Ayodhya Kanda – Sarga 27 (Valmiki Ramayana)

Seetha’s wish to go to forest along with Rama

Valmiki Ramayana – Kanda 2 – Sarga 27

एवम् उक्ता तु वैदेही प्रिय अर्हा प्रिय वादिनी |
प्रणयात् एव सम्क्रुद्धा भर्तारम् इदम् अब्रवीत् || २-२७-१

किमिदम् भाषसे राम वाक्यम् लघुतया ध्रुवम् |
त्वया यदपहास्यम् मे श्रुत्वा नरवरात्मज || २-२७-२

आर्य पुत्र पिता माता भ्राता पुत्रः तथा स्नुषा |
स्वानि पुण्यानि भुन्जानाः स्वम् स्वम् भाग्यम् उपासते || २-२७-३

भर्तुर् भाग्यम् तु भार्या एका प्राप्नोति पुरुष ऋषभ |
अतः चैव अहम् आदिष्टा वने वस्तव्यम् इति अपि || २-२७-४

न पिता न आत्मजो न आत्मा न माता न सखी जनः |
इह प्रेत्य च नारीणाम् पतिर् एको गतिः सदा || २-२७-५

यदि त्वम् प्रस्थितः दुर्गम् वनम् अद्य एव राघव |
अग्रतः ते गमिष्यामि मृद्नन्ती कुश कण्टकान् || २-२७-६

ईर्ष्या रोषौ बहिष् कृत्य भुक्त शेषम् इव उदकम् |
नय माम् वीर विश्रब्धः पापम् मयि न विद्यते || २-२७-७

प्रासाद अग्रैः विमानैः वा वैहायस गतेन वा |
सर्व अवस्था गता भर्तुः पादच् चाया विशिष्यते || २-२७-८

अनुशिष्टा अस्मि मात्रा च पित्रा च विविध आश्रयम् |
न अस्मि सम्प्रति वक्तव्या वर्तितव्यम् यथा मया || २-२७-९

अहम् दुर्गम् गमिष्यामि वनम् पुरुषवर्जितम् |
नानामृगगणाकीर्णम् शार्दूलवृकसेवितम् || २-२७-१०

सुखम् वने निवत्स्यामि यथा एव भवने पितुः |
अचिन्तयन्ती त्रीम्ल् लोकामः चिन्तयन्ती पति व्रतम् || २-२७-११

शुश्रूषमाणा ते नित्यम् नियता ब्रह्म चारिणी |
सह रंस्ये त्वया वीर वनेषु मधु गन्धिषु || २-२७-१२

त्वम् हि कर्तुम् वने शक्तः राम सम्परिपालनम् |
अन्यस्य पै जनस्य इह किम् पुनर् मम मानद || २-२७-१३

सह त्वया गमिश्यामि वसमद्य न संशयः |
नाहम् शक्या महाभाग निवर्तयितु मुद्यता || २-२७१४

फल मूल अशना नित्यम् भविष्यामि न संशयः |
न ते दुह्खम् करिष्यामि निवसन्ती सह त्वया || २-२७-१५

इच्चामि सरितः शैलान् पल्वलानि वनानि च |
द्रष्टुम् सर्वत्र निर्भीता त्वया नाथेन धीमता || २-२७-१६

हंस कारण्डव आकीर्णाः पद्मिनीः साधु पुष्पिताः |
इच्चेयम् सुखिनी द्रष्टुम् त्वया वीरेण सम्गता || २-२७-१७

अभिषेकम् करिष्यामि तासु नित्यम् यतव्रता |
सह त्वया विशाल अक्ष रंस्ये परम नन्दिनी || २-२७-१८

एवम् वर्ष सहस्राणाम् शतम् वा अहम् त्वया सह |
व्यतिक्रमम् न वेत्स्यामि स्वर्गोऽपि हि न मे मतः || २-२७-१९

स्वर्गे अपि च विना वासो भविता यदि राघव |
त्वया मम नर व्याघ्र न अहम् तम् अपि रोचये || २-२७-२०

अहम् गमिष्यामि वनम् सुदुर्गमम् |
मृग आयुतम् वानर वारणैः युतम् |
वने निवत्स्यामि यथा पितुर् गृहे |
तव एव पादाव् उपगृह्य सम्मता || २-२७-२१

अनन्य भावाम् अनुरक्त चेतसम् |
त्वया वियुक्ताम् मरणाय निश्चिताम् |
नयस्व माम् साधु कुरुष्व याचनाम् |
न ते मया अतः गुरुता भविष्यति || २-२७-२२

तथा ब्रुवाणाम् अपि धर्म वत्सलो |
न च स्म सीताम् नृ वरः निनीषति |
उवाच च एनाम् बहु सम्निवर्तने |
वने निवासस्य च दुह्खिताम् प्रति || २-२७-२३

|| इति श्रिमद् रामयने अयोध्य कान्दे षत्विंसः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।