Rama crossed three rivers
Valmiki Ramayana – Kanda 2 – Sarga 49
रामः अपि रात्रि शेषेण तेन एव महद् अन्तरम् |
जगाम पुरुष व्याघ्रः पितुर् आज्ञाम् अनुस्मरन् || २-४९-१
तथैव गच्चतः तस्य व्यपायात् रजनी शिवा |
उपास्य स शिवाम् संध्याम् विषय अन्तम् व्यगाहत || २-४९-२
ग्रामान् विकृष्ट सीमान् तान् पुष्पितानि वनानि च |
पश्यन्न् अतिययौ शीघ्रम् शरैः इव हय उत्तमैः || २-४९-३
शृण्वन् वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् |
राजानम् धिग् दशरथम् कामस्य वशम् आगतम् || २-४९-४
हा नृशंस अद्य कैकेयी पापा पाप अनुबन्धिनी |
तीक्ष्णा सम्भिन्न मर्यादा तीक्ष्णे कर्मणि वर्तते || २-४९-५
या पुत्रम् ईदृशम् राज्ञः प्रवासयति धार्मिकम् |
वन वासे महा प्राज्ञम् सानुक्रोशम् अतन्द्रितम् || २-४९-६
कथम् नाम महाभागा सीता जनकनन्दिनी |
सदा सुखेष्वभिरता दुःखान्यनुभविष्यति || २-४९-७
अहो दशरथो राजा निस्नेहः स्वसुत प्रियम् |
प्रजानामनघम् रामम् परित्यक्तुमिहेच्छति || २-४९-८
एता वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् |
शृण्वन्न् अति ययौ वीरः कोसलान् कोसल ईश्वरः || २-४९-९
ततः वेद श्रुतिम् नाम शिव वारि वहाम् नदीम् |
उत्तीर्य अभिमुखः प्रायात् अगस्त्य अध्युषिताम् दिशम् || २-४९-१०
गत्वा तु सुचिरम् कालम् ततः शीत जलाम् नदीम् |
गोमतीम् गोयुत अनूपाम् अतरत् सागरम् गमाम् || २-४९-११
गोमतीम् च अपि अतिक्रम्य राघवः शीघ्रगैः हयैः |
मयूर हंस अभिरुताम् ततार स्यन्दिकाम् नदीम् || २-४९-१२
स महीम् मनुना राज्ञा दत्ताम् इक्ष्वाकवे पुरा |
स्फीताम् राष्ट्र आवृताम् रामः वैदेहीम् अन्वदर्शयत् || २-४९-१३
सूतैति एव च आभाष्य सारथिम् तम् अभीक्ष्णशः |
हंस मत्त स्वरः श्रीमान् उवाच पुरुष ऋषभः || २-४९-१४
कदा अहम् पुनर् आगम्य सरय्वाः पुष्पिते वने |
मृगयाम् पर्याटष्यामि मात्रा पित्रा च सम्गतः || २-४९-१५
न अत्यर्थम् अभिकान्क्षामि मृगयाम् सरयू वने |
रतिर् हि एषा अतुला लोके राज ऋषि गण सम्मता || २-४९-१६
राजर्षीणाम् हि लोकेऽस्मिन् रत्यर्थम् मृगया वने |
काले कृताम् ताम् मनुजैर्धन्विनामभिकाङ्क्षिताम् || २-४९-१७
स तम् अध्वानम् ऐक्ष्वाकः सूतम् मधुरया गिरा
तम् तम् अर्थम् अभिप्रेत्य ययौवाक्यम् उदीरयन् || २-४९-१८
|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे एकोनपञ्चाशः सर्गः ||