Lamentation of Kausalya
Valmiki Ramayana – Kanda 2 – Sarga 43
ततः समीक्ष्य शयने सन्नम् शोकेन पार्थिवम् |
कौसल्या पुत्र शोक आर्ता तम् उवाच मही पतिम् || २-४३-१
राघवो नर शार्दूल विषम् उप्त्वा द्विजिह्ववत् |
विचरिष्यति कैकेयी निर्मुक्ता इव हि पन्नगी || २-४३-२
विवास्य रामम् सुभगा लब्ध कामा समाहिता |
त्रासयिष्यति माम् भूयो दुष्ट अहिर् इव वेश्मनि || २-४३-३
अथ स्म नगरे रामः चरन् भैक्षम् गृहे वसेत् |
काम कारः वरम् दातुम् अपि दासम् मम आत्मजम् || २-४३-४
पातयित्वा तु कैकेय्या रामम् स्थानात् यथा इष्टतः |
प्रदिष्टः रक्षसाम् भागः पर्वणि इव आहित अग्निना || २-४३-५
गज राज गतिर् वीरः महा बाहुर् धनुर् धरः |
वनम् आविशते नूनम् सभार्यः सह लक्ष्मणः || २-४३-६
वने तु अदृष्ट दुह्खानाम् कैकेय्या अनुमते त्वया |
त्यक्तानाम् वन वासाय का न्व् अवस्था भविष्यति || २-४३-७
ते रत्न हीनाः तरुणाः फल काले विवासिताः |
कथम् वत्स्यन्ति कृपणाः फल मूलैः कृत अशनाः || २-४३-८
अपि इदानीम् स कालः स्यान् मम शोक क्षयः शिवः |
सभार्यम् यत् सह भ्रात्रा पश्येयम् इह राघवम् || २-४३-९
श्रुत्वा एव उपस्थितौ वीरौ कदा अयोध्या भविष्यति |
यशस्विनी हृष्ट जना सूच्च्रित ध्वज मालिनी || २-४३-१०
कदा प्रेक्ष्य नर व्याघ्राव् अरण्यात् पुनर् आगतौ |
नन्दिष्यति पुरी हृष्टा समुद्रैव पर्वणि || २-४३-११
कदा अयोध्याम् महा बाहुः पुरीम् वीरः प्रवेक्ष्यति |
पुरः कृत्य रथे सीताम् वृषभो गो वधूम् इव || २-४३-१२
कदा प्राणि सहस्राणि राज मार्गे मम आत्मजौ |
लाजैः अवकरिष्यन्ति प्रविशन्ताव् अरिम् दमौ || २-४३-१३
प्रविशनौ कदाऽपियोध्याम् द्रक्ष्यामि शुभकुण्डता |
उदग्रायुधनिस्त्रींशौ सशृङ्गाविव पर्वतौ || २-४३-१४
कदा सुमनसः कन्या द्विजातीनाम् फलानि च |
प्रदिशन्त्यः पुरीम् हृष्टाः करिष्यन्ति प्रदक्षिणम् || २-४३-१५
कदा परिणतः बुद्ध्या वयसा च अमर प्रभः |
अभ्युपैष्यति धर्मज्ञः त्रिवर्षैव माम् ललन् || २-४३-१६
निह्संशयम् मया मन्ये पुरा वीर कदर्यया |
पातु कामेषु वत्सेषु मातृऋणाम् शातिताः स्तनाः || २-४३-१७
सा अहम् गौर् इव सिम्हेन विवत्सा वत्सला कृता |
कैकेय्या पुरुष व्याघ्र बाल वत्सा इव गौर् बलात् || २-४३-१८
न हि तावद् गुणैः जुष्टम् सर्व शास्त्र विशारदम् |
एक पुत्रा विना पुत्रम् अहम् जीवितुम् उत्सहे || २-४३-१९
न हि मे जीविते किंचित् सामर्थम् इह कल्प्यते |
अपश्यन्त्याः प्रियम् पुत्रम् महा बाहुम् महा बलम् || २-४३-२०
अयम् हि माम् दीपयते समुत्थितः |
तनूज शोक प्रभवो हुत अशनः |
महीम् इमाम् रश्मिभिर् उत्तम प्रभो |
यथा निदाघे भगवान् दिवा करः || २-४३-२१
|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे त्रिचत्वारिंशः सर्गः ||