Ayodhya Kanda – Sarga 55 (Valmiki Ramayana)

Sage Bharadwaja informs the route of Chitrakuta

Valmiki Ramayana – Kanda 2 – Sarga 55

उषित्वा रजनीम् तत्र राजपुत्रावरिंदमौ |
महर्षिमभिवाद्याथ जग्मतुस्तम् गिरिम् प्रति || २-५५-१

तेषाम् चैव स्वस्त्ययनम् महर्षिः स चकार ह |
प्रस्थितांश्चैव तान् प्रेक्ष्यपिता पुत्रानिवान्वगात् || २-५५-२

ततः प्रचक्रमे वक्तुम् वचनम् स महामुनिः |
भर्द्वाजो महातेजा रामम् सत्यपराक्रमम् || २-५५-३

गङ्गायमुनयोः सन्धिमासाद्य मनुजर्षभौ |
काळिन्दीमनुगच्छेताम् नदीम् पश्चान्मुखाश्रिताम् || २-५५-४

अथासाद्य तु काळिन्न्धीम् शीघ्रस्रोतसमापगाम् |
तस्यास्तीर्थम् प्रचरितम् पुराणम् प्रेक्ष्य राघवौ || २-५५-५
तत्र यूयम् प्लवम् कृत्वा तरतांशुमतीम् नदीम् |

ततो न्यग्रोधमासाद्य महान्तम् हरितच्छदम् || २-५५-६
विवृद्धम् बहुभिर्वऋक्षैह् श्यामम् सिद्धोपसेवितम् |
तस्मै सीताञ्जलिम् कृत्वा प्रयुञ्जीताशिषः शिवाः || २-५५-७

समासाद्य तु तम् वृक्षम् वसेद्वातिक्रमेत वा |
क्रोशमात्रम् ततो गत्वा नीलम् द्रक्ष्यथ काननम् || २-५५-८
पलाशबदरीमिश्रम् रम्यम् वंशैश्च यामुनैः |

स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया || २-५५-९
रम्ये मार्दवयुक्तश्च वनदावैर्विपर्जितः |

इति पन्थानमावेद्य महर्षः स न्यवर्तत || २-५५-१०
अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः |

उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् || २-५५-११
कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते |

इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ || २-५५-१२
सीतामेवाग्रतः कृत्वा काळिन्दीम् जग्मतुर्नदीम् |

अथा साद्य तु काळिन्दीम् शीघ्रस्रोतोवहाम् नदीम् || २-५५-१३
चिन्तामापेदिरे सर्वे नदीजलतितीर्षवः

तौ काष्ठसम्घातमथो चक्रतुस्तु महाप्लवम् || २-५५-१४
शुष्कैर्वंशैः समास्तीर्णमुळीरैश्च समावृतम् |

ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान् || २-५५-१५
चकार लक्ष्मणश्छित्वा सीतायाः सुखमासनम् |

तत्र श्रियमिवाचिन्त्याम् रामो दाशरथिः प्रियाम् || २-५५-१६
ईष्त्सन्कह्हनाबान् तानग्तारिओअतत् प्लवम् |

पार्श्वे च तत्र वैदेह्या वसने चूष्णानि च || २-५५-१७
प्लवे कठिनकाजम् च रामश्चक्रे सहायुधैः |

आरोप्य प्रथमम् सीताम् सम्घाटम् प्रतिगृह्य तौ || २-५५-१८
ततः प्रतेरतुर्य त्तौ वीरौ दशरथात्मजौ |

काळिन्दीमध्यमायाता सीता त्वेनामवन्दत || २-५५-१९
स्वस्ति देवि तरामि त्वाम् पार्येन्मे पतिर्वतम् |
यक्ष्ये त्वाम् गोनहस्रेण सुराघटशतेन च || २-५५-२०
स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् |

काळिन्दीमथ सीता तु याचमाना कृताञ्जलिः || २-५५-२१
तीरमेवाभिसम्प्राप्ता दक्षिणम् वरवर्णिनी |

ततः प्लवेनांशुमतीम् शीघ्रगामूर्मिमालिनीम् || २-५५-२२
तीरजैर्बहुभिर्वृक्षैः सम्तेरुर्यमुनाम् नदीम् |

ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् || २-५५-२३
श्यामम् न्यग्रोधमासेदुः शीतलम् हरितच्छदम् |

न्य्ग्रोधम् तमुपागम्य वैदेहि वाक्यमब्रवीत् || २-५५-२४
नमस्तेऽन्तु महावृक्ष पारयेन्मे पतिर्वतम् |
कौसल्याम् चैव पश्येयम् सुमित्राम् च यशस्विनीम् || २-५५-२५
इति सीताञ्जलिम् कृत्वा पर्यगच्छद्वनस्पतिम् |

अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम् || २-५५-२६
दयिताम् च विधेयम् च रामो लक्ष्मणमब्रवीत् |

सीतामादाय गच्छ त्वमग्रतो भरतानुज || २-५५-२७
पृष्ठतोऽहम् गमिष्यामि सायुधो द्विपदाम् वर |

यद्यत्फलम् प्रार्थयते पुष्पम् वा जनकात्मजा || २-५५-२८
तत्तत्प्रदद्या वैदेह्या यत्रास्य रमते मनः |

गच्चतोस्तु तयोर्मध्ये बभूव जनकात्मजा || २-५५-२९
मातङ्गयोर्मद्यगता शुभा नागवधूरिव |

एकैकम् पादपम् गुल्मम् लताम् वा पुष्पशालिनीम् || २-५५-३०
अदृष्टपूर्वाम् पश्यन्ती रामम् पप्रच्छ साऽबला |

रमणीयान् बहुविधान् पादपान् कुसुमोत्कटान् || २-५५-३१
सीतावचनसम्रब्द अनयामास लक्स्मणः |

विचित्रवालुकजलाम् हससारसनादिताम् || २-५५-३२
रेमे जनकराजस्य तदा प्रेक्ष्य सुता नदीम् |

क्रोशमात्रम् ततो गत्वा भ्रातरौ रामलक्ष्मनौ || २-५५-३३
बहून्मेध्यान् मृगान् हत्वा चेरतुर्यमुनावने |

विहृत्य ते बर्हिणपूगनादिते |
शुभे वने वानरवारणायुते |
समम् नदीवप्रमुपेत्य सम्मतम् |
निवासमाजग्मु रदीनदर्शनाः || || २-५५-३४

|| इत्यार्षे श्रिमद्रामायणे आदिकाव्ये अयोध्यकान्दे पञ्चाशः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।