्तान्सर्वान्मुनिरब्रवीत् |
अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा || १-१३-३३
अवज्ञया कृतं हन्याद्दातारं नात्र संशयः |

ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः || १-१३-३४
बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह |

ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत् || १-१३-३५
उपयाता नरव्याघ्र राजानस्तव शासनात् |
मयापि सत्कृताः सर्वे यथार्हं राजसत्तमाः || १-१३-३६

यज्ञीयं च कृतं सर्वं पुरुषैः सुसमाहितैः |
निर्यातु च भवान्यष्टुं यज्ञायतनमन्तिकात् || १-१३-३७

सर्वकामैरुपहृतैरुपेतं वै समन्ततः |
द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् || १-१३-३८

तथा वसिष्ठवचनादृष्यशृङ्गस्य चोभयोः |
शुभे दिवसनक्षत्रे निर्यातो जगतीपतिः || १-१३-३९

ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः |
ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा || १-१३-४०

यज्ञवाटं गताः सर्वे यथाशास्त्रं यथाविधि |
श्रीमांश्च सह पत्नीभी राजा दीक्षामुपाविशत् || १-१३-४१

इति श्री वाल्मिकिरामायणे बालकाण्डे त्रयोदशः सर्गः

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।