Ayodhya Kanda – Sarga 53 (Valmiki Ramayana)

Rama tries to send Lakshmana back to Ayodhya

Valmiki Ramayana – Kanda 2 – Sarga 53

स तम् वृक्षम् समासाद्य संध्याम् अन्वास्य पश्चिमाम् |
रामः रमयताम् श्रेष्ठैति ह उवाच लक्ष्मणम् || २-५३-१

अद्य इयम् प्रथमा रात्रिर् याता जन पदात् बहिः |
या सुमन्त्रेण रहिता ताम् न उत्कण्ठितुम् अर्हसि || २-५३-२

जागर्तव्यम् अतन्द्रिभ्याम् अद्य प्रभृति रात्रिषु |
योग क्षेमः हि सीताया वर्तते लक्ष्मण आवयोह् || २-५३-३

रात्रिम् कथंचित् एव इमाम् सौमित्रे वर्तयामहे |
उपावर्तामहे भूमाव् आस्तीर्य स्वयम् आर्जितैः || २-५३-४

स तु सम्विश्य मेदिन्याम् महा अर्ह शयन उचितः |
इमाः सौमित्रये रामः व्याजहार कथाः शुभाः || २-५३-५

ध्रुवम् अद्य महा राजो दुह्खम् स्वपिति लक्ष्मण |
कृत कामा तु कैकेयी तुष्टा भवितुम् अर्हति || २-५३-६

सा हि देवी महा राजम् कैकेयी राज्य कारणात् |
अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतम् आगतम् || २-५३-७

अनाथः चैव वृद्धः च मया चैव विनाकृतः |
किम् करिष्यति काम आत्मा कैकेय्या वशम् आगतः || २-५३-८

इदम् व्यसनम् आलोक्य राज्ञः च मति विभ्रमम् |
कामएव अर्ध धर्माभ्याम् गरीयान् इति मे मतिः || २-५३-९

को हि अविद्वान् अपि पुमान् प्रमदायाः कृते त्यजेत् |
चन्द अनुवर्तिनम् पुत्रम् तातः माम् इव लक्ष्मण || २-५३-१०

सुखी बत सभार्यः च भरतः केकयी सुतः |
मुदितान् कोसलान् एको यो भोक्ष्यति अधिराजवत् || २-५३-११

स हि सर्वस्य राज्यस्य मुखम् एकम् भविष्यति |
ताते च वयसा अतीते मयि च अरण्यम् आश्रिते || २-५३-१२

अर्थ धर्मौ परित्यज्य यः कामम् अनुवर्तते |
एवम् आपद्यते क्षिप्रम् राजा दशरथो यथा || २-५३-१३

मन्ये दशरथ अन्ताय मम प्रव्राजनाय च |
कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य च || २-५३-१४

अपि इदानीम् न कैकेयी सौभाग्य मद मोहिता |
कौसल्याम् च सुमित्राम् च सम्प्रबाधेत मत् कृते || २-५३-१५

मा स्म मत् कारणात् देवी सुमित्रा दुह्खम् आवसेत् |
अयोध्याम् इतएव त्वम् काले प्रविश लक्ष्मण || २-५३-१६

अहम् एको गमिष्यामि सीतया सह दण्डकान् |
अनाथाया हि नाथः त्वम् कौसल्याया भविष्यसि || २-५३-१७

क्षुद्र कर्मा हि कैकेयी द्वेषात् अन्याय्यम् आचरेत् |
परिदद्या हि धर्मज्ञे भरते मम मातरम् || २-५३-१८

नूनम् जाति अन्तरे कस्मिंस् स्त्रियः पुत्रैः वियोजिताः |
जनन्या मम सौमित्रे तत् अपि एतत् उपस्थितम् || २-५३-१९

मया हि चिर पुष्टेन दुह्ख सम्वर्धितेन च |
विप्रायुज्यत कौसल्या फल काले धिग् अस्तु माम् || २-५३-२०

मा स्म सीमन्तिनी काचिज् जनयेत् पुत्रम् ईदृशम् |
सौमित्रे यो अहम् अम्बाया दद्मि शोकम् अनन्तकम् || २-५३-२१

मन्ये प्रीति विशिष्टा सा मत्तः लक्ष्मण सारिका |
यस्याः तत् श्रूयते वाक्यम् शुक पादम् अरेर् दश || २-५३-२२

शोचन्त्याः च अल्प भाग्याया न किंचित् उपकुर्वता |
पुर्त्रेण किम् अपुत्राया मया कार्यम् अरिम् दम || २-५३-२३

अल्प भाग्या हि मे माता कौसल्या रहिता मया |
शेते परम दुह्ख आर्ता पतिता शोक सागरे || २-५३-२४

एको हि अहम् अयोध्याम् च पृथिवीम् च अपि लक्ष्मण |
तरेयम् इषुभिः क्रुद्धो ननु वीर्यम् अकारणम् || २-५३-२५

अधर्म भय भीतः च पर लोकस्य च अनघ |
तेन लक्ष्मण न अद्य अहम् आत्मानम् अभिषेचये || २-५३-२६

एतत् अन्यच् च करुणम् विलप्य विजने बहु |
अश्रु पूर्ण मुखो रामः निशि तूष्णीम् उपाविशत् || २-५३-२७

विलप्य उपरतम् रामम् गत अर्चिषम् इव अनलम् |
समुद्रम् इव निर्वेगम् आश्वासयत लक्ष्मणः || २-५३-२८

ध्रुवम् अद्य पुरी रामायोध्या युधिनाम् वर |
निष्प्रभा त्वयि निष्क्रान्ते गत चन्द्रा इव शर्वरी || २-५३-२९

न एतत् औपयिकम् राम यद् इदम् परितप्यसे |
विषादयसि सीताम् च माम् चैव पुरुष ऋषभ || २-५३-३०

न च सीता त्वया हीना न च अहम् अपि राघव |
मुहूर्तम् अपि जीवावो जलान् मत्स्याव् इव उद्धृतौ || २-५३-३१

न हि तातम् न शत्रुघ्नम् न सुमित्राम् परम् तप |
द्रष्टुम् इच्चेयम् अद्य अहम् स्वर्गम् वा अपि त्वया विना || २-५३-३२

ततस्तत्र सुखासीने नातिदूरे निरीक्ष्य ताम् |
न्यग्रोधे सुकृताम् शय्याम् भेजाते धर्मवत्सलौ || २-५३-३३

स लक्ष्मणस्य उत्तम पुष्कलम् वचो |
निशम्य च एवम् वन वासम् आदरात् |
समाः समस्ता विदधे परम् तपः |
प्रपद्य धर्मम् सुचिराय राघवः || २-५३-३४

ततस्तु तस्मिन् विजने वने तदा |
महाबलौ राघववंशवर्धनौ |
न तौ भयम् सम्भ्रममभ्युपेयतु |
र्यथैव सिम्हौ गिरिसानुगोचरौ || २-५३-३५

|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे त्रिपञ्चशः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।