Ayodhya Kanda – Sarga 56 (Valmiki Ramayana)

The Chitrakuta Mountain

Valmiki Ramayana – Kanda 2 – Sarga 56

अथ रात्र्याम् व्यतीतायाम् अवसुप्तम् अनन्तरम् |
प्रबोधयाम् आस शनैः लक्ष्मणम् रघु नन्दनः || २-५६-१

सौमित्रे शृणु वन्यानाम् वल्गु व्याहरताम् स्वनम् |
सम्प्रतिष्ठामहे कालः प्रस्थानस्य परम् तप || २-५६-२

स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः |
जहौ निद्राम् च तन्द्रीम् च प्रसक्तम् च पथि श्रमम् || २-५६-३

ततौत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवम् जलम् |
पन्थानम् ऋषिणा उद्दिष्टम् चित्र कूटस्य तम् ययुः || २-५६-४

ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह |
सीताम् कमल पत्र अक्षीम् इदम् वचनम् अब्रवीत् || २-५६-५

आदीप्तान् इव वैदेहि सर्वतः पुष्पितान् नगान् |
स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिर अत्यये || २-५६-६

पश्य भल्लातकान् फुल्लान् नरैः अनुपसेवितान् |
फल पत्रैः अवनतान् नूनम् शक्ष्यामि जीवितुम् || २-५६-७

पश्य द्रोण प्रमाणानि लम्बमानानि लक्ष्मण |
मधूनि मधु कारीभिः सम्भृतानि नगे नगे || २-५६-८

एष क्रोशति नत्यूहः तम् शिखी प्रतिकूजति |
रमणीये वन उद्देशे पुष्प संस्तर सम्कटे || २-५६-९

मातम्ग यूथ अनुसृतम् पक्षि सम्घ अनुनादितम् |
चित्र कूटम् इमम् पश्य प्रवृद्ध शिखरम् गिरिम् || २-५६-१०

समभूमितले रम्ये द्रुमैर्बहुभिरावृते |
पुण्ये रंस्यामहे तात चित्रकूटस्य कानने || २-५६-११

ततः तौ पाद चारेण गच्चन्तौ सह सीतया |
रम्यम् आसेदतुः शैलम् चित्र कूटम् मनो रमम् || २-५६-१२

तम् तु पर्वतम् आसाद्य नाना पक्षि गण आयुतम् |
बहुमूलफलम् रम्यम् सम्पन्नम् सरसोदकम् || २-५६-१३

मनोज्ज़्नोऽयम् तिरिः सौम्य नानाद्रुमलतायतह् |
बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे || २-५६-१४

मनयश्च महात्मानो वसन्त्य शिलोच्चये |
अयम् वासो भवेत् तावद् अत्र सौम्य रमेमहि || २-५६-१५

इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः |
अभिगम्याश्रमम् सर्वे वाल्मीकि मभिवादयन् || २-५६-१६

तान्महर्षिः प्रमुदितः पूजयामास धर्मवित् |
आस्यतामिति चोवाच स्वागतम् तु निवेद्य च || २-५६-१७

ततोऽब्रवीन्महाबाहुर्लकमणम् लक्ष्मणाग्रजः |
सम्निवेद्य यथान्याय मात्मानमृष्ये प्रभुः || २-५६-१८

लक्ष्मण आनय दारूणि दृढानि च वराणि च |
कुरुष्व आवसथम् सौम्य वासे मे अभिरतम् मनः || २-५६-१९

तस्य तत् वचनम् श्रुत्वा सौमित्रिर् विविधान् द्रुमान् |
आजहार ततः चक्रे पर्ण शालाम् अरिम् दम || २-५६-२०

ताम् निष्ठताम् बद्धकटाम् दृष्ट्वा रमः सुदर्शनाम् |
शुश्रूषमाणम् एक अग्रम् इदम् वचनम् अब्रवीत् || २-५६-२१

ऐणेयम् मांसम् आहृत्य शालाम् यक्ष्यामहे वयम् |
कर्त्व्यम् वास्तुशमनम् सौमित्रे चिरजीवभिः || २-५६-२२

मृगम् हत्वाऽऽनय क्षिप्रम् लक्ष्मणेह शुभेक्षण
कर्तव्यः शास्त्रदृष्टो हि विधिर्दर्ममनुस्मर || २-५६-२३

भ्रातुर्वचन माज्ञाय लक्ष्मणः परवीरहा |
चकार स यथोक्तम् च तम् रामः पुनरब्रवीत् || २-५६-२४

इणेयम् श्रपयस्वैतच्च्चालाम् यक्ष्यमहे वयम् |
त्वरसौम्य मुहूर्तोऽयम् ध्रुवश्च दिवसोऽप्ययम् || २-५६-२५

स लक्ष्मणः कृष्ण मृगम् हत्वा मेध्यम् पतापवान् |
अथ चिक्षेप सौमित्रिः समिद्धे जात वेदसि || २-५६-२६

तम् तु पक्वम् समाज्ञाय निष्टप्तम् चिन्न शोणितम् |
लक्ष्मणः पुरुष व्याघ्रम् अथ राघवम् अब्रवीत् || २-५६-२७

अयम् कृष्णः समाप्त अन्गः शृतः कृष्ण मृगो यथा |
देवता देव सम्काश यजस्व कुशलो हि असि || २-५६-२८

रामः स्नात्वा तु नियतः गुणवान् जप्य कोविदः |
सम्ग्रहेणाकरोत्सर्वान् मन्त्रन् सत्रावसानिकान् || २-५६-२९

इष्ट्वा देवगणान् सर्वान् विवेशावसथम् शुचिः |
बभूव च मनोह्लादो रामस्यामिततेजसः || २-५६-३०

वैश्वदेवबलिम् कृत्वा रौद्रम् वैष्णवमेव च |
वास्तुसंशमनीयानि मङ्गळानि प्रवर्तयन् || २-५६-३१
जपम् च न्यायतः कृत्वा स्नात्वा नद्याम् यथाविधि |
पाप संशमनम् रामः चकार बलिम् उत्तमम् || २-५६-३२

वेदिस्थलविधानानि चैत्यान्यायतनानि च |
आश्रमस्यानुरूपाणि स्थापयामास राघवः || २-५६-३३

वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्मांसैर्यथाविधि |
अद्भर्जपैश्च वेदोक्तै र्धर्भैश्च ससमित्कुशैः || २-५६-३४
तौ तर्पयित्वा भूतानि राघवौ सह सीतया |
तदा विविशतुः शालाम् सुशुभाम् शुभलक्षणौ || २-५६-३५

ताम् वृक्ष पर्णच् चदनाम् मनोज्ञाम् |
यथा प्रदेशम् सुकृताम् निवाताम् |
वासाय सर्वे विविशुः समेताः |
सभाम् यथा देव गणाः सुधर्माम् || २-५६-३६

अनेक नाना मृग पक्षि सम्कुले |
विचित्र पुष्प स्तबलैः द्रुमैः युते |
वन उत्तमे व्याल मृग अनुनादिते |
तथा विजह्रुः सुसुखम् जित इन्द्रियाः || २-५६-३७

सुरम्यम् आसाद्य तु चित्र कूटम् |
नदीम् च ताम् माल्यवतीम् सुतीर्थाम् |
ननन्द हृष्टः मृग पक्षि जुष्टाम् |
जहौ च दुह्खम् पुर विप्रवासात् || २-५६-३८

|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे षट्पञ्चाशः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।