Ayodhya Kanda – Sarga 59 (Valmiki Ramayana)

Dasaratha falls unconscious

Valmiki Ramayana – Kanda 2 – Sarga 59

मम तु अश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि |
उष्णम् अश्रु विमुन्चन्तः रामे सम्प्रस्थिते वनम् || २-५९-१

उभाभ्याम् राज पुत्राभ्याम् अथ कृत्वा अहम् ज्ञलिम् |
प्रस्थितः रथम् आस्थाय तत् दुह्खम् अपि धारयन् || २-५९-२

गुहा इव सार्धम् तत्र एव स्थितः अस्मि दिवसान् बहून् |
आशया यदि माम् रामः पुनः शब्दापयेद् इति || २-५९-३

विषये ते महा राज माम व्यसन कर्शिताः |
अपि वृक्षाः परिम्लानः सपुष्प अन्कुर कोरकाः || २-५९-४

उपतप्तोदका नद्यः पल्वलानि सरांसि च |
परिष्कुपलाशानि वनान्युपवनानि च || २-५९-५

न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च |
राम शोक अभिभूतम् तन् निष्कूजम् अभवद् वनम् || २-५९-६

लीन पुष्कर पत्राः च नर इन्द्र कलुष उदकाः |
सम्तप्त पद्माः पद्मिन्यो लीन मीन विहम्गमाः || २-५९-७

जलजानि च पुष्पाणि माल्यानि स्थलजानि च |
न अद्य भान्ति अल्प गन्धीनि फलानि च यथा पुरम् || २-५९-८

अत्रोद्यानानि शून्यानि प्रलीनविहगानि च |
न चाभिरामानारामान् पश्यामि मनुजर्षभ || २-५९-९

प्रविशन्तम् अयोध्याम् माम् न कश्चित् अभिनन्दति |
नरा रामम् अपश्यन्तः निह्श्वसन्ति मुहुर् मुहुः || २-५९-१०

देव राजरथम् दृष्ट्वा विना राममिहागतम् |
दुःखादश्रुमुखः सर्वो राजमार्गगतो जनः || २-५९-११

हर्म्यैः विमानैः प्रासादैः अवेक्ष्य रथम् आगतम् |
हाहा कार कृता नार्यो राम अदर्शन कर्शिताः || २-५९-१२

आयतैः विमलैः नेत्रैः अश्रु वेग परिप्लुतैः |
अन्योन्यम् अभिवीक्षन्ते व्यक्तम् आर्ततराः स्त्रियः || २-५९-१३

न अमित्राणाम् न मित्राणाम् उदासीन जनस्य च |
अहम् आर्ततया कंचित् विशेषम् न उपलक्षये || २-५९-१४

अप्रहृष्ट मनुष्या च दीन नाग तुरम्गमा |
आर्त स्वर परिम्लाना विनिह्श्वसित निह्स्वना || २-५९-१५
निरानन्दा महा राज राम प्रव्राजन आतुला |
कौसल्या पुत्र हीना इवायोध्या प्रतिभाति मा मा || २-५९-१६

सूतस्य वचनम् श्रुत्वा वाचा परम दीनया |
बाष्प उपहतया राजा तम् सूतम् इदम् अब्रवीत् || २-५९-१७

कैकेय्या विनियुक्तेन पाप अभिजन भावया |
मया न मन्त्र कुशलैः वृद्धैः सह समर्थितम् || २-५९-१८

न सुहृद्भिर् न च अमात्यैः मन्त्रयित्वा न नैगमैः |
मया अयम् अर्थः सम्मोहात् स्त्री हेतोह् सहसा कृतः || २-५९-१९

भवितव्यतया नूनम् इदम् वा व्यसनम् महत् |
कुलस्य अस्य विनाशाय प्राप्तम् सूत यदृच्चया || २-५९-२०

सूत यद्य् अस्ति ते किंचिन् मया अपि सुकृतम् कृतम् |
त्वम् प्रापय आशु माम् रामम् प्राणाः सम्त्वरयन्ति माम् || २-५९-२१

यद् यद् या अपि मम एव आज्ञा निवर्तयतु राघवम् |
न शक्ष्यामि विना राम मुहूर्तम् अपि जीवितुम् || २-५९-२२

अथवा अपि महा बाहुर् गतः दूरम् भविष्यति |
माम् एव रथम् आरोप्य शीघ्रम् रामाय दर्शय || २-५९-२३

वृत्त दम्ष्ट्रः महा इष्वासः क्व असौ लक्ष्मण पूर्वजः |
यदि जीवामि साध्व् एनम् पश्येयम् सह सीतया || २-५९-२४

लोहित अक्षम् महा बाहुम् आमुक्त मणि कुण्डलम् |
रामम् यदि न पश्यामि गमिष्यामि यम क्षयम् || २-५९-२५

अतः नु किम् दुह्खतरम् यो अहम् इक्ष्वाकु नन्दनम् |
इमाम् अवस्थाम् आपन्नो न इह पश्यामि राघवम् || २-५९-२६

हा राम राम अनुज हा हा वैदेहि तपस्विनी |
न माम् जानीत दुह्खेन म्रियमाणम् अनाथवत् || २-५९-२७

स तेन राजा दुःखेन भृशमर्पितचेतनः |
अवगाढः सुदुष्पारम् शोकसागमब्रवीत् || २-५९-२८

रामशोकमहाभोगः सीताविरहपारगः |
श्वसितोर्मिमहावर्तो बाष्पफेनजलाविलः || २-५९-२९
बाहुविक्षेपमीनौघो विक्रन्दितमहास्वनः |
प्रकीर्णकेशशैवालः कैकेयीबडबामुखः || २-५९-३०
ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः |
वरवेलो नृशंसाया रामप्रव्राजनायतः || २-५९-३१
यस्मिन् बत निमग्नोऽहम् कौसल्ये राघवम् विना |
दुस्तरः जीवता देवि मया अयम् शोक सागरः || २-५९-३२

अशोभनम् यो अहम् इह अद्य राघवम् |
दिदृक्षमाणो न लभे सलक्ष्मणम्
इति इव राजा विलपन् महा यहाशः
पपात तूर्णम् शयने स मूर्चितः || २-५९-३३

इति विलपति पार्थिवे प्रनष्टे |
करुणतरम् द्विगुणम् च राम हेतोः |
वचनम् अनुनिशम्य तस्य देवी |
भयम् अगमत् पुनर् एव राम माता || २-५९-३४

|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे एकोनषष्टितमः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।