Dasaratha brings Rishyasringa to ayodhya
Valmiki Ramayana – kanda 1 – Sarga 11
भूय एव हि राजेन्द्र शृणु मे वचनं हितम् |
यथा स देवप्रवरः कथयामेवमब्रवीत् || १-११-१
इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः |
नाम्ना दशरथो राजा श्रीमान्सत्यप्रतिश्रवः || १-११-२
अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति |
कन्या चास्य महाभागा शांता नाम भविष्यति || १-११-३
पुत्रस्तु सोऽङ्गराजस्य रोमपाद इति श्रुतः |
तं स राजा दशरथो गमिष्यति महायशाः || १-११-४
अनपत्योऽस्मि धर्मात्मन् शांताभर्ता मम क्रतुम् |
आहरेत त्वयाज्ञप्तः संतानार्थं कुलस्य च || १-११-५
श्रुत्वा राज्ञोऽथ तद्वाक्यं मनसा स विचिंत्य च |
प्रदास्यते पुत्रवन्तं शांताभर्तारमात्मवान् || १-११-६
प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः |
आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना || १-११-७
तं च राजा दशरथो यष्टुकामः कृतांजलिः |
ऋष्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् || १-११-८
यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः |
लभते च स तं कामं द्विजमुख्याद्विशांपतिः || १-११-९
पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः |
वंशप्रतिष्ठानकराः सर्वभूतेषु विश्रुताः || १-११-१०
एवं स देवप्रवरः पूर्वं कथितवान्कथाम् |
सनत्कुमारो भगवान्पुरा देवयुगे प्रभुः || १-११-११
स त्वं पुरुषशार्दूल तमानय सुसत्कृतम् |
स्वयमेव महाराज गत्वा सबलवाहनः || १-११-१२
सुमंत्रस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत् |
अनुमान्य वसिष्ठं च सूतवाक्यं निशम्य च || १-११-१३
सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः |
वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः || १-११-१४
अभिचक्राम तं देशं यत्र वै मुनिपुंगवः |
आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् || १-११-१५
ऋषिपुत्रं ददर्शाथो दीप्यमानमिवानलम् |
ततो राजा यथायोग्यं पूजां चक्रे विशेषतः || १-११-१६
सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना |
रोमपादेन चाख्यातमृषिपुत्राय धीमते || १-११-१७
सख्यं संबन्धकं चैव तदा तं प्रत्यपूजयत् |
एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः || १-११-१८
सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत् |
शांता तव सुता राजन् सह भर्त्रा विशांपते || १-११-१९
मदीयं नगरं यातु कार्यं हि महदुद्यतम् |
तथेति राजा संश्रुत्य गमनं तस्य धीमतः || १-११-२०
उवाच वचनं विप्रं गच्छ त्वं सह भार्यया |
ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा || १-११-२१
स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया |
तावन्योन्यांजलिं कृत्वा स्नेहात्संश्लिष्य चोरसा || १-११-२२
ननंदतुर्दशरथो रोमपादश्च वीर्यवान् |
ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः || १-११-२३
पौरेभ्यः प्रेषयामास दूतान्वै शीघ्रगामिनः |
क्रियतां नगरं सर्वं क्षिप्रमेव स्वलंकृतम् || १-११-२४
धूपितं सिक्तसम्मृष्टं पताकाभिरलंकृतम् |
ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् || १-११-२५
तथा प्रचक्रुस्तत्सर्वं राज्ञा यत्प्रेषितं तदा |
ततः स्वलंकृतं राजा नगरं प्रविवेश ह || १-११-२६
शङ्खदुन्दुभिनिर्घोषैः पुरस्कृत्य द्विजर्षभम् |
ततः प्रमुदिताः सर्वे दृष्ट्वा तं नागरा द्विजम् || १-११-२७
प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा |
यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम् || १-११-२८
अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा च शास्त्रतः |
कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् || १-११-२९
अन्तःपुरस्त्रियः सर्वाः शांतां दृष्ट्वा तथागताम् |
सह भर्त्रा विशालाक्षीं प्रीत्यानंदमुपागमन् || १-११-३०
पूज्यमाना तु ताभिः सा राज्ञा चैव विशेषतः |
उवास तत्र सुखिता कञ्चित्कालं सहर्त्विजा || १-११-३१
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे एकादशः सर्गः