Lakshmana’s angry words
Valmiki Ramayana – Kanda 2 – Sarga 23
इति ब्रुवति रामे तु लक्ष्मणो अधः शिरा मुहुः |
श्रुत्वा मध्यम् जगाम इव मनसा दुह्ख हर्षयोह् || २-२३-१
तदा तु बद्ध्वा भ्रुकुटीम् भ्रुवोर् मध्ये नर ऋषभ |
निशश्वास महा सर्पो बिलस्यैव रोषितः || २-२३-२
तस्य दुष्प्रतिवीक्ष्यम् तत् भ्रुकुटी सहितम् तदा |
बभौ क्रुद्धस्य सिम्हस्य मुखस्य सदृशम् मुखम् || २-२३-३
अग्रहः तम् विधुन्वंस् तु हस्ती हस्तम् इवात्मनः |
तिर्यग् ऊर्ध्वम् शरीरे च पातयित्वा शिरः धराम् || २-२३-४
अग्र अक्ष्णा वीक्षमाणः तु तिर्यग् भ्रातरम् अब्रवीत् |
अस्थाने सम्भ्रमः यस्य जातः वै सुमहान् अयम् || २-२३-५
धर्म दोष प्रसन्गेन लोकस्य अनतिशन्कया |
कथम् हि एतत् असम्भ्रान्तः त्वद् विधो वक्तुम् अर्हति || २-२३-६
यथा दैवम् अशौण्डीरम् शौण्डीरः क्षत्रिय ऋषभः |
किम् नाम कृपणम् दैवम् अशक्तम् अभिशंसति |
पापयोस् तु कथम् नाम तयोह् शन्का न विद्यते || २-२३-७
सन्ति धर्म उपधाः श्लक्ष्णा धर्मात्मन् किम् न बुध्यसे || २-२३-८
तयोस्सुचरितम् स्वार्थम् शाठ्यात् परिजिहीर्षतोः |
यदि नैवम् व्यवसितम् स्याद्धि प्राग्रेव राघव |
तयोः प्रागेव दत्तश्च स्याद्वरः प्रकृतश्च सः || २-२३-९
लोक विद्विष्टम् आरब्धम् त्वद् अन्यस्य अभिषेचनम् |
नोत्सहे सहितुम् वीर तत्र मे क्षन्तुमर्हसि || २-२३-१०
येन इयम् आगता द्वैधम् तव बुद्धिर् मही पते |
स हि धर्मः मम द्वेष्यः प्रसन्गात् यस्य मुह्यसि || २-२३-११
कथम् त्वम् कर्मणा शक्तः कैकेयीवशवर्तिनः |
करिष्यसि पितुर्वाक्यमधर्मिष्ठम् विगर्हितम् || २-२३-१२
यद्य् अपि प्रतिपत्तिस् ते दैवी च अपि तयोः मतम् |
तथा अपि उपेक्षणीयम् ते न मे तत् अपि रोचते || २-२३-१३
मन्साऽपि कथम् कामम् कुर्यास्त्वम् कामवृत्तयोः |
तयोस्त्वहितयोर्नित्यम् शत्र्वोः पित्रभिधानयोः || २-२३-१४
यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम् |
तथा प्युपेक्षणीयम् ते न मे तदपि रोचते || २-२३-१५
विक्लवो वीर्य हीनो यः स दैवम् अनुवर्तते |
वीराः सम्भावित आत्मानो न दैवम् पर्युपासते || २-२३-१६
दैवम् पुरुष कारेण यः समर्थः प्रबाधितुम् |
न दैवेन विपन्न अर्थः पुरुषः सो अवसीदति || २-२३-१७
द्रक्ष्यन्ति तु अद्य दैवस्य पौरुषम् पुरुषस्य च |
दैव मानुषयोः अद्य व्यक्ता व्यक्तिर् भविष्यति || २-२३-१८
अद्य मत् पौरुष हतम् दैवम् द्रक्ष्यन्ति वै जनाः |
यद् दैवात् आहतम् ते अद्य द्ऱ्ष्टम् राज्य अभिषेचनम् || २-२३-१९
अत्यन्कुशम् इव उद्दामम् गजम् मद बल उद्धतम् |
प्रधावितम् अहम् दैवम् पौरुषेण निवर्तये || २-२३-२०
लोक पालाः समस्ताः ते न अद्य राम अभिषेचनम् |
