Ayodhya Kanda – Sarga 29 (Valmiki Ramayana)

Seetha’s insistence on going to the forest

Valmiki Ramayana – Kanda 2 – Sarga 29

एतत् तु वचनम् श्रुत्वा सीता रामस्य दुह्खिता |
प्रसक्त अश्रु मुखी मन्दम् इदम् वचनम् अब्रवीत् || २-२९-१

ये त्वया कीर्तिता दोषा वने वस्तव्यताम् प्रति |
गुणान् इति एव तान् विद्धि तव स्नेह पुरः कृतान् || २-२९-२

मृगाः सिम्हा गजाश्चैव शार्दूलाः शरभास्तथा |
पक्षिणः सृमराश्चैव ये चान्ये वनचारिणः || २-२९-३
अदृष्टपूर्वरूपत्वात्सर्वे ते तव राघव |
रूपम् दृष्ट्वापसर्पेयुर्भये सर्वे हि बिभ्यति || २-२९-४

त्वया च सह गन्तव्यम् मया गुरु जन आज्ञया |
त्वद् वियोगेन मे राम त्यक्तव्यम् इह जीवितम् || २-२९-५

न च माम् त्वत् समीपस्थम् अपि शक्नोति राघव |
सुराणाम् ईश्वरः शक्रः प्रधर्षयितुम् ओजसा || २-२९-६

पति हीना तु या नारी न सा शक्ष्यति जीवितुम् |
कामम् एवम् विधम् राम त्वया मम विदर्शितम् || २-२९-७

अथ च अपि महा प्राज्ञ ब्राह्मणानाम् मया श्रुतम् |
पुरा पितृ गृहे सत्यम् वस्तव्यम् किल मे वने || २-२९-८

लक्षणिभ्यो द्विजातिभ्यः श्रुत्वा अहम् वचनम् गृहे |
वन वास कृत उत्साहा नित्यम् एव महा बल || २-२९-९

आदेशो वन वासस्य प्राप्तव्यः स मया किल |
सा त्वया सह तत्र अहम् यास्यामि प्रिय न अन्यथा || २-२९-१०

कृत आदेशा भविष्यामि गमिष्यामि सह त्वया |
कालः च अयम् समुत्पन्नः सत्य वाग् भवतु द्विजः || २-२९-११

वन वासे हि जानामि दुह्खानि बहुधा किल |
प्राप्यन्ते नियतम् वीर पुरुषैः अकृत आत्मभिः || २-२९-१२

कन्यया च पितुर् गेहे वन वासः श्रुतः मया
भिक्षिण्याः साधु वृत्ताया मम मातुर् इह अग्रतः || २-२९-१३

प्रसादितः च वै पूर्वम् त्वम् वै बहु विधम् प्रभो |
गमनम् वन वासस्य कान्क्षितम् हि सह त्वया || २-२९-१४

कृत क्षणा अहम् भद्रम् ते गमनम् प्रति राघव |
वन वासस्य शूरस्य चर्या हि मम रोचते || २-२९-१५

शुद्ध आत्मन् प्रेम भावाद्द् हि भविष्यामि विकल्मषा |
भर्तारम् अनुगच्चन्ती भर्ता हि मम दैवतम् || २-२९-१६

प्रेत्य भावे अपि कल्याणः सम्गमः मे सह त्वया |
श्रुतिर् हि श्रूयते पुण्या ब्राह्मणानाम् यशस्विनाम् || २-२९-१७
इह लोके च पितृभिर् या स्त्री यस्य महा मते |
अद्भिर् दत्ता स्वधर्मेण प्रेत्य भावे अपि तस्य सा || २-२९-१८

एवम् अस्मात् स्वकाम् नारीम् सुवृत्ताम् हि पति व्रताम् |
न अभिरोचयसे नेतुम् त्वम् माम् केन इह हेतुना || २-२९-१९

भक्ताम् पति व्रताम् दीनाम् माम् समाम् सुख दुह्खयोह् |
नेतुम् अर्हसि काकुत्स्थ समान सुख दुह्खिनीम् || २-२९-२०

यदि माम् दुह्खिताम् एवम् वनम् नेतुम् न च इच्चसि |
विषम् अग्निम् जलम् वा अहम् आस्थास्ये मृत्यु कारणात् || २-२९-२१

एवम् बहु विधम् तम् सा याचते गमनम् प्रति |
न अनुमेने महा बाहुस् ताम् नेतुम् विजनम् वनम् || २-२९-२२

एवम् उक्ता तु सा चिन्ताम् मैथिली समुपागता |
स्नापयन्ती इव गाम् उष्णैः अश्रुभिर् नयन च्युतैः || २-२९-२३

चिन्तयन्तीम् तथा ताम् तु निवर्तयितुम् आत्मवान् |
ताम्रोष्ठीं स तदा सीताम् काकुत्स्थो बह्व् असान्त्वयत् || २-२९-२४

|| इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे एकोन त्रिंशः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।