Bala Kanda – Sarga 12 (Valmiki Ramayana)

Dasaratha readies to perform Ashvamedha ritual

Valmiki Ramayana – kanda 1 – Sarga 12

ततः काले बहुतिथे कस्मिंश्चित्सुमनोहरे |
वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत् ||१-१२-१

ततः प्रसाद्य शिरसा तं विप्रं देववर्णिनम् |
यज्ञाय वरयामास संतानार्थं कुलस्य च || १-१२-२

तथेति च स राजानमुवाच च सुसत्कृतः |
संभाराः संभ्रियन्तां ते तुरगश्च विमुच्यताम् || १-१२-३
सरव्याश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् |

ततो नृपोऽब्रवीद्वाक्यं सुमन्त्रं मन्त्रिसत्तमम् || १-१२-४
सुमंत्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः |
सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् || १-१२-५
पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः |

ततः सुमंत्रस्त्वरितं गत्वा त्वरितविक्रमः || १-१२-६
समानयत्स तान्सर्वान् समस्तान्वेदपारगान् |
तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा || १-१२-७
धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत् |

मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् || १-१२-८
तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम |
तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा || १-१२-९
ऋषिपुत्रप्रभावेण कामान्प्राप्स्यामि चाप्यहम् |

ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् || १-१२-१०
वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम् |
ऋष्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा || १-१२-११

संभाराः संभ्रियन्तां ते तुरगश्च विमुच्यताम् |
सरव्याश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् || १-१२-१२

सर्वथा प्राप्यसे पुत्रांश्चतुरोऽमितविक्रमान् |
यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता || १-१२-१३

ततः प्रीतोऽभवद्राजा श्रुत्वा तत् द्विजभाषितम् |
अमात्यांश्चाब्रवीद्राजा हर्षेणेदं शुभाक्षरम् || १-१२-१४

गुरूणां वचनाच्छीघ्रं संभाराः संभ्रियन्तु मे |
समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् || १-१२-१५

सरयव्याश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् |
शांतयश्चाभिवर्धन्तां यथाकल्पं यथाविधि || १-१२-१६

शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता |
नापराधो भवेत्कष्टो यद्यस्मिन् क्रतुसत्तमे || १-१२-१७

छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः |
विघ्नितस्य हि यज्ञस्य सद्यः कर्ता विनश्यति || १-१२-१८

तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते |
तथा विधानं क्रियतां समर्थाः करणेष्विह || १-१२-१९

तथेति च ततः सर्वे मंत्रिणः प्रत्यपूजयन् |
पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञप्तमकुर्वत || १-१२-२०

ततो द्विजास्ते धर्मज्ञमस्तुवन्पार्थिवर्षभम् |
अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् || १-१२-२१

गतेष्वथ द्विजाग्र्येषु मंत्रिणस्तान्नराधिपः |
विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः ||१-१२-२२

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे द्वादशः सर्गः

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।