Ayodhya Kanda – Sarga 42 (Valmiki Ramayana)

Dasaratha feels dejected

Valmiki Ramayana – Kanda 2 – Sarga 42

यावत् तु निर्यतः तस्य रजो रूपम् अदृश्यत |
न एव इक्ष्वाकु वरः तावत् सम्जहार आत्म चक्षुषी || २-४२-१

यावद् राजा प्रियम् पुत्रम् पश्यति अत्यन्त धार्मिकम् |
तावद् व्यवर्धत इव अस्य धरण्याम् पुत्र दर्शने || २-४२-२

न पश्यति रजो अपि अस्य यदा रामस्य भूमिपः |
तदा आर्तः च विषण्णः च पपात धरणी तले || २-४२-३

तस्य दक्षिणम् अन्वगात् कौसल्या बाहुम् अन्गना |
वामम् च अस्य अन्वगात् पार्श्वम् कैकेयी भरत प्रिया || २-४२-४

ताम् नयेन च सम्पन्नो धर्मेण निवयेन च |
उवाच राजा कैकेयीम् समीक्ष्य व्यथित इन्द्रियः || २-४२-५

कैकेयि मा मम अन्गानि स्प्राक्षीस् त्वम् दुष्ट चारिणी |
न हि त्वाम् द्रष्टुम् इच्चामि न भार्या न च बान्धवी || २-४२-६

ये च त्वाम् उपजीवन्ति न अहम् तेषाम् न ते मम |
केवल अर्थ पराम् हि त्वाम् त्यक्त धर्माम् त्यजाम्य् अहम् || २-४२-७

अगृह्णाम् यच् च ते पाणिम् अग्निम् पर्यणयम् च यत् |
अनुजानामि तत् सर्वम् अस्मिम्ल् लोके परत्र च || २-४२-८

भरतः चेत् प्रतीतः स्यात् राज्यम् प्राप्य इदम् अव्ययम् |
यन् मे स दद्यात् पित्र् अर्थम् मा मा तत् दत्तम् आगमत् || २-४२-९

अथ रेणु समुध्वस्तम् तम् उत्थाप्य नर अधिपम् |
न्यवर्तत तदा देवी कौसल्या शोक कर्शिता || २-४२-१०

हत्वा इव ब्राह्मणम् कामात् स्पृष्ट्वा अग्निम् इव पाणिना |
अन्वतप्यत धर्म आत्मा पुत्रम् संचिन्त्य तापसम् || २-४२-११

निवृत्य एव निवृत्य एव सीदतः रथ वर्त्मसु |
राज्ञो न अतिबभौ रूपम् ग्रस्तस्य अंशुमतः यथा || २-४२-१२

विललाप च दुह्ख आर्तः प्रियम् पुत्रम् अनुस्मरन् |
नगर अन्तम् अनुप्राप्तम् बुद्ध्वा पुत्रम् अथ अब्रवीत् || २-४२-१३

वाहनानाम् च मुख्यानाम् वहताम् तम् मम आत्मजम् |
पदानि पथि दृश्यन्ते स महात्मा न दृश्यते || २-४२-१४

स नूनम् क्वचित् एव अद्य वृक्ष मूलम् उपाश्रितः |
काष्ठम् वा यदि वा अश्मानम् उपधाय शयिष्यते || २-४२-१५
उत्थास्यति च मेदिन्याः कृपणः पांशु गुण्ठितः |
विनिह्श्वसन् प्रस्रवणात् करेणूनाम् इव ऋषभः || २-४२-१६

उत्थास्यति च मेदिन्याः कृपणः पांसुगुण्ठितः |
विनिःस्वसन् प्रस्रवणात्क रेणूनामि वर्ष्भः || २-४२-१७

द्रक्ष्यन्ति नूनम् पुरुषा दीघ बाहुम् वने चराः |
रामम् उत्थाय गच्चन्तम् लोक नाथम् अनाथवत् || २-४२-१८

सा नुनं जनकस्येष्टा सुता सुखसदेचिता |
कण्टकाक्रमण क्लान्तावनमद्य गमिष्यति || २-४२-१९

अनभिज्ञा वनानाम् सा नूनम् भयमुपैष्यति |
श्वापदान्र्धितम् श्रुत्वा गमिभीरम् रोमहर्ष्णम् || २-४२-२०

सकामा भवकैकेयि विधवा राज्य मावस |
न हि तम् पुरुष व्याघ्रम् विना जीवितुम् उत्सहे || २-४२-२१

इति एवम् विलपन् राजा जन ओघेन अभिसम्वृतः |
अपस्नातैव अरिष्टम् प्रविवेश पुर उत्तमम् || २-४२-२२

शून्य चत्वर वेश्म अन्ताम् सम्वृत आपण देवताम् |
क्लान्त दुर्बल दुह्ख आर्ताम् न अत्याकीर्ण महा पथाम् |
ताम् अवेक्ष्य पुरीम् सर्वाम् रामम् एव अनुचिन्तयन् |
विलपन् प्राविशद् राजा गृहम् सूर्यैव अम्बुदम् || २-४२-२३

महा ह्रदम् इव अक्षोभ्यम् सुपर्णेन हृत उरगम् |
रामेण रहितम् वेश्म वैदेह्या लक्ष्मणेन च || २-४२-२४

अथ गद्गदशब्दस्तु विलपन्मनुजाधिपः |
उवाच मृदुमन्धार्थम् वचनम् दीन मस्वरम् || २-४२-२५

कौसल्याया गृहम् शीघ्रम् राम मातुर् नयन्तु माम् |
इति ब्रुवन्तम् राजानम् अनयन् द्वार दर्शितः || २-४२-२६

इति ब्रुवन्तम् राजान मनयन् द्वार्दर्शिनः |
कौसल्याया गृहम् तत्र न्यवेश्यत विनीतवत् || २-४२-२७

ततः तत्र प्रविष्टस्य कौसल्याया निवेशनम् |
अधिरुह्य अपि शयनम् बभूव लुलितम् मनः || २-४२-२८

पुत्रद्वयविहीनम् च स्नुषयापि विवर्जितम् |
अपश्यद्भवनम् राजा नष्टचन्ध्रमिवाम्बरम् || २-४२-२९

तच् च दृष्ट्वा महा राजो भुजम् उद्यम्य वीर्यवान् |
उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम् || २-४२-३०

सुखिता बत तम् कालम् जीविष्यन्ति नर उत्तमाः |
परिष्वजन्तः ये रामम् द्रक्ष्यन्ति पुनर् आगतम् || २-४२-३१

अथ रात्र्याम् प्रपन्नायाम् कालरात्र्यामिआत्मनः |
अर्धरात्रे दशरथह् कौसल्यामिदमब्रवीत् || २-४२-३२

रामम् मेऽनुगता दृष्टिरद्यापि न निवर्तते |
न त्वाम् पश्यामि कौसल्ये साधु माम् पाणिना स्पृश || २-४२-३३

तम् रामम् एव अनुविचिन्तयन्तम् |
समीक्ष्य देवी शयने नर इन्द्रम् |
उप उपविश्य अधिकम् आर्त रूपाउप |
विनिह्श्वसन्ती विललाप कृच्च्रम् || २-४२-३४

|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे द्विचत्वारिंशः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।