Ayodhya Kanda – Sarga 20 (Valmiki Ramayana)

Kausalya’s grief

Valmiki Ramayana – Kanda 2 – Sarga 20

तस्मिंस्तु पुरुष्व्याघ्रे निष्क्रामति कृताञ्जलौ |
आर्तशच्दो महान् जज्ञे स्त्रीणाम न्तःपुरे तदा || २-२०-१

क्ऱ्^त्येष्वचोदितः पित्रा सर्वस्यान्तः पुरस्य च |
गतिर्यः शरणम् चासीत् स रोओमोऽद्य प्रवत्स्यति || २-२०-२

कौसल्यायाम् यथा युक्तो जनन्याम् वर्तते सदा |
तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः || २-२०-३

न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन् |
कृद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति || २-२०-४

अभुद्धिर्बत नो राजा जीवलोकम् चरत्ययम् |
यो गतिम् सर्वभूतानाम् परित्यजति राघवम् || २-२०-५

इति सर्वा महिष्यस्ता विवत्सा इव धेनवः |
पतिमाचुक्रुशुश्चैव सस्वरम् चापि चुक्रुशुः || २-२०-६

स हि चान्तः पुरे घोरमार्तशब्धम् महीपतिः |
पुत्रशोकाभिसन्तप्तः श्रुत्वा व्यालीयतासने || २-२०-७

रामः तु भ्ऱ्शम् आयस्तः निह्श्वसन्न् इव कुन्जरः |
जगाम सहितः भ्रात्रा मातुर् अन्तः पुरम् वशी || २-२०-८

सो अपश्यत् पुरुषम् तत्र व्ऱ्द्धम् परम पूजितम् |
उपविष्टम् ग्ऱ्ह द्वारि तिष्ठतः च अपरान् बहून् || २-२०-९

द्ऱ्^ष्ट्वै तु तदा रामं ते सर्वे सहसोत्थिताः |
जयेन जयताम् श्रेष्ठम् वर्धयन्ति स्म राघवम् || २-२०-१०

प्रविश्य प्रथमाम् कक्ष्याम् द्वितीयायाम् ददर्श सः |
ब्राह्मणान् वेद सम्पन्नान् व्ऱ्द्धान् राज्ञा अभिसत्क्ऱ्तान् || २-२०-११

प्रणम्य रामः तान् व्ऱ्द्धांस् त्ऱ्तीयायाम् ददर्श सः |
स्त्रियो व्ऱ्द्धाः च बालाः च द्वार रक्षण तत्पराः || २-२०-१२

वर्धयित्वा प्रह्ऱ्ष्टाः ताः प्रविश्य च ग्ऱ्हम् स्त्रियः |
न्यवेदयन्त त्वरिता राम मातुः प्रियम् तदा || २-२०-१३

कौसल्या अपि तदा देवी रात्रिम् स्थित्वा समाहिता |
प्रभाते तु अकरोत् पूजाम् विष्णोह् पुत्र हित एषिणी || २-२०-१४

सा क्षौम वसना ह्ऱ्ष्टा नित्यम् व्रत परायणा |
अग्निम् जुहोति स्म तदा मन्त्रवत् क्ऱ्त मन्गला || २-२०-१५

प्रविश्य च तदा रामः मातुर् अन्तः पुरम् शुभम् |
ददर्श मातरम् तत्र हावयन्तीम् हुत अशनम् || २-२०-१६

देवकार्यनिमित्तम् च तत्रापश्यत् समुद्यतम्|
दध्यक्षतम् घृतम् चैव मोदकान् हविषस्तदा || २-२०-१७
लाजान् माल्यानि शुक्लानि पायसम् कृसरम् तथा |
समिधः पूर्णकुम्भांश्छ ददर्श रघुनंदनः || २-२०-१८

ताम् शुक्लक्षौमसम्वीताम् व्रतयोगेन कर्शिताम् |
तर्पयन्तीम् ददर्शाद्भिः देवताम् देववर्णिनीम् || २-२०-१९

