Ayodhya Kanda – Sarga 60 (Valmiki Ramayana)

Sumantra was unable to console Kausalya

Valmiki Ramayana – Kanda 2 – Sarga 60

ततः भूत उपसृष्टा इव वेपमाना पुनः पुनः |
धरण्याम् गत सत्त्वा इव कौसल्या सूतम् अब्रवीत् || २-६०-१

नय माम् यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः |
तान् विना क्षणम् अपि अत्र जीवितुम् न उत्सहे हि अहम् || २-६०-२

निवर्तय रथम् शीघ्रम् दण्डकान् नय माम् अपि |
अथ तान् न अनुगच्चामि गमिष्यामि यम क्षयम् || २-६०-३

बाष्प वेगौपहतया स वाचा सज्जमानया |
इदम् आश्वासयन् देवीम् सूतः प्रान्जलिर् अब्रवीत् || २-६०-४

त्यज शोकम् च मोहम् च सम्भ्रमम् दुह्खजम् तथा |
व्यवधूय च सम्तापम् वने वत्स्यति राघवः || २-६०-५

लक्ष्मणः च अपि रामस्य पादौ परिचरन् वने |
आराधयति धर्मज्ञः पर लोकम् जित इन्द्रियः || २-६०-६

विजने अपि वने सीता वासम् प्राप्य गृहेष्व् इव |
विस्रम्भम् लभते अभीता रामे सम्न्यस्त मानसा || २-६०-७

न अस्या दैन्यम् कृतम् किंचित् सुसूक्ष्मम् अपि लक्षये |
उचिता इव प्रवासानाम् वैदेही प्रतिभाति मा || २-६०-८

नगर उपवनम् गत्वा यथा स्म रमते पुरा |
तथैव रमते सीता निर्जनेषु वनेष्व् अपि || २-६०-९

बाला इव रमते सीता बाल चन्द्र निभ आनना |
रामा रामे हि अदीन आत्मा विजने अपि वने सती || २-६०-१०

तत् गतम् हृदयम् हि अस्याः तत् अधीनम् च जीवितम् |
अयोध्या अपि भवेत् तस्या राम हीना तथा वनम् || २-६०-११

परि पृच्चति वैदेही ग्रामामः च नगराणि च |
गतिम् दृष्ट्वा नदीनाम् च पादपान् विविधान् अपि || २-६०-१२
रामम् हि लक्ष्मनम् वापि पृष्ट्वा जानाति जानती |
अयोध्याक्रोशमात्रे तु विहारमिव संश्रिता || २-६०-१३

इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् |
कैकेयीसंश्रितम् वाक्यम् नेदानीम् प्रतिभाति माम् || २-६०-१४

ध्वंसयित्वा तु तद्वाक्यम् प्रमादात्पर्युपस्थितम् |
ह्लदनम् वचनम् सूतो देव्या मधुरमब्रवीत् || २-६०-१५

अध्वना वात वेगेन सम्भ्रमेण आतपेन च |
न हि गच्चति वैदेह्याः चन्द्र अंशु सदृशी प्रभा || २-६०-१६

सदृशम् शत पत्रस्य पूर्ण चन्द्र उपम प्रभम् |
वदनम् तत् वदान्याया वैदेह्या न विकम्पते || २-६०-१७

अलक्त रस रक्त अभाव् अलक्त रस वर्जितौ |
अद्य अपि चरणौ तस्याः पद्म कोश सम प्रभौ || २-६०-१८

नूपुर उद्घुष्ट हेला इव खेलम् गच्चति भामिनी |
इदानीम् अपि वैदेही तत् रागा न्यस्त भूषणा || २-६०-१९

गजम् वा वीक्ष्य सिम्हम् वा व्याघ्रम् वा वनम् आश्रिता |
न आहारयति सम्त्रासम् बाहू रामस्य संश्रिता || २-६०-२०

न शोच्याः ते न च आत्मा ते शोच्यो न अपि जन अधिपः |
इदम् हि चरितम् लोके प्रतिष्ठास्यति शाश्वतम् || २-६०-२१

विधूय शोकम् परिहृष्ट मानसा |
महर्षि याते पथि सुव्यवस्थिताः |
वने रता वन्य फल अशनाः पितुः |
शुभाम् प्रतिज्ञाम् परिपालयन्ति ते || २-६०-२२

तथा अपि सूतेन सुयुक्त वादिना |
निवार्यमाणा सुत शोक कर्शिता |
न चैव देवी विरराम कूजितात् |
प्रिय इति पुत्र इति च राघव इति च || २-६०-२३

|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे ष्ष्टितमः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।