Rama distributes his wealth to Rishis
Valmiki Ramayana – Kanda 2 – Sarga 32
ततः शासनम् आज्ञाय भ्रातुः शुभतरम् प्रियम् |
गत्वा स प्रविवेश आशु सुयज्ञस्य निवेशनम् || २-३२-१
तम् विप्रम् अग्नि अगारस्थम् वन्दित्वा लक्ष्मणो अब्रवीत् |
सखे अभ्यागच्च पश्य त्वम् वेश्म दुष्कर कारिणः || २-३२-२
ततः संध्याम् उपास्य आशु गत्वा सौमित्रिणा सह |
जुष्टम् तत् प्राविशल् लक्ष्म्या रम्यम् राम निवेशनम् || २-३२-३
तम् आगतम् वेदविदम् प्रान्जलिः सीतया सह |
सुयज्ञम् अभिचक्राम राघवो अग्निम् इव अर्चितम् || २-३२-४
जात रूपमयैः मुख्यैः अन्गदैः कुण्डलैः शुभैः |
सहेम सूत्रैः मणिभिः केयूरैः वलयैः अपि || २-३२-५
अन्यैः च रत्नैः बहुभिः काकुत्स्थः प्रत्यपूजयत् |
सुयज्ञम् स तदा उवाच रामः सीता प्रचोदितः || २-३२-६
हारम् च हेम सूत्रम् च भार्यायै सौम्य हारय |
रशनाम् च अधुना सीता दातुम् इच्चति ते सखे || २-३२-७
अङ्गदानि विचित्राणि केयूराणि शुभानि च |
पर्यन्कम् अग्र्य आस्तरणम् नाना रत्न विभूषितम् || २-३२-८
पर्यङ्कमग्र्यास्तरणम् नानारत्नविभूषितम् |
तम् अपि इच्चति वैदेही प्रतिष्ठापयितुम् त्वयि || २-३२-९
नागः शत्रुम् जयो नाम मातुलो यम् ददौ मम |
तम् ते गज सहस्रेण ददामि द्विज पुम्गव || २-३२-१०
इति उक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत् |
राम लक्ष्मण सीतानाम् प्रयुयोज आशिषः शिवाः || २-३२-११
अथ भ्रातरम् अव्यग्रम् प्रियम् रामः प्रियम् वदः |
सौमित्रिम् तम् उवाच इदम् ब्रह्मा इव त्रिदश ईश्वरम् || २-३२-१२
अगस्त्यम् कौशिकम् चैव ताव् उभौ ब्राह्मण उत्तमौ |
अर्चय आहूय सौमित्रे रत्नैः सस्यम् इव अम्बुभिः || २-३२-१
तर्पयस्व महाबाहो गोसहसरैश्च मानद |
सुवर्णै रजतैश्चैव मणिभिश्च महाधनैः || २-३२-१४
कौसल्याम् च याअशीर्भिर् भक्तः पर्युपतिष्ठति |
आचार्यः तैत्तिरीयाणाम् अभिरूपः च वेदवित् || २-३२-१५
तस्य यानम् च दासीः च सौमित्रे सम्प्रदापय |
कौशेयानि च वस्त्राणि यावत् तुष्यति स द्विजः || २-३२-१६
सूतः चित्र रथः च आर्यः सचिवः सुचिर उषितः |
तोषय एनम् महा अर्हैः च रत्नैः वस्त्रैः धनैअः तथा || २-३२-१७
पशुकाभिकछ सर्वाभिर्गवाम् दशशतेन च |
ये चेमे कथकालापा बहवो दण्डमाणवाः || २-३२-१८
नित्यस्वाध्यायशीलत्वान्नान्यत्कुर्वन्ति किंचन |
अलसाः स्वादुकामाश्च महताम् चापि सम्मताः || २-३२-१९
शालि वाह सहस्रम् च द्वे शते भद्रकांस् तथा |
व्यन्जन अर्थम् च सौमित्रे गो सहस्रम् उपाकुरु || २-३२-२०
मेखलीनाम् महासघः कौसल्याम् समुपस्थितः |
तेषाम् सहस्रम् सौमित्रे प्रत्येकम् सम्प्रदापय || २-३२-२१
अम्बा यथा च सा नन्देत्कौसल्या मम दक्षिणाम् |
तथा द्विजातीम् स्तान्सर्वान् लक्ष्मणार्च || २-३२-२२
ततः स पुरुष व्याघ्रः तत् धनम् लक्ष्मणः स्वयम् |
यथा उक्तम् ब्राह्मण इन्द्राणाम् अददात् धनदो यथा || २-३२-२३
अथ अब्रवीद् बाष्प कलांस् तिष्ठतः च उपजीविनः |
