Rama obtains Kausalya’s permission
Valmiki Ramayana – Kanda 2 – Sarga 24
तम् समीक्ष्य तु अवहितम् पितुर् निर्देश पालने |
कौसल्या बाष्प सम्रुद्धा वचो धर्मिष्ठम् अब्रवीत् || २-२४-१
अदृष्ट दुह्खो धर्मात्मा सर्व भूत प्रियम् वदः |
मयि जातः दशरथात् कथम् उन्चेन वर्तयेत् || २-२४-२
यस्य भृत्याः च दासाः च मृष्टानि अन्नानि भुन्जते |
कथम् स भोक्ष्यते नाथो वने मूल फलानि अयम् || २-२४-३
क एतत् श्रद्दधेत् श्रुत्वा कस्य वा न भवेद् भयम् |
गुणवान् दयितः राज्ञो राघवो यद् विवास्यते || २-२४-४
नूनम् तु बलवान् लोके कृतान्तः सर्वमादिशन् |
लोके रामाभिरामस्त्वम् वनम् यत्र गमिष्यसि || २-२४-५
अयम् तु मामात्मभवस्तवादर्शनमारुतः |
विलापदुःखसमिधो रुदिताश्रुहुताहुतिः || २-२४-६
चिन्ताबाष्पमहाधूस्तवागमनचिन्तजः |
कर्शयित्वा भृशम् पुत्र निश्वासायाससम्भवः || २-२४-७
त्वया विहीनाम् इह माम् शोक अग्निर् अतुलो महान् |
प्रधक्ष्यति यथा कक्षम् चित्र भानुर् हिम अत्यये || २-२४-८
कथम् हि धेनुः स्वम् वत्सम् गच्चन्तम् न अनुगच्चति |
अहम् त्वा अनुगमिष्यामि यत्र पुत्र गमिष्यसि || २-२४-९
तथा निगदितम् मात्रा तत् वाक्यम् पुरुष ऱ्षभः |
श्रुत्वा रामः अब्रवीद् वाक्यम् मातरम् भृश दुह्खिताम् ||२-२४-१०
कैकेय्या वन्चितः राजा मयि च अरण्यम् आश्रिते |
भवत्या च परित्यक्तः न नूनम् वर्तयिष्यति || २-२४-११
भर्तुः किल परित्यागो नृशंसः केवलम् स्त्रियाः |
स भवत्या न कर्तव्यो मनसा अपि विगर्हितः || २-२४-१२
यावज् जीवति काकुत्स्थः पिता मे जगती पतिः |
शुश्रूषा क्रियताम् तावत् स हि धर्मः सनातनः || २-२४-१३
एवम् उक्ता तु रामेण कौसल्या शुभ दर्शना |
तथा इति उवाच सुप्रीता रामम् अक्लिष्ट कारिणम् || २-२४-१४
एवम् उक्तः तु वचनम् रामः धर्मभ्ऱ्ताम् वरः |
भूयः ताम् अब्रवीद् वाक्यम् मातरम् भृश दुह्खिताम् || २-२४-१५
मया चैव भवत्या च कर्तव्यम् वचनम् पितुः |
राजा भर्ता गुरुः श्रेष्ठः सर्वेषाम् ईश्वरः प्रभुः || २-२४-१६
इमानि तु महा अरण्ये विह्ऱ्त्य नव पन्च च |
वर्षाणि परम प्रीतः स्थास्यामि वचने तव || २-२४-१७
एवम् उक्ता प्रियम् पुत्रम् बाष्प पूर्ण आनना तदा |
उवाच परम आर्ता तु कौसल्या पुत्र वत्सला || २-२४-१८
आसाम् राम सपत्नीनाम् वस्तुम् मध्ये न मे क्षमम् |
नय माम् अपि काकुत्स्थ वनम् वन्यम् म्ऱ्गीम् यथा || २-२४-१९
यदि ते गमने बुद्धिः कृता पितुर् अपेक्षया |
ताम् तथा रुदतीम् रामः रुदन् वचनम् अब्रवीत् || २-२४-२०
जीवन्त्या हि स्त्रिया भर्ता दैवतम् प्रभुर् एव च |
भवत्या मम चैवाद्य राजा प्रभवति प्रभुः ।।२-२४-२१
न ह्यनाथा वयं राज्ज्ञा लोकनाथेन धीम ता ।
भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः ।।२-२४-२२
भवतीमनुवर्तेत स हिधर्मरतः सदा ।
यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः || २-२४-२३
श्रमम् न अवाप्नुयात् किंचित् अप्रमत्ता तथा कुरु |
दारुणश्चाप्ययम् शोको यथैनम् न विनाशयेत् || २-२४-२४
राज्ञो वृद्धस्य सततम् हितम् चर समाहिता |
व्रत उपवास निरता या नारी परम उत्तमा || २-२४-२५
भर्तारम् न अनुवर्तेत सा च पाप गतिर् भवेत् |
भर्तुः शुश्रूषया नारी लभते स्वर्गमु त्तमम् || २-२४-२६
अपि या निर्नमस्कारा निवृत्ता देवपूजनात् |
शुश्रूषम् एव कुर्वीत भर्तुः प्रिय हिते रता || २-२४-२७
एष धर्मः पुरा द्ऱ्ष्टः लोके वेदे श्रुतः स्म्ऱ्तः |
अग्निकार्येषु च सदा सुमनोभिश्च देवताः || २-२४-२८
पूज्याः ते मत् क्ऱ्ते देवि ब्राह्मणाः चैव सुव्रताः |
एवम् कालम् प्रतीक्षस्व मम आगमन कान्क्षिणी || २-२४-२९
प्राप्स्यसे परमम् कामम् मयि प्रत्यागते सति |
प्राप्स्यसे परमम् कामम् मयि प्रत्यागते सति || २-२४-३०
यदि धर्मभ्ऱ्ताम् श्रेष्ठो धारयिष्यति जीवितम् |
एवम् उक्ता तु रामेण बाष्प पर्याकुल ईक्षणा || २-२४-३१
कौसल्या पुत्र शोक आर्ता रामम् वचनम् अब्रवीत् |
गमने सुकृताम् बुद्धिम् न ते शक्नोमि पुत्रक || २-२४-३२
विनिवर्तयितुम् वीर नूनम् कालो दुरत्ययः |
गच्च पुत्र त्वम् एक अग्रः भद्रम् ते अस्तु सदा विभो || २-२४-३३
पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा |
प्रत्यागते महाभागे कृतार्थे चरितव्रते || २-२४-३४
पितुरानृण्यताम् प्राप्तेत्वयि लप्स्ये परम् सुखम् |
कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि || २-२४-३५
यस्त्वा संचोदयति मे वच आच्चिद्य राघव |
गच्छेदानीम् महाबाहो क्षेमेण पुनरागतः || २-२४-३६
नन्दयिष्यसि माम् पुत्रः साम्ना वाक्येन चारुणा |
अपीदानीम् स कालः स्स्याद्वनात्प्रत्यागतम् पुनः || २-२४-३७
यत्त्वाम् पुत्रकः पश्येयम् जटावल्कधारिणम् |
तथा हि रामम् वन वास निश्चितम् |
ददर्श देवी परमेण चेतसा |
उवाच रामम् शुभ लक्षणम् वचो|
बभूव च स्वस्त्ययन अभिकान्क्षिणी || २-२४-३८
|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे चतुर्विशःसर्गः ||