न च क्ऱ्त्स्नाः त्रयो लोका विहन्युः किम् पुनः पिता || २-२३-२१
यैः विवासः तव अरण्ये मिथो राजन् समर्थितः |
अरण्ये तु विवत्स्यन्ति चतुर् दश समाः तथा || २-२३-२२
अहम् तदा आशाम् चेत्स्यामि पितुस् तस्याः च या तव |
अभिषेक विघातेन पुत्र राज्याय वर्तते || २-२३-२३
मद् बलेन विरुद्धाय न स्यात् दैव बलम् तथा |
प्रभविष्यति दुह्खाय यथा उग्रम् पौरुषम् मम || २-२३-२४
ऊर्ध्वम् वर्ष सहस्र अन्ते प्रजा पाल्यम् अनन्तरम् |
आर्य पुत्राः करिष्यन्ति वन वासम् गते त्वयि || २-२३-२५
पूर्व राज ऱ्षि व्ऱ्त्त्या हि वन वासो विधीयते |
प्रजा निक्षिप्य पुत्रेषु पुत्रवत् परिपालने || २-२३-२६
स चेद् राजनि अनेक अग्रे राज्य विभ्रम शन्कया |
न एवम् इच्चसि धर्मात्मन् राज्यम् राम त्वम् आत्मनि || २-२३-२७
प्रतिजाने च ते वीर मा भूवम् वीर लोक भाक् |
राज्यम् च तव रक्षेयम् अहम् वेला इव सागरम् || २-२३-२८
मन्गलैः अभिषिन्चस्व तत्र त्वम् व्याप्ऱ्तः भव |
अहम् एको मही पालान् अलम् वारयितुम् बलात् || २-२३-२९
न शोभ अर्थाव् इमौ बाहू न धनुर् भूषणाय मे |
न असिरा बन्धन अर्थाय न शराः स्तम्भ हेतवः || २-२३-३०
अमित्र दमन अर्थम् मे सर्वम् एतच् चतुष्टयम् |
न च अहम् कामये अत्यर्थम् यः स्यात् शत्रुर् मतः मम || २-२३-३१
असिना तीक्ष्ण धारेण विद्युच् चलित वर्चसा |
प्रग्ऱ्हीतेन वै शत्रुम् वज्रिणम् वा न कल्पये || २-२३-३२
खड्ग निष्पेष निष्पिष्टैः गहना दुश्चरा च मे |
हस्ति अश्व नर हस्त ऊरु शिरोभिर् भविता मही || २-२३-३३
खड्ग धारा हता मे अद्य दीप्यमानाइव अद्रयः |
पतिष्यन्ति द्विपा भूमौ मेघाइव सविद्युतः || २-२३-३४
बद्ध गोधा अन्गुलि त्राणे प्रगृहीत शर आसने |
कथम् पुरुष मानी स्यात् पुरुषाणाम् मयि स्थिते || २-२३-३५
बहुभिः च एकम् अत्यस्यन्न् एकेन च बहून् जनान् |
विनियोक्ष्याम्य् अहम् बाणान् नृ वाजि गज मर्मसु || २-२३-३६
अद्य मे अस्त्र प्रभावस्य प्रभावः प्रभविष्यति |
राज्ञः च अप्रभुताम् कर्तुम् प्रभुत्वम् च तव प्रभो || २-२३-३७
अद्य चन्दन सारस्य केयूरा मोक्षणस्य च |
वसूनाम् च विमोक्षस्य सुह्ऱ्दाम् पालनस्य च || २-२३-३८
अनुरूपाव् इमौ बाहू राम कर्म करिष्यतः |
अभिषेचन विघ्नस्य कर्तृउणाम् ते निवारणे || २-२३-३९
ब्रवीहि को अद्य एव मया वियुज्यताम् |
तव असुह्ऱ्द् प्राण यशः सुह्ऱ्ज् जनैः |
यथा तव इयम् वसुधा वशे भवेत् |
तथा एव माम् शाधि तव अस्मि किम्करः || २-२३-४०
विम्ऱ्ज्य बाष्पम् परिसान्त्व्य च असकृत् |
स लक्ष्मणम् राघव वंश वर्धनः |
उवाच पित्र्ये वचने व्यवस्थितम् |
निबोध माम् एष हि सौम्य सत् पथः || २-२३-४१
|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे त्रयोविंशः सर्गः ||