Lakshmana too is permitted to go to the forest
Valmiki Ramayana – Kanda 2 – Sarga 31
एवम् श्रुत्वा तु सम्वादम् लक्ष्मणः पूर्वमागतः |
बाष्पपर्याकुलमुखः शोकम् सोढुमशक्नुवन् || २-३१-१
स भ्रातुश्चरणौ गाढम् निपीड्य रघुनन्दनः |
सीतामुवाचातियशाम् राघवम् च महाव्रतम् || २-३१-२
यदि गन्तुम् कृता बुद्धिर्वनम् मृगगजायुतम् |
अहम् त्वानुगमिष्यामि वनमद्रे धनुर्धरः || २-३१-३
मया समेतोऽरण्यानि बहूनि विचरिष्यसि |
पक्षिभिर्मृगयूथैश्च सम्घुष्टानि समन्ततः || २-३१-४
न देवलोकाक्रमणम् नामरत्वमहम् वृणे |
ऐश्वर्यम् वापि लोकानाम् कामये न त्वया विना || २-३१-५
एवम् ब्रुवाणः सौमित्रिर्विनवासाय निश्चितः |
रामेण बहुभिः सान्वैर्निषिद्धः पुनरब्रवीत् || २-३१-६
अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम् |
किमिदानीम् पुनरिदम् क्रियते मे निवारणम् || २-३१-७
यदर्थम् प्रतिषेधो मे क्रियते गन्तुमिच्छतः |
एतदिच्छामि विज्ञातुम् संशयो हि ममानघ || २-३१-८
ततः अब्रवीन् महा तेजा रामः लक्ष्मणम् अग्रतः |
स्थितम् प्राग् गामिनम् वीरम् याचमानम् कृत अन्जलिम् || २-३१-९
स्निग्धो धर्मरतो वीरस्सततम् सत्पथे स्थितः |
प्रियः प्राणसमो वशो भ्राता चापि सखा च मे || २-३१-१०
मया अद्य सह सौमित्रे त्वयि गच्चति तत् वनम् |
को भरिष्यति कौसल्याम् सुमित्राम् वा यशस्विनीम् || २-३१-११
अभिवर्षति कामैः यः पर्जन्यः पृथिवीम् इव |
स काम पाश पर्यस्तः महा तेजा मही पतिः || २-३१-१२
सा हि राज्यम् इदम् प्राप्य नृपस्य अश्व पतेः सुता |
दुह्खितानाम् सपत्नीनाम् न करिष्यति शोभनम् || २-३१-१३
न स्मरिष्यति कौसल्याम् सुमित्राम् च सुदुःखिताम् |
भरतो राज्यमासाद्य कैकेय्याम् पर्यवस्थितः || २-३१-१४
तामार्याम् स्वयमेवेह राजाऽनुग्रहणेन वा |
सौमित्रे भर कौसल्या मुक्तमर्थमिमम् चर || २-३१-१५
एवम् मम च ते भक्तिर्भविष्यति सुदर्शिता |
धर्मज्ञ गुरुपूजायाम् धर्मश्चाप्यतुलो महान् || २-३१-१६
एवम् कुरुष्व सौमित्रे मत्क्ऱ्^ते रघुनन्दन |
अस्माभिर्विप्रहीनाया मातुर्नो न भवेत्सुखम् || २-३१-१७
एवम् उक्तः तु रामेण लक्ष्मणः श्लक्ष्णया गिरा |
प्रत्युवाच तदा रामम् वाक्यज्ञो वाक्य कोविदम् || २-३१-१८
तव एव तेजसा वीर भरतः पूजयिष्यति |
कौसल्याम् च सुमित्राम् च प्रयतः न अत्र संशयः || २-३१-१९
कौसल्या बिभृयात् आर्या सहस्रम् अपि मद् विधान् |
यस्याः सहस्रम् ग्रामाणाम् सम्प्राप्तम् उपजीवनम् || २-३१-२०
तदात्मभरणे चैव मम मातुस्तथैव च |
पर्याप्ता मद्विधानाम् च भरणाय यशस्विनी || २-३१-२१
कुरुष्व मामनुचरम् वैधर्म्यम् नेह विद्यते |
कृतार्थोऽहम् भविष्यामि तव चार्थः प्रकल्पते || २-३१-२२
धनुर् आदाय सशरम् खनित्र पिटका धरः |
अग्रतः ते गमिष्यामि पन्थानम् अनुदर्शयन् || २-३१-२३
आहरिष्यामि ते नित्यम् मूलानि च फलानि च |
वन्यानि यानि च अन्यानि स्वाहाराणि तपस्विनाम् || २-३१-२४
भवांस् तु सह वैदेह्या गिरि सानुषु रंस्यते |
अहम् सर्वम् करिष्यामि जाग्रतः स्वपतः च ते || २-३१-२५
रामः तु अनेन वाक्येन सुप्रीतः प्रत्युवाच तम् |
व्रज आपृच्चस्व सौमित्रे सर्वम् एव सुहृज् जनम् || २-३१-२६
ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम् |
जनकस्य महा यज्ञे धनुषी रौद्र दर्शने || २-३१-२७
अभेद्य कवचे दिव्ये तूणी च अक्षय सायकौ |
आदित्य विमलौ च उभौ खड्गौ हेम परिष्कृतौ || २-३१-२८
सत्कृत्य निहितम् सर्वम् एतत् आचार्य सद्मनि |
स त्वम् आयुधम् आदाय क्षिप्रम् आव्रज लक्ष्मण || २-३१-२९
स सुहृज् जनम् आमन्त्र्य वन वासाय निश्चितः |
इष्क्वाकु गुरुम् आमन्त्र्य जग्राह आयुधम् उत्तमम् || २-३१-३०
तत् दिव्यम् राज शार्दूलः सत्कृतम् माल्य भूषितम् |
रामाय दर्शयाम् आस सौमित्रिः सर्वम् आयुधम् || २-३१-३१
तम् उवाच आत्मवान् रामः प्रीत्या लक्ष्मणम् आगतम् |
काले त्वम् आगतः सौम्य कान्क्षिते मम लक्ष्मण || २-३१-३२
अहम् प्रदातुम् इच्चामि यद् इदम् मामकम् धनम् |
ब्राह्मणेभ्यः तपस्विभ्यः त्वया सह परम्तप || २-३१-३३
वसन्ति इह दृढम् भक्त्या गुरुषु द्विज सत्तमाः |
तेषाम् अपि च मे भूयः सर्वेषाम् च उपजीविनाम् || २-३१-३४
वसिष्ठ पुत्रम् तु सुयज्ञम् आर्यम् |
त्वम् आनय आशु प्रवरम् द्विजानाम् |
अभिप्रयास्यामि वनम् समस्तान् |
अभ्यर्च्य शिष्टान् अपरान् द्विजातीन् || २-३१-३५
|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे एक त्रिंशः सर्गः ||