Rama warns Seetha of difficulties of staying in forest
Valmiki Ramayana – Kanda 2 – Sarga 28
सएवम् ब्रुवतीम् सीताम् धर्मज्ञो धर्म वत्सलः |
निवर्तन अर्थे धर्म आत्मा वाक्यम् एतत् उवाच ह || २-२८-१
सान्त्वयित्वा पुनस्ताम् तु बाष्पदूषितलोचनाम् |
निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह || २-२८-२
सीते महा कुलीना असि धर्मे च निरता सदा |
इह आचर स्वधर्मम् त्वम् मा यथा मनसः सुखम् || २-२८-३
सीते यथा त्वाम् वक्ष्यामि तथा कार्यम् त्वया अबले |
वने दोषा हि बहवो वदतः तान् निबोध मे || २-२८-४
सीते विमुच्यताम् एषा वन वास कृता मतिः |
बहु दोषम् हि कान्तारम् वनम् इति अभिधीयते || २-२८-५
हित बुद्ध्या खलु वचो मया एतत् अभिधीयते |
सदा सुखम् न जानामि दुह्खम् एव सदा वनम् || २-२८-६
गिरि निर्झर सम्भूता गिरि कन्दर वासिनाम् |
सिम्हानाम् निनदा दुह्खाः श्रोतुम् दुह्खम् अतः वनम् || २-२८-७
क्रीडमानाश्च विस्रब्धा मत्ताह् शून्ये महामृगाः |
दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम् || २-२८-८
सग्राहाः सरितश्चैव पङ्कवत्यश्च दुस्तराः |
मत्तैरपि गजैर्नित्यमतो दुःखतरम् वनम् || २-२८-९
लताकण्टकसम्पूर्णाः कृकवाकूपनादिताः |
निरपाश्च सुदुर्गाश्च मार्गा दुःखमतो वनम् || २-२८-१०
सुप्यते पर्ण शय्यासु स्वयम् भग्नासु भू तले |
रात्रिषु श्रम खिन्नेन तस्मात् दुह्खतरम् वनम् || २-२८-११
अहोरात्रम् च सन्तोषः कर्तव्यो नियतात्मना |
फलैर्वृक्षावपतितैः सीते दुःखमतो वनम् || २-२८-१२
उपवासः च कर्तव्या यथा प्राणेन मैथिलि |
जटा भारः च कर्तव्यो वल्कल अम्बर धारिणा || २-२८-१३
देवतानाम् पितृइणाम् चकर्तव्यम् विधिपूर्वकम् |
प्राप्तानामतिथीनाम् च नित्यशः प्रतिपूजनम् || २-२८-१४
कार्यस्त्रीरभिषेकश्च काले काले च नित्यशः |
चरता नियमेनैव तस्माद्दुःखतरम् वनम् || २-२८-१५
उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः |
आर्षेण विधिना वेद्याम् बाले दुःखमतो वनम् || २-२८-१६
यथालब्धेन कर्तव्यः सन्तोष्स्तेन मैथिलि |
यताहारैर्वनचरैः सीते दुःखमतो वनम् || २-२८-१७
अतीव वातः तिमिरम् बुभुक्षा च अत्र नित्यशः |
भयानि च महान्ति अत्र ततः दुह्खतरम् वनम् || २-२८-१८
सरी सृपाः च बहवो बहु रूपाः च भामिनि |
चरन्ति पृथिवीम् दर्पात् अतः दुखतरम् वनम् || २-२८-१९
नदी निलयनाः सर्पा नदी कुटिल गामिनः |
तिष्ठन्ति आवृत्य पन्थानम् अतः दुह्खतरम् वनम् || २-२८-२०
पतम्गा वृश्चिकाः कीटा दंशाः च मशकैः सह |
बाधन्ते नित्यम् अबले सर्वम् दुह्खम् अतः वनम् || २-२८-२१
द्रुमाः कण्टकिनः चैव कुश काशाः च भामिनि |
वने व्याकुल शाखा अग्राः तेन दुह्खतरम् वनम् || २-२८-२२
कायक्लेशाश्च बहवो भयानि विविधानि च |
अरण्यवासे वसतो क्धुःखमेव ततो वनम् || २-२८-२३
क्रोधलोभे विमोक्तव्यौ कर्तव्या तपसे मतिः |
न भेतव्यम् च भेतव्ये नित्यम् दुःखमतो वनम् || २-२८-२४
तत् अलम् ते वनम् गत्वा क्षमम् न हि वनम् तव |
विमृशन्न् इह पश्यामि बहु दोषतरम् वनम् || २-२८-२५
वनम् तु नेतुम् न कृता मतिस् तदा |
बभूव रामेण यदा महात्मना |
न तस्य सीता वचनम् चकार तत् |
ततः अब्रवीद् रामम् इदम् सुदुह्खिता || २-२८-२६
|| इति अयोध्य कान्दे रामयने ष्टाविंशः सर्गः ||