सा चिरस्य आत्मजम् द्ऱ्ष्ट्वा मात्ऱ् नन्दनम् आगतम् |
अभिचक्राम सम्ह्ऱ्ष्टा किशोरम् वडवा यथा || २-२०-२०

स मातरमभिक्रान्तामुपसम्गृह्य राघवः |
परिष्वक्तश्च बाहुभ्यामुपाग्रातश्च मूर्धनि || २-२०-२१

तम् उवाच दुराधर्षम् राघवम् सुतम् आत्मनः |
कौसल्या पुत्र वात्सल्यात् इदम् प्रिय हितम् वचः || २-२०-२२

व्ऱ्द्धानाम् धर्म शीलानाम् राजर्षीणाम् महात्मनाम् |
प्राप्नुहि आयुः च कीर्तिम् च धर्मम् च उपहितम् कुले || २-२०-२३

सत्य प्रतिज्ञम् पितरम् राजानम् पश्य राघव |
अद्य एव हि त्वाम् धर्म आत्मा यौवराज्ये अभिषेक्ष्यति || २-२०-२४

दत्तमासनमालभ्य भोजनेन निमन्त्रितः |
मातरम् राघवः किंचित् प्रसार्य अन्जलिम् अब्रवीत् || २-२०-२५

स स्वभाव विनीतः च गौरवाच् च तदा आनतः |
प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे || २-२०-२६

देवि नूनम् न जानीषे महद् भयम् उपस्थितम् |
इदम् तव च दुह्खाय वैदेह्या लक्ष्मणस्य च || २-२०-२७

गमिष्ये दण्डकारण्यम् किमनेनासनेन मे |
विष्टरासनयोग्यो हि कालोऽयम् मामुपस्थितः || २-२०-२८

चतुर्दश हि वर्षाणि वत्स्यामि विजने वने |
मधु मूल फलैः जीवन् हित्वा मुनिवद् आमिषम् || २-२०-२९

भरताय महा राजो यौवराज्यम् प्रयच्चति |
माम् पुनर् दण्डक अरण्यम् विवासयति तापसम् || २-२०-३०

स ष्ट्चाअष्टौ च वर्षाणि वत्स्यामि विजने वने |
आसेवमानो वन्यानि फलमूलैश्च चर्तयन् || २-२०-३१

सा निकृत्तैव सालस्य यष्टिः परशुना वने |
पपात सहसा देवी देवतेव दिवश्च्युता || २-२०-३२

ताम् अदुह्ख उचिताम् द्ऱ्ष्ट्वा पतिताम् कदलीम् इव |
रामः तु उत्थापयाम् आस मातरम् गत चेतसम् || २-२०-३३

उपाव्ऱ्त्य उत्थिताम् दीनाम् वडवाम् इव वाहिताम् |
पांशु गुण्ठित सर्व अग्नीम् विममर्श च पाणिना || २-२०-३४

सा राघवम् उपासीनम् असुख आर्ता सुख उचिता |
उवाच पुरुष व्याघ्रम् उपश्ऱ्ण्वति लक्ष्मणे || २-२०-३५

यदि पुत्र न जायेथा मम शोकाय राघव |
न स्म दुह्खम् अतः भूयः पश्येयम् अहम् अप्रजा || २-२०-३६

एकएव हि वन्ध्यायाः शोको भवति मानवः |
अप्रजा अस्मि इति सम्तापो न हि अन्यः पुत्र विद्यते || २-२०-३७

न द्ऱ्ष्ट पूर्वम् कल्याणम् सुखम् वा पति पौरुषे |
अपि पुत्रे विपश्येयम् इति राम आस्थितम् मया || २-२०-३८

सा बहूनि अमनोज्ञानि वाक्यानि ह्ऱ्दयच्चिदाम् |
अहम् श्रोष्ये सपत्नीनाम् अवराणाम् वरा सती || २-२०-३९

अतः दुह्खतरम् किम् नु प्रमदानाम् भविष्यति |
त्वयि सम्निहिते अपि एवम् अहम् आसम् निराक्ऱ्ता || २-२०-४०

