Guha requests Lakshmana to take rest
Valmiki Ramayana – Kanda 2 – Sarga 51
तम् जाग्रतम् अदम्भेन भ्रातुर् अर्थाय लक्ष्मणम् |
गुहः सम्ताप सम्तप्तः राघवम् वाक्यम् अब्रवीत् || २-५१-१
इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता |
प्रत्याश्वसिहि साध्व् अस्याम् राज पुत्र यथा सुखम् || २-५१-२
उचितः अयम् जनः सर्वः क्लेशानाम् त्वम् सुख उचितः |
गुप्ति अर्थम् जागरिष्यामः काकुत्स्थस्य वयम् निशाम् || २-५१-३
न हि रामात् प्रियतरः मम अस्ति भुवि कश्चन |
ब्रवीम्य् एतत् अहम् सत्यम् सत्येन एव च ते शपे || २-५१-४
अस्य प्रसादात् आशंसे लोके अस्मिन् सुमहद् यशः |
धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम् || २-५१-५
सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया |
रक्षिष्यामि धनुष् पाणिः सर्वतः ज्ञातिभिः सह || २-५१-६
न हि मे अविदितम् किंचित् वने अस्मिमः चरतः सदा |
चतुर् अन्गम् हि अपि बलम् सुमहत् प्रसहेमहि || २-५१-७
लक्ष्मणः तम् तदा उवाच रक्ष्यमाणाः त्वया अनघ |
न अत्र भीता वयम् सर्वे धर्मम् एव अनुपश्यता || २-५१-८
कथम् दाशरथौ भूमौ शयाने सह सीतया |
शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा || २-५१-९
यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि |
तम् पश्य सुख सम्विष्टम् तृणेषु सह सीतया || २-५१-१०
यो मन्त्र तपसा लब्धो विविधैः च परिश्रमैः |
एको दशरथस्य एष पुत्रः सदृश लक्षणः || २-५१-११
अस्मिन् प्रव्रजितः राजा न चिरम् वर्तयिष्यति |
विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति || २-५१-१२
विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः |
निर्घोष उपरतम् तात मन्ये राज निवेशनम् || २-५१-१३
कौसल्या चैव राजा च तथैव जननी मम |
न आशंसे यदि जीवन्ति सर्वे ते शर्वरीम् इमाम् || २-५१-१४
जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया |
तत् दुह्खम् यत् तु कौसल्या वीरसूर् विनशिष्यति || २-५१-१५
अनुरक्त जन आकीर्णा सुख आलोक प्रिय आवहा |
राज व्यसन संसृष्टा सा पुरी विनशिष्यति || २-५१-१६
कथम् पुत्रम् महात्मानम् ज्येष्ठम् प्रियमपस्यतः |
शरीरम् धारयुष्यान्ति प्राणा राज्ञो महात्मनः || २-५१-१७
विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति |
अनन्तरम् च माताऽपि मम नाशमुपैष्यति || २-५१-१८
अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम् |
राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति || २-५१-१९
सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले हि उपस्थिते |
प्रेत कार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् || २-५१-२०
रम्य चत्वर संस्थानाम् सुविभक्त महा पथाम् |
हर्म्य प्रसाद सम्पन्नाम् गणिका वर शोभिताम् || २-५१-२१
रथ अश्व गज सम्बाधाम् तूर्य नाद विनादिताम् |
सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम् || २-५१-२२
आराम उद्यान सम्पन्नाम् समाज उत्सव शालिनीम् |
सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम || २-५१-२३
अपि जीवेद्धशरथो वनवासात्पुनर्वयम् |
प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम् || २-५१-२४
अपि सत्य प्रतिज्ञेन सार्धम् कुशलिना वयम् |
निवृत्ते वन वासे अस्मिन्न् अयोध्याम् प्रविशेमहि || २-५१-२५
परिदेवयमानस्य दुह्ख आर्तस्य महात्मनः |
तिष्ठतः राज पुत्रस्य शर्वरी सा अत्यवर्तत || २-५१-२६
तथा हि सत्यम् ब्रुवति प्रजा हिते |
नर इन्द्र पुत्रे गुरु सौहृदात् गुहः |
मुमोच बाष्पम् व्यसन अभिपीडितः |
ज्वरा आतुरः नागैव व्यथा आतुरः || २-५१-२७
|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे एकपंचाशः सर्गः ||