Dasaratha is enraged
Valmiki Ramayana – Kanda 2 – Sarga 38
तस्याम् चीरम् वसानायाम् नाथवत्याम् अनाथवत् |
प्रचुक्रोश जनः सर्वो धिग् त्वाम् दशरथम् तु इति || २-३८-१
तेन तत्र प्रणादेन दुःखितस्स महीपतिः |
चिच्छेद जीविते श्रद्धाम् धर्मे यशसि चात्मनः || २-३८-२
स निह्श्वस्य उष्णम् ऐक्ष्वाकः ताम् भार्याम् इदम् अब्रवीत् |
कैकेयि कुश चीरेण न सीता गन्तुम् अर्हति || २-३८-३
सुकुमारी च बाला च सततम् च सुखोचिता |
नेयम् वनस्य योग्येति सत्यमाह गुरुर्मम || २-३८-४
इयम् हि कश्यापकरोति किंचि |
त्तपस्विनी राजवरस्य कन्या |
या चीरमासाद्य जनस्य मध्ये |
स्थिता विसम्ज्ञा श्रमणीव काचित् || २-३८-५
चीराण्यसास्या जनकस्य कन्या |
नेयम् प्रतिज्ञा मम दत्तपूर्वा |
यथासुखम् गच्छतु राजपुत्री |
वनम् सम्ग्रा सह सर्वर्त्नैः || २-३८-६
अजीवनार्हेण मया नृशंसा |
कृता प्रतिज्ञा नियमेन तावत् |
त्वया हि बाल्यात् प्रतिपन्नमेतत् |
त्न्माम् दहेद् वेणुमिवात्मपुष्पम् || २-३८-७
रामेण यदि ते पा पे किंचित्कृतमशोभनम् |
अपकारः क इह ते वैदेह्या दर्शितोऽधमे || २-३८-८
मृगीवोत्फुल्लनयना मृदुशीला तपस्विनी |
अपकारम् कमिह ते करोति जनकात्मजा || २-३८-९
ननु पर्याप्तम् एतत् ते पापे राम विवासनम् |
किम् एभिः कृपणैः भूयः पातकैः अपि ते कृतैः || २-३८-१०
प्रतिज्ञातम् मया तावत् त्वयोक्तम् देवि शृण्वता |
रामम् यदभिषेकाय त्वमिहाअत मब्रवीः || २-३८-११
तत्त्वेतत्समतिक्रम्य निरयम् गन्तुमिच्छसि |
मैथिलीमपि या हि त्व मीक्षसे चीरवासिनीम् || २-३८-१२
इतीव राजा विलपन्महात्मा |
शोकस्य नान्तम् स ददर्श किंचित् |
भृशातुरत्वाच्च पपात भूमौ |
तेनैव पुत्रव्यसनेन मग्नः || २-३८-१३
एवम् ब्रुवन्तम् पितरम् रामः सम्प्रस्थितः वनम् |
अवाक् शिरसम् आसीनम् इदम् वचनम् अब्रवीत् || २-३८-१४
इयम् धार्मिक कौसल्या मम माता यशस्विनी |
वृद्धा च अक्षुद्र शीला च न च त्वाम् देव गर्हिते || २-३८-१५
मया विहीनाम् वरद प्रपन्नाम् शोक सागरम् |
अदृष्ट पूर्व व्यसनाम् भूयः सम्मन्तुम् अर्हसि || २-३८-१६
पुत्रशोकम् यथा नर्चेत्त्वया पूज्येन पूजिता |
माम् हि संचिन्तयन्ती सा त्वयि जीवेत् तपस्विनी || २-३८-१७
इमाम् महा इन्द्र उपम जात गर्भिनीम् |
तथा विधातुम् जनमीम् मम अर्हसि |
यथा वनस्थे मयि शोक कर्शिता |
न जीवितम् न्यस्य यम क्षयम् व्रजेत् || २-३८-१८
|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे अष्टा त्रिंशः सर्गः ||