त्वयि सन्निहितेऽप्येवमहमासं निराकृता |
किम् पुनः प्रोषिते तात ध्रुवम् मरणम् एव मे || २-२०-४१

अत्यन्तनिगृहीतास्मि भर्तुर्नित्य्मतन्त्रिता |
परिवारेण कैकेय्या समा वाप्यथवाऽवरा || २-२०-४२

यो हि माम् सेवते कश्चित् अथ वा अपि अनुवर्तते |
कैकेय्याः पुत्रम् अन्वीक्ष्य स जनो न अभिभाषते || २-२०-४३

नित्यक्रोधतया तस्याः कथं नु खरवादि तत् |
कैकेय्या वदनम् द्रष्टुम् पुत्र शक्ष्यामि दुर्गता || २-२०-४४

दश सप्त च वर्षाणि तव जातस्य राघव |
असितानि प्रकान्क्षन्त्या मया दुह्ख परिक्षयम् || २-२०-४५

तदक्षयम् महाद्दुःखम् नोत्सहे सहितुम् चिरम् |
विप्रकारम् सपत्नीनामेवम् जीर्णापि राघव || २-२०-४६

अपश्यन्ती तव मुखम् परिपूर्णशशिप्रभम् |
कृपणा वर्तयिष्यामि कथम् कृपणजीविकाम् || २-२०-४७

उपवासैः च योगैः च बहुभिः च परिश्रमैः |
दुह्खम् सम्वर्धितः मोघम् त्वम् हि दुर्गतया मया || २-२०-४८

स्थिरम् तु हृदयम् मन्ये मम इदम् यन् न दीर्यते |
प्रावृषि इव महा नद्याः स्पृष्टम् कूलम् नव अम्भसा || २-२०-४९

मम एव नूनम् मरणम् न विद्यते |
न च अवकाशो अस्ति यम क्षये मम |
यद् अन्तको अद्य एव न माम् जिहीर्षति |
प्रसह्य सिम्हो रुदतीम् म्ऱ्गीम् इव || २-२०-५०

स्थिरम् हि नूनम् हृदयम् मम आयसम् |
न भिद्यते यद् भुवि न अवदीर्यते |
अनेन दुःखेन च देहम् अर्पितम् |
ध्रुवम् हि अकाले मरणम् न विद्यते || २-२०-५१

इदम् तु दुःखम् यद् अनर्थकानि मे|
व्रतानि दानानि च सम्यमाः च हि |
तपः च तप्तम् यद् अपत्य कारणात् |
सुनिष्फलम् बीजम् इव उप्तम् ऊषरे || २-२०-५२

यदि हि अकाले मरणम् स्वया इच्चया |
लभेत कश्चित् गुरु दुःख कर्शितः |
गता अहम् अद्य एव परेत संसदम् |
विना त्वया धेनुर् इव आत्मजेन वै || २-२०-५३

अथापि किम् जीवित मद्य मे वृथा |
त्वया विना च्न्द्रनिभाननप्रभ |
अनुव्रजिष्यामि वनम् त्वयैव गौः |
सुदुर्बला वत्समिवानुकाङ्क्षया || २-२०-५४

भृशम् असुखम् अमर्षिता तदा |
बहु विललाप समीक्ष्य राघवम् |
व्यसनम् उपनिशाम्य सा महत् |
सुतम् इव बद्धम् अवेक्ष्य किम्नरी || २-२०-५५

|| इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे विंशः सर्गः ||

हिंदू धर्म, जिसे सनातन धर्म भी कहा जाता है, विश्व के सबसे प्राचीन धर्मों में से एक है। यह केवल एक धर्म नहीं, बल्कि एक जीवन पद्धति है, जो वेदों, उपनिषदों, पुराणों, भगवद गीता, रामायण और महाभारत जैसे ग्रंथों पर आधारित है। इसका मूल उद्देश्य आत्मा की शुद्धि, मोक्ष की प्राप्ति और धर्म, अर्थ, काम, मोक्ष — इन चार पुरुषार्थों की प्राप्ति है।