Ayodhya Kanda – Sarga 45 (Valmiki Ramayana)

Rama requests the citizens to return to Ayodhya

Valmiki Ramayana – Kanda 2 – Sarga 45

अनुरक्ता महात्मानम् रामम् सत्य परक्रमम् |
अनुजग्मुः प्रयान्तम् तम् वन वासाय मानवाः || २-४५-१

निवर्तिते अपि च बलात् सुहृद् वर्गे च राजिनि |
न एव ते सम्न्यवर्तन्त रामस्य अनुगता रथम् || २-४५-२

अयोध्या निलयानाम् हि पुरुषाणाम् महा यशाः |
बभूव गुण सम्पन्नः पूर्ण चन्द्रैव प्रियः || २-४५-३

स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस् तदा |
कुर्वाणः पितरम् सत्यम् वनम् एव अन्वपद्यत || २-४५-४

अवेक्षमाणः सस्नेहम् चक्षुषा प्रपिबन्न् इव |
उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजाइव || २-४५-५

या प्रीतिर् बहुमानः च मय्य् अयोध्या निवासिनाम् |
मत् प्रिय अर्थम् विशेषेण भरते सा निवेश्यताम् || २-४५-६

स हि कल्याण चारित्रः कैकेय्या आनन्द वर्धनः |
करिष्यति यथावद् वः प्रियाणि च हितानि च || २-४५-७

ज्ञान वृद्धो वयो बालो मृदुर् वीर्य गुण अन्वितः |
अनुरूपः स वो भर्ता भविष्यति भय अपहः || २-४५-८

स हि राज गुणैः युक्तः युव राजः समीक्षितः |
अपि च अपि मया शिष्टैः कार्यम् वो भर्तृ शासनम् || २-४५-९

न च तप्येद् यथा च असौ वन वासम् गते मयि |
महा राजः तथा कार्यो मम प्रिय चिकीर्षया || २-४५-१०

यथा यथा दाशरथिर् धर्मम् एव आस्थितः अभवत् |
तथा तथा प्रकृतयो रामम् पतिम् अकामयन् || २-४५-११

बाष्पेण पिहितम् दीनम् रामः सौमित्रिणा सह |
चकर्ष इव गुणैः बद्ध्वा जनम् पुनर् इव आसनम् || २-४५-१२

ते द्विजाः त्रिविधम् वृद्धा ज्ञानेन वयसा ओजसा |
वयः प्रकम्प शिरसो दूरात् ऊचुर् इदम् वचः || २-४५-१३

वहन्तः जवना रामम् भो भो जात्याः तुरम् गमाः |
निवर्तध्वम् न गन्तव्यम् हिता भवत भर्तरि || २-४५-१४

कर्णवन्ति हि भूतानि विशेषण तुरम्गमाः |
यूयम् तस्मान्निवर्तध्वम् याचनाम् प्रतिवेदिताः || २-४५-१५

धर्मतः स विशुद्धात्मा वीरः शुभदृढप्रतह् |
उपवाह्यः तु वो भर्ता न अपवाह्यः पुरात् वनम् || २-४५-१६

एवम् आर्त प्रलापांस् तान् वृद्धान् प्रलपतः द्विजान् |
अवेक्ष्य सहसा रामः रथात् अवततार ह || २-४५-१७

पद्भ्याम् एव जगाम अथ ससीतः सह लक्ष्मणः |
सम्निकृष्ट पद न्यासो रामः वन परायणः || २-४५-१८

द्विजातींस् तु पदातींस् तान् रामः चारित्र वत्सलः |
न शशाक घृणा चक्षुः परिमोक्तुम् रथेन सः || २-४५-१९

गच्चन्तम् एव तम् दृष्ट्वा रामम् सम्भ्रान्त मानसाः |
ऊचुः परम सम्तप्ता रामम् वाक्यम् इदम् द्विजाः || २-४५-२०

ब्राह्मण्यम् कृत्स्नम् एतत् त्वाम् ब्रह्मण्यम् अनुगच्चति |
द्विज स्कन्ध अधिरूढाः त्वाम् अग्नयो अपि अनुयान्ति अमी || २-४५-२१

वाजपेय समुत्थानि चत्राणि एतानि पश्य नः |
पृष्ठतः अनुप्रयातानि हंसान् इव जल अत्यये || २-४५-२२

अनवाप्त आतपत्रस्य रश्मि सम्तापितस्य ते |
एभिः चायाम् करिष्यामः स्वैः चत्रैः वाजपेयिकैः || २-४५-२३

या हि नः सततम् बुद्धिर् वेद मन्त्र अनुसारिणी |
त्वत् कृते सा कृता वत्स वन वास अनुसारिणी || २-४५-२४

हृदयेष्व् अवतिष्ठन्ते वेदा ये नः परम् धनम् |
वत्स्यन्ति अपि गृहेष्व् एव दाराः चारित्र रक्षिताः || २-४५-२५

न पुनर् निश्चयः कार्यः त्वद् गतौ सुकृता मतिः |
त्वयि धर्म व्यपेक्षे तु किम् स्यात् धर्मम् अवेक्षितुम् || २-४५-२६

याचितः नो निवर्तस्व हंस शुक्ल शिरः रुहैः |
शिरोभिर् निभृत आचार मही पतन पांशुलैः || २-४५-२७

बहूनाम् वितता यज्ञा द्विजानाम् यैह आगताः |
तेषाम् समाप्तिर् आयत्ता तव वत्स निवर्तने || २-४५-२८

भक्तिमन्ति हि भूतानि जम्गम अजम्गमानि च |
याचमानेषु तेषु त्वम् भक्तिम् भक्तेषु दर्शय || २-४५-२९

अनुगम्तुम् अशक्ताः त्वाम् मूलैः उद्धिऋत वेगिभिः |
उन्नता वायु वेगेन विक्रोशन्ति इव पादपाः || २-४५-३०

निश्चेष्ट आहार संचारा वृक्ष एक स्थान विष्ठिताः |
पक्षिणो अपि प्रयाचन्ते सर्व भूत अनुकम्पिनम् || २-४५-३१

एवम् विक्रोशताम् तेषाम् द्विजातीनाम् निवर्तने |
ददृशे तमसा तत्र वारयन्ति इव राघवम् || २-४५-३२

ततः सुमन्त्रोऽपि रथाद्विमुच्य |
श्रान्तान्हयान्सम्परिवर्त्य श्रीघ्राम् |
पीतोदकांस्तोयपरिप्लुताङ्गा |
नचारयद्वै तमसाविदूरे || २-४५-३३

|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे एकचत्वारिंशः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।