Ayodhya Kanda – Sarga 5 (Valmiki Ramayana)

Festivities in Ayodhya

Valmiki Ramayana – Kanda 2 – Sarga 5

सन्दिश्य रामं नृपतिः श्वोभाविन्यभिषेचने |
पुरोहितं समाहूय वसिष्ठमिदमब्रवीत् || २-५-१

गच्छोपवासं काकुत्थ्सं कारयाद्य तपोधन |
श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् || २-५-२

तथेति च स राजानमुक्त्वा वेदविदां वरः |
स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम् || २-५-३
उपवासयितुं रामं मन्त्रवन्मन्त्रकोविदः |
ब्राह्मं रथवरं युक्तमास्थाय सुदृधव्रतः || २-५-४

स रामभवनं प्रप्य पाण्डुराभ्रघनप्रभम् |
तिस्रः कक्ष्या र्थेनैव विवेश मुनिसत्तमः || २-५-५

तमागतमृषिं रामस्त्वरन्निव ससंभ्रमः |
मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात् || २-५-६

अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः |
ततोऽवतारयामास परिगृह्य रथात्स्वयम् || २-५-७

सचैनं प्रश्रितं दृष्ट्वा सं भाष्याभिप्रसाद्य च |
प्रियार्हं हर्षयन् राममित्युवाच पुरोहितः || २-५-८

प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि |
उपवासं भवानद्य करोतु सह सीतया || २-५-९

प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः |
पिता दशरथः प्रीत्या ययातिं नहुषो यथा || २-५-१०

इत्युक्त्वा स तदा राम मुपवासं यतव्रतम् |
मन्त्रवत् कारयामास वैदेह्या सहितं मुनिः || २-५-११

ततो यथावद्रामेण स राज्ञो गुरुरर्चितः |
अभ्यनुज्ञाप्य काकुत्थ्सं ययौ रामनिवेशनात् || २-५-१२

सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः |
सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः || २-५-१३

हृष्टनारीनरयुतं रामवेश्म तदा बबौ |
यथा मत्तद्विजगणं प्रपुल्लनलिनं सरः || २-५-१४

स राजभवनप्रख्यात्तस्माद्रामनिवेशनात् |
निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् || २-५-१५

बृन्दबृन्दैरयोध्यायां राजमार्गाः समन्ततः |
बभूवुरभिसंबाधाः कुतूहलजनैर्वृताः || २-५-१६

जनबृन्दोर्मिसंघर्षहर्षस्वनवतस्तदा |
बभूव राजमार्गस्य सागरस्येव निस्वनः || २-५-१७

सिक्तसंमृष्टरथ्या हि तदहर्वनमालिनी |
आसीदयोध्या नगरी समुच्छ्रितगृहध्वजा || २-५-१८

तदा ह्ययोध्यानिलयः सस्त्रीबालाबलो जनः |
रामाभिषेकमाकाञ्क्षन्नाकाण्क्षदुदयं रवेः | २-५-१९

प्रजालङ्कारभूतं च जनस्यानन्दवर्धनम् |
उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्यामहोत्सवम् || २-५-२०

एवं तं जनसंबाधं राजमार्गं पुरोहितः |
व्यूहन्निव जनौघं तं शनैराजकुलं ययौ || २-५-२१

सिताभ्रशिखरप्रख्यं प्रासादमधिरुह्य सः |
समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः || २-५-२२

तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः |
पप्रच्छ स च तस्मै तत्कृतमित्यभ्यवेदयत् || २-५-२३

तेन चैव तदा तुल्यं सहासीनाः सभासदः |
आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम् || २-५-२४

गुरुणा त्वभ्यनुज्ञातो मनिजौघं विसृज्य तम् |
विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव || २-५-२५

तमग्र्यवेष्प्रमदाजनाकुलं |
महेन्द्रवेश्मप्रतिमं निवेशनम् |
विदीपयंश्चारु विवेश पार्थिवः |
शशीव तारागणसंकुलं नभः || २-५-२६

|| इत्यार्शे स्रीमद्रामायने आदिकाव्ये अयोध्यकान्दे पन्चम सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।