Rama requests the citizens to return to Ayodhya
Valmiki Ramayana – Kanda 2 – Sarga 45
अनुरक्ता महात्मानम् रामम् सत्य परक्रमम् |
अनुजग्मुः प्रयान्तम् तम् वन वासाय मानवाः || २-४५-१
निवर्तिते अपि च बलात् सुहृद् वर्गे च राजिनि |
न एव ते सम्न्यवर्तन्त रामस्य अनुगता रथम् || २-४५-२
अयोध्या निलयानाम् हि पुरुषाणाम् महा यशाः |
बभूव गुण सम्पन्नः पूर्ण चन्द्रैव प्रियः || २-४५-३
स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस् तदा |
कुर्वाणः पितरम् सत्यम् वनम् एव अन्वपद्यत || २-४५-४
अवेक्षमाणः सस्नेहम् चक्षुषा प्रपिबन्न् इव |
उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजाइव || २-४५-५
या प्रीतिर् बहुमानः च मय्य् अयोध्या निवासिनाम् |
मत् प्रिय अर्थम् विशेषेण भरते सा निवेश्यताम् || २-४५-६
स हि कल्याण चारित्रः कैकेय्या आनन्द वर्धनः |
करिष्यति यथावद् वः प्रियाणि च हितानि च || २-४५-७
ज्ञान वृद्धो वयो बालो मृदुर् वीर्य गुण अन्वितः |
अनुरूपः स वो भर्ता भविष्यति भय अपहः || २-४५-८
स हि राज गुणैः युक्तः युव राजः समीक्षितः |
अपि च अपि मया शिष्टैः कार्यम् वो भर्तृ शासनम् || २-४५-९
न च तप्येद् यथा च असौ वन वासम् गते मयि |
महा राजः तथा कार्यो मम प्रिय चिकीर्षया || २-४५-१०
यथा यथा दाशरथिर् धर्मम् एव आस्थितः अभवत् |
तथा तथा प्रकृतयो रामम् पतिम् अकामयन् || २-४५-११
बाष्पेण पिहितम् दीनम् रामः सौमित्रिणा सह |
चकर्ष इव गुणैः बद्ध्वा जनम् पुनर् इव आसनम् || २-४५-१२
ते द्विजाः त्रिविधम् वृद्धा ज्ञानेन वयसा ओजसा |
वयः प्रकम्प शिरसो दूरात् ऊचुर् इदम् वचः || २-४५-१३
वहन्तः जवना रामम् भो भो जात्याः तुरम् गमाः |
निवर्तध्वम् न गन्तव्यम् हिता भवत भर्तरि || २-४५-१४
कर्णवन्ति हि भूतानि विशेषण तुरम्गमाः |
यूयम् तस्मान्निवर्तध्वम् याचनाम् प्रतिवेदिताः || २-४५-१५
धर्मतः स विशुद्धात्मा वीरः शुभदृढप्रतह् |
उपवाह्यः तु वो भर्ता न अपवाह्यः पुरात् वनम् || २-४५-१६
एवम् आर्त प्रलापांस् तान् वृद्धान् प्रलपतः द्विजान् |
अवेक्ष्य सहसा रामः रथात् अवततार ह || २-४५-१७
पद्भ्याम् एव जगाम अथ ससीतः सह लक्ष्मणः |
सम्निकृष्ट पद न्यासो रामः वन परायणः || २-४५-१८
द्विजातींस् तु पदातींस् तान् रामः चारित्र वत्सलः |
न शशाक घृणा चक्षुः परिमोक्तुम् रथेन सः || २-४५-१९
गच्चन्तम् एव तम् दृष्ट्वा रामम् सम्भ्रान्त मानसाः |
ऊचुः परम सम्तप्ता रामम् वाक्यम् इदम् द्विजाः || २-४५-२०
ब्राह्मण्यम् कृत्स्नम् एतत् त्वाम् ब्रह्मण्यम् अनुगच्चति |
द्विज स्कन्ध अधिरूढाः त्वाम् अग्नयो अपि अनुयान्ति अमी || २-४५-२१
वाजपेय समुत्थानि चत्राणि एतानि पश्य नः |
पृष्ठतः अनुप्रयातानि हंसान् इव जल अत्यये || २-४५-२२
अनवाप्त आतपत्रस्य रश्मि सम्तापितस्य ते |
एभिः चायाम् करिष्यामः स्वैः चत्रैः वाजपेयिकैः || २-४५-२३
या हि नः सततम् बुद्धिर् वेद मन्त्र अनुसारिणी |
त्वत् कृते सा कृता वत्स वन वास अनुसारिणी || २-४५-२४
हृदयेष्व् अवतिष्ठन्ते वेदा ये नः परम् धनम् |
वत्स्यन्ति अपि गृहेष्व् एव दाराः चारित्र रक्षिताः || २-४५-२५
न पुनर् निश्चयः कार्यः त्वद् गतौ सुकृता मतिः |
त्वयि धर्म व्यपेक्षे तु किम् स्यात् धर्मम् अवेक्षितुम् || २-४५-२६
याचितः नो निवर्तस्व हंस शुक्ल शिरः रुहैः |
शिरोभिर् निभृत आचार मही पतन पांशुलैः || २-४५-२७
बहूनाम् वितता यज्ञा द्विजानाम् यैह आगताः |
तेषाम् समाप्तिर् आयत्ता तव वत्स निवर्तने || २-४५-२८
भक्तिमन्ति हि भूतानि जम्गम अजम्गमानि च |
याचमानेषु तेषु त्वम् भक्तिम् भक्तेषु दर्शय || २-४५-२९
अनुगम्तुम् अशक्ताः त्वाम् मूलैः उद्धिऋत वेगिभिः |
उन्नता वायु वेगेन विक्रोशन्ति इव पादपाः || २-४५-३०
निश्चेष्ट आहार संचारा वृक्ष एक स्थान विष्ठिताः |
पक्षिणो अपि प्रयाचन्ते सर्व भूत अनुकम्पिनम् || २-४५-३१
एवम् विक्रोशताम् तेषाम् द्विजातीनाम् निवर्तने |
ददृशे तमसा तत्र वारयन्ति इव राघवम् || २-४५-३२
ततः सुमन्त्रोऽपि रथाद्विमुच्य |
श्रान्तान्हयान्सम्परिवर्त्य श्रीघ्राम् |
पीतोदकांस्तोयपरिप्लुताङ्गा |
नचारयद्वै तमसाविदूरे || २-४५-३३
|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे एकचत्वारिंशः सर्गः ||