Rama seeks blessings of his mother
Valmiki Ramayana – Kanda 2 – Sarga 39
रामस्य तु वचः श्रुत्वा मुनि वेष धरम् च तम् |
समीक्ष्य सह भार्याभी राजा विगत चेतनः || २-३९-१
न एनम् दुह्खेन सम्तप्तः प्रत्यवैक्षत राघवम् |
न च एनम् अभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः || २-३९-२
स मुहूर्तम् इव असम्ज्ञो दुह्खितः च मही पतिः |
विललाप महा बाहू रामम् एव अनुचिन्तयन् || २-३९-३
मन्ये खलु मया पूर्वम् विवत्सा बहवः कृताः |
प्राणिनो हिंसिता वा अपि तस्मात् इदम् उपस्थितम् || २-३९-४
न तु एव अनागते काले देहाच् च्यवति जीवितम् |
कैकेय्या क्लिश्यमानस्य मृत्युर् मम न विद्यते || २-३९-५
मो अहम् पावक सम्काशम् पश्यामि पुरतः स्थितम् |
विहाय वसने सूक्ष्मे तापस आच्चादम् आत्मजम् || २-३९-६
एकस्याः खलु कैकेय्याः कृते अयम् क्लिश्यते जनः |
स्व अर्थे प्रयतमानायाः संश्रित्य निकृतिम् त्विमाम् || २-३९-७
एवम् उक्त्वा तु वचनम् बाष्पेण पिहित ईक्ष्णह |
राम इति सकृद् एव उक्त्वा व्याहर्तुम् न शशाक ह || २-३९-८
सम्ज्ञाम् तु प्रतिलभ्य एव मुहूर्तात् स मही पतिः |
नेत्राभ्याम् अश्रु पूर्णाभ्याम् सुमन्त्रम् इदम् अब्रवीत् || २-३९-९
औपवाह्यम् रथम् युक्त्वा त्वम् आयाहि हय उत्तमैः |
प्रापय एनम् महा भागम् इतः जन पदात् परम् || २-३९-१०
एवम् मन्ये गुणवताम् गुणानाम् फलम् उच्यते |
पित्रा मात्रा च यत् साधुर् वीरः निर्वास्यते वनम् || २-३९-११
राज्ञो वचनम् आज्ञाय सुमन्त्रः शीघ्र विक्रमः |
योजयित्वा आययौ तत्र रथम् अश्वैः अलम्कृतम् || २-३९-१२
तम् रथम् राज पुत्राय सूतः कनक भूषितम् |
आचचक्षे अन्जलिम् कृत्वा युक्तम् परम वाजिभिः || २-३९-१३
राजा सत्वरम् आहूय व्यापृतम् वित्त संचये |
उवाच देश कालज्ञो निश्चितम् सर्वतः शुचि || २-३९-१४
वासांसि च महा अर्हाणि भूषणानि वराणि च |
वर्षाणि एतानि सम्ख्याय वैदेह्याः क्षिप्रम् आनय || २-३९-१५
नर इन्द्रेण एवम् उक्तः तु गत्वा कोश गृहम् ततः |
प्रायच्चत् सर्वम् आहृत्य सीतायै क्षिप्रम् एव तत् || २-३९-१६
सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् |
भूषयाम् आस गात्राणि तैः विचित्रैः विभूषणैः || २-३९-१७
व्यराजयत वैदेही वेश्म तत् सुविभूषिता |
उद्यतः अंशुमतः काले खम् प्रभा इव विवस्वतः || २-३९-१८
ताम् भुजाभ्याम् परिष्वज्य श्वश्रूर् वचनम् अब्रवीत् |
अनाचरन्तीम् कृपणम् मूध्नि उपाघ्राय मैथिलीम् || २-३९-१९
असत्यः सर्व लोके अस्मिन् सततम् सत्कृताः प्रियैः |
भर्तारम् न अनुमन्यन्ते विनिपात गतम् स्त्रियः || २-३९-२०
एष स्वभावो नारीणामनुभूय पुरा सुखम् |