सम्प्रदाय बहु द्रव्यम् एकैकस्य उपजीविनः || २-३२-२४
लक्ष्मणस्य च यद् वेश्म गृहम् च यद् इदम् मम |
अशून्यम् कार्यम् एकैकम् यावद् आगमनम् मम || २-३२-२५
इति उक्त्वा दुह्खितम् सर्वम् जनम् तम् उपजीविनम् |
उवाच इदम् धन ध्यक्षम् धनम् आनीयताम् इति || २-३२-२६
ततः अस्य धनम् आजह्रुः सर्वम् एव उपजीविनः |
स राशिः सुमहांस्तत्र दर्शनीयो ह्यदृश्यत || २-३२-२७
ततः स पुरुष व्याघ्रः तत् धनम् सह लक्ष्मणः |
द्विजेभ्यो बाल वृद्धेभ्यः कृपणेभ्यो अभ्यदापयत् || २-३२-२८
तत्र आसीत् पिन्गलो गार्ग्यः त्रिजटः नाम वै द्विजः |
क्षतवृत्तिर्वने नित्यम् फालकुद्दाललाङ्गली || २-३२-२९
तम् वृद्धम् तरुणी भार्या बालानादाय दारकान् |
अब्रवीद्बाह्मणम् वाक्यम् दारिद्र्येणाभिपीडिता || २-३२-३०
अपास्य फालम् कुद्दालम् कुरुष्व वचनम् ममम् |
रामम् दर्शय धर्मज्ज़्नम् यदि किंचिदवाप्स्यसि || २-३२-३१
स भार्यावचनम् श्रुत्वा शाटीमाच्छाद्य दुश्छदाम् |
स प्रतिष्ठत पन्थानम् यत्र रामनिवेशनम् || २-३२-३२
भृग्वङ्गिरसमम् दीप्त्या त्रिजटम् जनसंसदि |
आ पन्चमायाः कक्ष्याया न एनम् कश्चित् अवारयत् || २-३२-३३
स राज पुत्रम् आसाद्य त्रिजटः वाक्यम् अब्रवीत् |
निर्धनो बहु पुत्रः अस्मि राज पुत्र महा यशः |
क्षतवृत्तिर्वने नित्यम् प्रत्यवेक्षस्व मामिति || २-३२-३४
तमुवाच ततो रामः परिहाससमन्वितम् |
गवाम् सहस्रमप्येकम् न च विश्राणितम् मया |
परिक्षिपसि दण्डेन यावत्तावदवाप्य्ससि || २-३२-३५
स शाटीम् त्वरितः कट्याम् सम्ब्रान्तः परिवेष्ट्य ताम् |
आविद्ध्य दण्डम् चिक्षेप सर्वप्राणेन वेगितः || २-३२-३६
स तीर्त्वा सरयूपारम् दण्डस्तस्य कराच्च्युतः |
गोव्रजे बहुसाहास्रे पपातोक्षणसन्निधौ || २-३२-३७
तम् परिष्वज्य धर्मात्मा आतस्मात्सरयूतटात् |
आनयामास ता गोपैस्त्रिजटायाश्रमम् प्रति || २-३२-३८
उवाच च ततो रामस्तम् गार्ग्यमभिसान्त्वयन् |
मन्युर्न खलु कर्तव्यः परिहासो ह्ययम् मम || २-३२-३९
इदम् हि तेजस्तव यद्धुरत्ययम् |
तदेव जिज्ञासितु मिच्छता मया |
इमम् भवानर्थमभिप्रचोदितो |
वृणीष्व किंचेदपरम् व्यवस्यति || २-३२-४०
ब्रवीमि सत्येन न तेऽस्ति यन्त्रणा |
धनम् हि यद्यन्मम विप्रकारणात् |
भवत्सु सम्यक्र्पतिपादनेन त |
न्मयार्जितम् प्रीतियश्स्करम् भवेत् || २-३२-४१
तत स्सभार्य स्त्रिजटो महामुनि |
र्गवामनीकम् प्रतिगृह्य मोदितः |
यशोबलप्रीतिसुखोपबृम्हणी |
स्तदाशिषः प्रत्यवदन्महात्मनः || २-३२-४२
स चापि रामः प्रतिपूर्णमानसो |
महद्धनम् धर्मबलैरुपार्जितम् |
नियोजयामास सुहृज्जनेऽचिरा |
द्यथार्हसम्मानवचःप्रचोदितः || २-३२-४३
द्विजः सुहृद्भृत्यजनोऽथवा तदा |
दरिद्रभिक्षाचरणश्च योऽभवत् |
न तत्र कश्चिन्न बभूव तर्पितो |
यथार्ह सम्मानन दान सम्ब्रमैः || २-३२-४४
|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे द्वा त्रयः त्रिंशः सर्गः ||