Ayodhya Kanda – Sarga 58 (Valmiki Ramayana)

Sumantra delivers the messages of Rama

Valmiki Ramayana – Kanda 2 – Sarga 58

प्रत्याश्वस्तः यदा राजा मोहात् प्रत्यागतः पुनः |
थाजुहाव तम् सूतम् राम वृत्त अन्त कारणात् || २-५८-१

तदा सूतो महाराज कृताञ्जलिरुपस्थितः|
राममेव अनुशोचन्तं दुःखशोकसमन्वितम् || २-५८-२
वृद्धम् परम सम्तप्तम् नव ग्रहम् इव द्विपम् |
विनिःश्वसन्तम् ध्यायन्तम् अस्वस्थम् इव कुन्जरम् || २-५८-३

राजा तु रजसा सूतम् ध्वस्त अङ्गम् समुपस्थितम् |
अश्रु पूर्ण मुखम् दीनम् उवाच परम आर्तवत् || २-५८-४

क्व नु वत्स्यति धर्म आत्मा वृक्ष मूलम् उपाश्रितः |
सो अत्यन्त सुखितः सूत किम् अशिष्यति राघवः || २-५८-५

दुःखस्यानुचितो दुःखम् सुमन्त्र शयनोचितः |
भूमि पाल आत्मजो भूमौ शेते कथम् अनाथवत् || २-५८-६

यम् यान्तम् अनुयान्ति स्म पदाति रथ कुण्ज़्जराः |
स वत्स्यति कथम् रामः विजनम् वनम् आश्रितः || २-५८-७

व्याळैः मृगैः आचरितम् कृष्ण सर्प निषेवितम् |
कथम् कुमारौ वैदेह्या सार्धम् वनम् उपस्थितौ || २-५८-८

सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया |
राज पुत्रौ कथम् पादैः अवरुह्य रथात् गतौ || २-५८-९

सिद्ध अर्थः खलु सूत त्वम् येन दृष्टौ मम आत्मजौ |
वन अन्तम् प्रविशन्तौ ताव् अश्विनाव् इव मन्दरम् || २-५८-१०

किम् उवाच वचो रामः किम् उवाच च लक्ष्मणः |
सुमन्त्र वनम् आसाद्य किम् उवाच च मैथिली || २-५८-११

आसितम् शयितम् भुक्तम् सूत रामस्य कीर्तय |
जीविष्याम्यहमेतेन ययातिरिव साधुषु || २-५८-१२

इति सूतः नर इन्द्रेण चोदितः सज्जमानया |
उवाच वाचा राजानम् स बाष्प परिर्बद्धया || २-५८-१३

अब्रवीन् माम् महा राज धर्मम् एव अनुपालयन् |
अन्जलिम् राघवः कृत्वा शिरसा अभिप्रणम्य च || २-५८-१४

सूत मद्वचनात् तस्य तातस्य विदित आत्मनः |
शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः || २-५८-१५

सर्वम् अन्तः पुरम् वाच्यम् सूत मद्वचनात्त्वया |
आरोग्यम् अविशेषेण यथा अर्हम् च अभिवादनम् || २-५८-१६

माता च मम कौसल्या कुशलम् च अभिवादनम् |
अप्रमादम् च वक्तव्या ब्रूयाश्चैमिदम् वचः || २-५८-१७

धर्मनित्या यथाकालमग्न्यगारपरा भव |
देवि देवस्य पादौ च देववत् परिपालय || २-५८-१८

अभिमानम् च मानम् च त्यक्त्वा वर्तस्व मातृषु |
अनु राजान मार्याम् च कैकेयीमम्ब कारय || २-५८-१९

कुमारे भरते वृत्तिर्वर्तितव्याच राजवत् |
अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर || २-५८-२०

भरतः कुशलम् वाच्यो वाच्यो मद् वचनेन च |
सर्वास्व एव यथा न्यायम् वृत्तिम् वर्तस्व मातृषु || २-५८-२१

वक्तव्यः च महा बाहुर् इक्ष्वाकु कुल नन्दनः |
पितरम् यौवराज्यस्थो राज्यस्थम् अनुपालय || २-५८-२२

अतिक्रान्तवया राजा मास्मैनम् व्यवरोरुधः |
कुमारराज्ये जीव त्वम् तस्यैवाज्ञ्प्रवर्तनाम् || २-५८-२३

अब्रवीच्चापि माम् भूयो भृशमश्रूणि वर्तयन् |
मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी || २-५८-२४

इति एवम् माम् महाराज बृवन्न् एव महा यशाः |
रामः राजीव ताम्र अक्षो भृशम् अश्रूणि अवर्तयत् || २-५८-२५

लक्ष्मणः तु सुसम्क्रुद्धो निह्श्वसन् वाक्यम् अब्रवीत् |
केन अयम् अपराधेन राज पुत्रः विवासितः || २-५८-२६

राज्ञा तु खलु कैकेय्या लघु त्वाश्रित्य शासनम् |
कृतम् कार्यमकार्यम् वा वयम् येनाभिपीडिताः || २-५८-२७

यदि प्रव्राजितः रामः लोभ कारण कारितम् |
वर दान निमित्तम् वा सर्वथा दुष्कृतम् कृतम् || २-५८-२८

इदम् तावद्यथाकाममीश्वरस्य कृते कृतम् |
रामस्य तु परित्यागे न हेतुम् उपलक्षये || २-५८-२९

असमीक्ष्य समारब्धम् विरुद्धम् बुद्धि लाघवात् |
जनयिष्यति सम्क्रोशम् राघवस्य विवासनम् || २-५८-३०

अहम् तावन् महा राजे पितृत्वम् न उपलक्षये |
भ्राता भर्ता च बन्धुः च पिता च मम राघवः || २-५८-३१

सर्व लोक प्रियम् त्यक्त्वा सर्व लोक हिते रतम् |
सर्व लोको अनुरज्येत कथम् त्वा अनेन कर्मणा || २-५८-३२

सर्वप्रजाभिरामम् हि रामम् प्रव्राज्य धार्मिकम् |
सर्वलोकम् विरुध्येमम् कथम् राजा भविष्यसि || २-५८-३३

जानकी तु महा राज निःश्वसन्ती तपस्विनी |
भूत उपहत चित्ता इव विष्ठिता वृष्मृता स्थिता || २-५८-३४

अदृष्ट पूर्व व्यसना राज पुत्री यशस्विनी |
तेन दुह्खेन रुदती न एव माम् किंचित् अब्रवीत् || २-५८-३५

उद्वीक्षमाणा भर्तारम् मुखेन परिशुष्यता |
मुमोच सहसा बाष्पम् माम् प्रयान्तम् उदीक्ष्य सा || २-५८-३६

तथैव रामः अश्रु मुखः कृत अन्जलिः |
स्थितः अभवल् लक्ष्मण बाहु पालितः स्थितः |
तथैव सीता रुदती तपस्विनी |
निरीक्षते राज रथम् तथैव माम् || २-५८-३७

|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे अष्टपञ्चाशः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।