अल्पामप्यापदम् प्राप्य दुष्यन्ति प्रजहत्यपि || २-३९-२१
असत्यशीला विकृता दुर्र्गाह्याहृदयास्तथा |
युवत्यः पापसम्कल्पाः क्षणमात्राद्विरागिणः || २-३९-२२
न कुलम् न कृतम् विद्या न दत्तम् नापि सम्ग्रहः |
स्त्रीणाम् गृह्णाति हृदयमनित्यहृदया हि ताः || २-३९-२३
साध्वीनाम् हि स्थितानाम् तु शीले सत्ये श्रुते शमे |
स्त्रीणाम् पवित्रम् परमम् पतिरेको विशिष्यते || २-३९-२४
स त्वया न अवमन्तव्यः पुत्रः प्रव्राजितः मम |
तव दैवतम् अस्तु एष निर्धनः सधनो अपि वा || २-३९-२५
विज्ञाय वचनम् सीता तस्या धर्म अर्थ सम्हितम् |
कृत अन्जलिर् उवाच इदम् श्वश्रूम् अभिमुखे स्थिता || २-३९-२६
करिष्ये सर्वम् एव अहम् आर्या यद् अनुशास्ति माम् |
अभिज्ञा अस्मि यथा भर्तुर् वर्तितव्यम् श्रुतम् च मे || २-३९-२७
न माम् असज् जनेन आर्या समानयितुम् अर्हति |
धर्मात् विचलितुम् न अहम् अलम् चन्द्रात् इव प्रभा || २-३९-२८
न अतन्त्री वाद्यते वीणा न अचक्रः वर्तते रथः |
न अपतिः सुखम् एधते या स्यात् अपि शत आत्मजा || २-३९-२९
मितम् ददाति हि पिता मितम् माता मितम् सुतः |
अमितस्य हि दातारम् भर्तारम् का न पूजयेत् || २-३९-३०
सा अहम् एवम् गता श्रेष्ठा श्रुत धर्म पर अवरा |
आर्ये किम् अवमन्येयम् स्त्रीणाम् भर्ता हि दैवतम् || २-३९-३१
सीताया वचनम् श्रुत्वा कौसल्या हृदयम् गमम् |
शुद्ध सत्त्वा मुमोच अश्रु सहसा दुह्ख हर्षजम् || २-३९-३२
ताम् प्रान्जलिर् अभिक्रम्य मातृ मध्ये अतिसत्कृताम् |
रामः परम धर्मज्ञो मातरम् वाक्यम् अब्रवीत् || २-३९-३३
अम्ब मा दुह्खिता भूस् त्वम् पश्य त्वम् पितरम् मम |
क्षयो हि वन वासस्य क्षिप्रम् एव भविष्यति || २-३९-३४
सुप्तायाः ते गमिष्यन्ति नव वर्षाणि पन्च च |
सा समग्रम् इह प्राप्तम् माम् द्रक्ष्यसि सुहृद् वृतम् || २-३९-३५
एतावद् अभिनीत अर्थम् उक्त्वा स जननीम् वचः |
त्रयः शत शत अर्धा हि ददर्श अवेक्ष्य मातरः || २-३९-३६
ताः च अपि स तथैव आर्ता मातृऋर् दशरथ आत्मजः |
धर्म युक्तम् इदम् वाक्यम् निजगाद कृत अन्जलिः || २-३९-३७
सम्वासात् परुषम् किंचित् अज्ञानात् वा अपि यत् कृतम् |
तन् मे समनुजानीत सर्वाः च आमन्त्रयामि वः || २-३९-३८
वचनम् राघवस्यैतद्धर्मयुक्तम् समाहितम् |
शुश्रुवु स्ताः स्त्रियम् सर्वाः शोकोपहतचेतसः || २-३९-३९
जज्ञे अथ तासाम् सम्नादः क्रौन्चीनाम् इव निह्स्वनः |
मानव इन्द्रस्य भार्याणाम् एवम् वदति राघवे || २-३९-४०
मुरज पणव मेघ घोषव |
द्दशरथ वेश्म बभूव यत् पुरा |
विलपित परिदेवन आकुलम् |
व्यसन गतम् तत् अभूत् सुदुह्खितम् || २-३९-४१
|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे एको न चत्वारिंशः सर्गः ||