Ayodhya Kanda – Sarga 7 (Valmiki Ramayana)

The wicked Manthara

Valmiki Ramayana – Kanda 2 – Sarga 7

ज्ञातिदासी यतो जाता कैकेय्या तु सहोषिता |
प्रासादं चन्द्रसङ्काशमारुरोह यदृच्छया || २-७-१

सिक्तराजपथां कृत्स्नां प्रकीर्णकुसुमोत्कराम् |
अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत || २-७-२

पताकाभिर्वरार्हाभिर्ध्वजैश्च समलङ्कृताम् |
वृतां चंदपथैश्चापि शिरःस्नातजनैर्वृताम् || २-७-३
माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम् |
शुक्लदेवगृहद्वारां सर्ववादित्रनिस्वनाम्|| २-७-४
संप्रहृष्टजनाकीर्णां ब्रह्मघोषाभिनादिताम् |
प्रहृष्टवरहस्त्यश्वां संप्रणर्धितगोवृशाम् ||२-७-५
प्रहृउष्टमुदितैः पौरैरुच्च्रि तद्वजमालिनीम् |
अयोध्यां वन्थरा तस्मात्प्रासादादन्ववैक्षत|| २-७-६

प्रहर्षोत्फुल्लनयनां पाण्डुरक्षौमवासिनीम् |
अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा || २-७-७

उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती |
राममाता धनं किं नु जनेभ्यः संप्रयच्छति | २-७-८

अतिमात्रप्रहर्षोऽयं किं जनस्य च शंस मे |
कारयिष्यति किं वापि संप्रहृष्टो महीपतिः || २-७-९

विदीर्यमाणा हर्षेण धात्री तु परया मुदा |
आचचक्षेऽथ कुब्जायै भूयसीं राघवश्रियम् || २-७-१०

श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् |
राजा दशरथो राममभिषेचयितानघम् || २-७-११

धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता |
कैलासशिखराकारात्प्रासादादवरोहत || २-७-१२

सा दह्यमाना कोपेन मनथरा पापदर्शिनी |
शयनामेत्य कैकेयीमिदं वचन मब्रवीत् || २-७-१३

उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते |
उपप्लुतमघौघेन किमात्मानं न बुध्यसे || २-७-१४

अनिष्टे सुभगाकारे सौभग्येन विकत्थसे |
चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे ||२-७-१५

एवमुक्ता तु कैकेयी रुष्टया परुषं वचः |
कुब्जया पापदर्शिन्या विषादमगमत्परम् || २-७-१६

कैकेयि त्वब्रवीत्कुभां कच्चित्क्षेमं न मनथरे |
विषण्णवदनां हि त्वां लक्षये भृ शदुःखिताम् || २-७-१७

मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् |
उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा || २-७-१८

सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी |
विषदयन्ती प्रोवाच भेदयन्ती च राघवम् || २-७-१९

अक्षय्यं सुमहद्देवि प्रवृत्तं द्वद्विनाशनम् |
रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति || २-७-२०

सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता |
दह्यमानाऽ नलेनेव त्वद्धितार्थमिहागता || २-७-२१

तव दुःखेन कैकेयि मम दुःखं महद्भवेत् |
त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः || २-७-२२

नराधिपकुले जाता महिषी त्वं महीपतेः |
उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे || २-७-२३

धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः |
शुद्धभावे न जानीषे तेनैवमतिसन्धिता || २-७-२४

उपस्थितं पयुञ्जानस्त्वयि सान्त्वमनर्थकम् |
अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति || २-७-२५

अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु |
काल्यं स्थापयिता रामं राज्ये निहतकण्टके || २-७-२६

शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया |
आशीविष इवाङ्केन बाले परिधृतस्त्वया || २-७-२७

यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः |
राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता || २-७-२८

पापेनानृतसान्त्वेन बाले नित्यं सुखोचिते |
रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि || २-७-२९

सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव |
त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने || २-७-३०

मन्थराया वचः श्रुत्वा शयनात्स शुभानना |
उत्तस्थौ हर्षसंपूर्णा चन्द्रलेखेव शारदी || २-७-३१

अतीव सा तु संहृष्टाअ कैकेयी विस्मयान्विता |
एकमाभरणं तस्यै कुब्जायै प्रददौ शुभम् || २-७-३२

दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा |
कैकेयी मन्थरां हृष्टा पुनरेवाब्रवीदिदम् || २-७-३३

इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम् |
एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते || २-७-३४

रामे वा भरते वाहं विशेषं नोपलक्षये |
तस्मात्तुष्टास्मि यद्राजा रामं राज्येऽभिषेक्ष्यति || २-७-३५

न मे परम् किञ्चि दितस्त्वयापि न |
प्रियं प्रियार्हे सुवचम् वचो परम् |
तथा ह्यवोचस्त्वमतः प्रियोत्तरं |
वरं वरं ते प्रददामि तं वृणु || २-७-३६

|| इत्यार्षे स्रीमद्रामायने आदिकाव्ये अयोध्यकान्दे शस्तः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।